प्। १७५)
अथ क्रमेण संस्कारदीक्षालक्षणकं शृणु ।
मण्डपं मण्डलं कुण्डं स्थण्डिलं लिङ्गपूजनम् ॥ १ ॥
यथा समयदीक्षा च कलशेत्वभिषेचनम् ।
अष्टविद्येश्वरान्बाह्ये शेषं पूर्ववदाचरेत् ॥ २ ॥
पूर्व शिष्योक्त संवादं श्रद्धापूर्वं कृतं यदि ।
अक्रोध भक्तिविश्वासं शर्वाज्ञा पालनं सदा ॥ ३ ॥
चतुष्टयसमायुक्तं सर्वक्लेशविवर्जितम् ।
गुरुद्रोह शिवद्रोह समयद्रोह कर्मकृत् ॥ ४ ॥
अदीक्षितस्य बन्धुत्व कृतघ्नत्वा विवेकिता ।
गुरुदोषावलोकं च स्वदोषा न वलोकनम् ॥ ५ ॥
प्। १७६)
एतैरष्टगुणैर्हीनः शिष्यः संस्कारमर्हति ।
विपरीतगुणं शिष्यं दीक्षयेत्समये पुनः ॥ ६ ॥
पश्चात्संस्कार दीक्षायामन्तेवासि भविष्यति ।
मण्डलाद्यग्निपूजान्तं कृत्वा वै देशिकोत्तमः ॥ ७ ॥
शौचस्नानादि संयुक्तं शिष्यं सव्ये निवेदयेत् ।
अग्निमध्ये महेशस्य हृदयाम्बुजमध्यमे ॥ ८ ॥
आवाहयेच्च संश्लिष्टौ शिवौ च हृदया सुधा ।
सन्तर्प्य पूजां कुर्यात् तयोः सन्निधिकारणम् ॥ ९ ॥
हृदये नैव मन्त्रेण हुनेदाहुति पञ्चकम् ।
शिष्यस्य हृदयं पश्चात् पुष्पेणास्त्रेण ताडयेत् ॥ १० ॥
प्। १७७)
ज्वालान्तराकृतिर्ज्योतिश्चैतन्यं तस्य भावयेत् ।
तत्र प्रविश्य हुङ्कारयुक्तये चक्रयो गता ॥ ११ ॥
संहारमुद्रया कृष्य पूरकेण हृदि न्यसेत् ।
ॐ हां हं हाम् आत्मने नमः ।
शिवं प्राप्तोऽपि चैतन्यं शिष्यस्य वदनान्तरम् ॥ १२ ॥
तद्दोषगुणमभ्यर्च्य सर्वमग्नौ तु दृश्यते ।
निर्धूमे ज्वलिते वह्नौ होमः सर्वार्थसिद्धिदः ॥ १३ ॥
अदीप्ते धूमसंयुक्ते होमात्विष्टं न सिध्यति ।
प्रदक्षिण शिखः स्निग्धः सुगन्धस्तेजसा युतः ॥ १४ ॥
मृदङ्गघोष सदृशो मेघनाद समन्वितः ।
प्। १७८)
उद्दीप्तः सुसमायुक्तः श्वेतो रक्तः शुभप्रदः ॥ १५ ॥
अर्चिस्सवयः शिखीयुक्तः स्फुलिङ्गभस्मसंयुतः ।
मीनं च शिशुनिर्घोषः कौशिकस्वरसन्निभः ॥ १६ ॥
एवमादिस्वरैर्युक्तो होतुः कालं स्वमावहेत् ।
शिष्यस्य पापचिह्नानि पावकेन विलोकयेत् ॥ १७ ॥
ब्रह्महा पितृहा चैव सुरापो गुरुतल्पगः ।
कृतघ्नो देव निन्दश्च ज्ञानिनिन्दस्तथैव च ॥ १८ ॥
ज्ञानचोरश्च भूहताश्च सम्पर्की गुरुनिन्दकः ।
