०९

प्। १६६)

शृणु वक्ष्ये विशेषेण सूर्यार्घ्यं चापि पूजनम् ।
आचम्य विधिवत्सव्यी कराङ्गन्यासमारभेत् ॥ १ ॥

हृदयादस्त्रपर्यन्तं देहन्यासमतः परम् ।
सूर्यात्मानं स्वयं ध्यात्वा साधयेदर्घ्यभाजनम् ॥ २ ॥

आसने प्राङ्मुखो भूत्वा मण्डलं वृत्तमाचरेत् ।
स्वहस्तं वापि तत्कृत्वा आचामं शुद्धभूतले ॥ ३ ॥

गोमयेन जलेनापि लेपयेद्रविमण्डलम् ।
अस्त्रेण प्रोक्षयेत्तत्र रक्तचन्दनवारिभिः ॥ ४ ॥

ताम्रपात्रे जले पूर्य रक्तचन्दनतण्डुलैः ।
रक्तपुष्पैः कुशैर्दर्भैः तिलसर्षपतण्डुलैः ॥ ५ ॥

प्। १६७)

ललाटकोष्ठबिन्दुं च निक्षिपेदमृताकृतिम् ।
अङ्गैरादित्यमभ्यर्च्य कवचेनावगुण्ठनम् ॥ ६ ॥

अस्त्रेण रक्षणं कृत्वा जानुभ्यामवनीं गतः ।
आसक्तं प्रोद्धरेत्तत्र द्रव्यमण्डल दृष्टियुक् ॥ ७ ॥

भक्तार्ध्यं च रवेर्दद्यान् मूलमन्त्रेण साधकः ।

ॐ आं ह्रीं ह्रूं सं सूर्याय नमः ।
ॐ हं खं खषोल्काय मूर्तये नमः ।

मूर्तिमूर्तीश्वरं जप्त्वा दापयेदर्ध्यवारिचेत् ॥ ८ ॥

देवपूजां समारभ्य गन्धपुष्पादिभिस्सह ।
शिखोर्ध्वे पूजयेत्सम्यक् गुरुमण्डलमादृतः ॥ ९ ॥

प्। १६८)

हृदये भास्करं ध्यात्वा साङ्गावरणभासुरम् ।
वहिः कल्पित बिम्बे च भानुं सोमे प्रपूजयेत् ॥ १० ॥

दण्डिनं पिङ्गलं चैव द्वारपालं समर्चयेत् ।

ॐ हं दण्डिने नमः ॥ ॐ अं पिङ्गलाय नमः ।
ॐ अं गणपतये नमः । ॐ अं गुरुभ्यो नमः ॥

ॐ ईशान्यां तु गणेशानम् आग्नेय्यां गुरुमावहेत् ॥ ११ ॥

प्रभूतासनं तु जप्त्वैवं श्वेतपीठस्य मध्यमे ।

ॐ हां प्रभूतासनाय नमः ॥

आग्नेय्यां दिशि पर्यन्तं कोणेषु च यथा क्रमम् ॥ १२ ॥

विमलासनमाराध्य परमाख्यं सुखं ततः ।

प्। १६९)

ॐ हाम् अं विमलाय नमः । ॐ अम् आराध्याय नमः ।
ॐ अं परमसुखाय नमः ।

तेषामुपरि सङ्कल्प्य श्वेतं भासुरकर्णिकम् ।

ॐ अं पद्माया * * ॥

दीत्तां सूक्ष्मां रुचं भद्रां विभूतिं विमलां तथा ॥ १४ ॥

अमोघा विद्युता चैव तन्मध्ये सार्वतो मुखम् ।
पूर्वादीशान्त मध्ये च नवशक्तीर्यजेत्क्रमात् ॥ १५ ॥

ॐ रां दीप्तायै नमः ॥ ॐ रीं सूक्ष्मायै नमः ।
ॐ रं रुचायै नमः ॥ ॐ रूं भद्रायै नमः ॥
ॐ रैं विभूत्यै नमः । ॐ रैं विमलायै नमः ॥

प्। १७०)

ॐ रौम् अमलायै नमः ॥ ॐ रौं विद्युतायै नमः ।
ॐ रीं सर्वतो मुख्यै नमः ।

सर्वतोमुखि सर्वस्था लोकयेयुः समन्ततः ।
उपर्यर्कासनं ज्ञात्वा तस्यास्त्रं मन्त्रमर्चयेत् ॥ १६ ॥

ॐ अम् अर्कासनाय नमः ॥

श्वेत पङ्कजसंरूढं मायापुष्पनिभं शुभम् ।
ज्वलरक्तातितेजस्य मण्डलान्तर्व्यवस्थितम् ॥ १७ ॥