महापातकिनामेषां विष्ठागन्धिर्भवेत्तदा ॥ १९ ॥
भ्रूणहर्तानि कुष्ठोऽग्निर्भ्रमति स्त्रीवधे पुनः ।
प्। १७९)
वालस्य वर्धके वह्नि स्फुटम स्फुटयेत्क्षणात् ॥ २० ॥
कम्पते होमचारेऽपि निस्तेजा गर्भघातजे ।
पावकस्य गुणैः शिष्य कल्मषं ज्ञापयेद्भृशम् ॥ २१ ॥
पापभक्षणहोमेन दहेदन्तेन चात्मना ।
ॐ खड्गहस्त ! पापकलुष बृहन्मयूख फट् फट्
पापभक्षणाय स्वाहा ॥ इति पापभक्षणमन्त्रः ॥
द्विर्जप्त्वा पापनाशाय तथा रुद्रांशं भावयेत् ॥ २२ ॥
द्विजभोजनसंशुद्धौ गर्भाधानाय पुङ्कृतौ ।
सीमन्तोन्नयने चैव जातकर्मणि नाम च ॥ २३ ॥
होमयेन्मूलमन्त्रेण पञ्चब्रह्म शतं शतम् ।
निष्क्रामणे तथान्नस्य प्राशने चौलकर्मणि ॥ २४ ॥
प्। १८०)
उपनीतौ व्रतादेशे गोदाने स्नानकर्मणि ।
विवाहे वनवासत्वे यतित्वे नन्दिकेश्वर ! ॥ २५ ॥
पञ्चांशं मूलमन्त्रेण प्रत्येकं होममाचरेत् ।
चतुराश्रमनिष्ठेषु तत्तदाश्रमका विधि ॥ २६ ॥
संस्कारं च ततः कुर्यात्तत ऊर्ध्वं न कारयेत् ।
गृहस्थारण्यवासित्वं यतित्वं च विशेषतः ॥ २७ ॥
पूर्ववन्मूलमन्त्रेण जुहुयाद्देशिकोत्तमः ।
शिथिलीभूतबन्धस्य शक्तादुर्कर्षणं तु यत् ॥ २८ ॥
आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते ।
स्वातन्त्र्यादि गुणं व्यक्तिस्तथा पुंसवनं भवेत् ॥ २९ ॥
प्। १८१)
मायात्मनो विरेकेन ज्ञानं सीमन्तवर्धनम् ।
शिवादिसदसद्वस्तु स्वीकारो जननं भवेत् ॥ ३० ॥
बोधनं यच्छिवत्वेन शिवत्वार्हत्वमाप्नुयात् ।
शिवत्वस्य प्रवेशो हि निष्क्रामणमितीर्यते ॥ ३१ ॥
परमानन्दमित्वमन्न प्राशनमुच्यते ।
शिव प्रसादोत्कर्षन्तु यत्तच्चूडात्मना भवेत् ॥ ३२ ॥
निर्वाण ज्ञानसूत्रेण सम्बद्धमुप जीवकम् ।
इन्द्रियाणां च संरोधो व्रतादेश इति स्मृतः ॥ ३३ ॥
पुनर्जन्म परित्यागो गोदानमिति कीर्तितम् ।
सर्वेषु निरपेक्षित्व सद्भावः स्नानमुच्यते ॥ ३४ ॥
प्। १८२)
अनन्तशक्ति संयुक्तिर्विवाह इति कीर्तितम् ।
अनन्तशक्ति विश्लेषो वानप्रस्थत्वमिष्यते ॥ ३५ ॥
केवलं शिवसद्भावो यतित्वमिति निदिर्शिते ।
शिखाबाह्योपवीतादि सन्त्यजेद्यदि तं प्रति ॥ ३६ ॥
तत्सर्वासु च दीक्षासु निर्वाणादिषु वाचरेत् ।
चत्वारिंशत्तु संस्काराः सारभूताः प्रकीर्तिताः ॥ ३७ ॥
ततस्तारक सङ्काशं समाना संहरेत्तदा ।
संहारमुद्रयादाय गुरोर्हृदयपङ्कजे ॥ ३८ ॥
स्थापयित्वा यथायोगं मूलमन्त्रेण कुम्भयेत् ।
शिवयोस्समरसीभावं मूलमन्त्रेण कारयेत् ॥ ३९ ॥
प्। १८३)
ब्रह्मादि कारणत्यागात् क्रमाद्रेचकयोगतः ।
आत्मानं शिवसद्भावं नीत्वा सद्भावयोगतः ॥ ४० ॥
उद्भवेन तदादाय हृत्सम्पुटितकेन च ।
मन्त्रेण रेचकेनैव शिष्यस्य हृदयाम्बुजे ॥ ४१ ॥
समाहितमना भूत्वा क्षिपेत्तत्कर्णिकोपरि ।
शिवमग्निं च सम्पूज्य पूजयित्वार्भकेण च ॥ ४२ ॥
प्रणीय प्रणतिं चैव कारयित्वा तथैव च ।
शिष्यस्य समयात्सर्वात् श्रावयेद्गुरुसत्तमः ॥ ४३ ॥
न निन्देत्कारणं देवं ज्ञाननिन्दां तथैव च ।
साधकं ज्ञानवृद्धं च ज्येष्ठं भक्तिसमन्वितम् ॥ ४४ ॥
प्। १८४)
आचार्यस्य तु ज्येष्ठस्य लिङ्गच्छायां न लङ्घयेत् ।
निर्माल्यन्तु न भुञ्जीत शिवभक्तान्न निन्दयेत् ॥ ४५ ॥
न लङ्घयेन्न दद्यात्तु दीक्षितस्य विशेषतः ।
शिवाग्नि गुरुपूजा वै कर्तव्या जीविकार्थिभिः ॥ ४६ ॥
श्रद्धाथ भक्तिविश्वासगुर्वाज्ञा पालनं तथा ।
नियमेन च कर्तव्यं चतुष्टयमपि क्रमात् ॥ ४७ ॥
गुरुद्रोह शिवद्रोह समयद्रोहमेव च ।
अदीक्षितस्य बन्धुत्वं कृतघ्नत्वाविवेकताम् ॥ ४८ ॥
गुरुदोषावलोकश्च स्वदोषानवलोकनम् ।
एतेषां सप्तविंशानां श्रावकाणां विशेषतः ॥ ४९ ॥
प्। १८५)
एकोनविंशत्कर्तव्यं कर्तव्यमिति चाष्टकम् ।
पूर्ववत्पञ्चगव्यं च चरुसम्भोजनं भवेत् ॥ ५० ॥
शिवभक्तप्रधानादि कर्तव्यमत ऊर्ध्वके ।
व्रताङ्गपोषास्सर्वेऽपि योग्यमेव तदादिकम् ॥ ५१ ॥
भक्तदण्डं च कौपीनं तथैव च कमण्डलुम् ।
पञ्चब्रह्मतदङ्गैश्च परिजप्य यथोदितम् ॥ ५२ ॥
निधायपात्रे स्वाहान्तं संहितामन्त्रसंहितम् ।
लब्ध्वा शिवाज्ञां योग्याय व्रतानेतान्वदेद्गुरुः ॥ ५३ ॥
प्रणम्य दण्डवद्भूमौ भक्तियुक्तो दृढव्रतः ।
समादाय हृदादेवं धरेच्छिष्योपसंयुतः ॥ ५४ ॥
प्। १८६)
संस्कारदीक्षा समयाद्विशिष्टा
विशेषतोऽप्यागम होमयोग्यः ।
शिष्योदयेत्सन्तत बुद्धियुक्तो
लिङ्गार्चनं चापि तथैव कुर्यात् ॥ ५५ ॥
इत्यचिन्त्य विश्वसादाख्ये कर्मदीक्षाविधिरेकादशः पटलः ॥