अनेकदीपसङ्काशं मणिमौलिविराजितम् ।
रक्तांशुकपरीधानं रक्तचन्दनचर्चितः ॥ १८ ॥

वाहुमूलगतश्वेत पुण्डरीककरद्वयम् ।
हारकेयूरकटकं मुद्रायुक्ताङ्गुलं शुभम् ॥ १९ ॥

प्। १७१)

एकाननं विशालाक्षं द्विभुजं भास्करं विभुम् ।
सहस्ररश्मिसंयुक्तं चिन्तयेन्मूर्तिरूपिणम् ॥ २० ॥

ॐ अं खषोल्काय सूर्याय मूर्तये नमः ॥

कराभ्यामञ्जलिं पूर्य ललाटाकृष्टवन्धुना ।
व्यापकं मूलमन्त्रेण कुर्यादारोपणं तदा ॥ २१ ॥

ॐ हां ह्रीं हौं सौं सूर्याय नमः ॥

आहानं स् अन्निधानं निरोधाना व गुण्ठनम् ।
स्थापनं चैव मूर्तीनां मुद्रया भावयेत्तदा ॥ २२ ॥

प्रीत्यर्थं ग्रहराजाय बिन्दुमुद्रां प्रदर्शयेत् ।
मुदिता तृमुद्रैते अत्र वै विहिता हि सा ॥ २४ ॥

प्। १७२)

एकत्वस्याप्यसं चिन्त्यं सकलीकरणं पुनः ।
खषोल्किना तदाकुर्यात्तदा चाचमनीयकम् ॥ २५ ॥

शिरोर्घ्यं गन्धपुष्पं च धूपं दीपं चरुं तदा ।
पिनाकं पत्रमुद्रां च दर्शयेत्साधकोत्तमः ॥ २६ ॥

अङ्गानि सौम्यरूपाणि द्विभुजान्युज्वलानि च ।
वरदाम्बुज हस्तानि डाडिमी सन्निभानि च ॥ २७ ॥

भास्करस्याङ्गरूपाणि भावयेन्नन्दिकेश्वर ! ।
ज्वलत्पावकसङ्केशं द्विनेत्रं चोग्रविह्वलम् ॥ २८ ॥

दंष्ट्रा करालवदनं विघ्नौघोत्तर्जनोत्तमम् ।
भास्करस्य स्वरूपं च चिन्तयेद्भक्ति संयुतः ॥ २९ ॥

प्। १७३)

ॐ सं हृदयाय नमः ॥ ॐ अम् अर्काय शिरसे नमः ॥

अग्नीशदलयोरन्ते सम्यगभ्यर्च्य साधकः ।
नै-ऋत्यां वायुदिग्भागे शिखां वर्म च पूजयेत् ॥ ३० ॥

ॐ रं भूर्भुवःस्वरोम् ॥ ज्वालिनी शिखायै नमः ।
भुं कवचाय नमः ॥ ॐ हां नेत्राभ्यां नमः ॥

ॐ अस्त्राय नमो भद्राक्ष्युत्तरतो यजेत् ॥

हृदादीनां च कर्णांश्च धेनुमुद्रां प्रदर्शयेत् ॥ ३१ ॥

अस्त्रस्य त्रासनीमुद्रान्देवीभ्यां योनिमुद्रया ।
उषां देवीं दक्षभागे प्रत्युषां वामपार्श्वके ॥ ३२ ॥

प्। १७४)

द्विभुजां च द्विनेत्रां च सरोजवदनान्विताम् ।
सर्वाभरण संयुक्तां सर्वलक्षण संयुताम् ॥ ३३ ॥

उभयोस्तु * * * त्वा पूजयेत्साधकोत्तमः ।

ॐ ह्रीम् उषादेव्यै नमः ॥ ॐ ह्रीं प्रत्युषायै नमः ॥ ३४ ॥

सोमपूर्वदले चेषा संसोमाय नमोऽन्तकम् ।
बुधं दक्षिणदिक्पात्रे बुधायाथ नमोऽन्तकम् ॥ ३५ ॥

पश्चिमेपि दलाग्रे तु बृं बृहस्पतये नमः ।

पुष्टि वर्धनकरी । दिनेशोर्घ्य पूजातस्मादिनादिषु मदीय समर्चनेऽपि ।
सूर्यार्चनं च करणाय * * * * मध्ये सदे ॥

इत्यचिन्त्य विश्वसादाख्ये सूर्यपूजाविधि दशमः पटलः ॥