०८

श्रीनन्दिकेश्वरः ।

सन्ध्योपास्तिं च देवेश प्रणतार्तिविनाशन ।
कृपया मां समालोक्य वदस्व वदतांवर ॥ १ ॥

ईश्वर उवाच ।

ब्राह्मे मुहूर्ते उत्थाय वक्ता चोदङ्मुखस्थितः ।
गुरुं पादाम्बुजद्वन्द्वं सञ्चिन्त्य गुरुमण्डले ॥ २ ॥

प्। १२२)

मूलमन्त्रं च जिह्वाग्रे नमस्कृत्य प्रसन्नधीः ।
निष्कम्पदीपवद्ध्यात्वा शिवं हृदय पङ्कजे ॥ ३ ॥

कर्तव्यं शुभकार्याणि चिन्तयित्वा समाहितः ।
उत्थाय च बहिर्गत्वा दण्डपाणिकमण्डलुः ॥ ४ ॥

योग्यदेशे समागत्य शिष्यैर्दण्डकमण्डलू ।
विधायावश्यकं कार्यं योग्यं देशाधिकं क्रमात् ॥ ५ ॥

देवालयसमीपे तु गोष्ठे रूपे चतुष्पथे ।
भस्मस्थाने सुरोद्यादे चैत्यवृक्षसमीपके ॥ ६ ॥

जलावासे द्विजावासे मारिवासे श्मशानके ।
अन्यजातिसमीपे तु सेतौ वल्मीककेऽपि वा ॥ ७ ॥

प्। १२३)

आवास पार्श्वेऽपि कृष्णक्षेत्रे विशेषतः ।
नन्दीगोमयपाषाण मूत्रास्थियुत भूतले ॥ ८ ॥

पर्वते च न कर्तव्यं मलमूत्र विसर्जनम् ।
स्कन्धे वा कर्णमूले वा यज्ञसूत्रं च विन्यसेत् ॥ ९ ॥

वेष्टयित्वा शिरस्तत्र ऋजुकायो न वापयेत् ।
भूतले तृणमाधाय अर्धाद्वाथ विलोकयेत् ॥ १० ॥

रविं दक्षिणतः कृत्वा विण्मूत्रौ तौ विसर्जयेत् ।
नासाग्र दृष्टिसंयुक्तो दिशश्चानवलोकयन् ॥ ११ ॥

निष्ठीवनं द्विजातीनां तं देशं न विधीयते ।
अस्नागोमयपाषाण दारुभिर्गतमार्जनम् ॥ १२ ॥

प्। १२४)

न कर्तव्यं न कर्तव्यं तत्रैव तृणलोष्ठकैः ।
मेढ्रं वामेन सङ्गृह्य शुद्धमृत्स्नां च दक्षिणे ॥ १३ ॥

ग्राममध्ये तरोर्मूले सेतौ वल्मीकसम्भवाः ।
वर्जयित्वा मृदस्सर्वाः तिसॄः कामी विशेषतः ॥ १४ ॥

तोयतीरं समागत्य सम्यक् शौचं समाचरेत् ।
सकृद्धात्री फलसमां मृदं मध्यजलैस्ततः ॥ १५ ॥

लिङ्गस्यैकां गुदे पञ्च वामहस्ते दशावृतिः ।
हस्तद्वये सप्तवृत्तिं जलैर्मृज्यादुभौ भुजौ ॥ १६ ॥

यावद्भावस्य संशुद्धिः तावच्छोचं समाचरेत् ।
न विनाभाव संशुद्धिः सम्यक् शुद्धिरितीरिता ॥ १७ ॥

प्। १२५)

प्रविश्य कूलदेशं तु पादौ हस्तौ विशोधयेत् ।
एकं यामं समायोज्य क्षालयेच्छुद्धवारिणा ॥ १८ ॥

दक्षिणाङ्घ्रिं स्थले क्षिप्य वामपादं जले न्यसेत् ।
पाणिं गोकर्णवत्कृत्वा माषमग्नं जलं पिबेत् ॥ १९ ॥

द्वितीयं च तृतीयं च पिबेदम्बु यथाविधि ।
दन्तानां शोधनं पश्चान्मनुष्याणां विशेषतः ॥ २० ॥

समच्छेदं दृढं शुद्धं सान्द्रसत्वगपर्वकम् ।
कनिष्ठानाहसंयुक्तं दन्तकाष्ठस्य लक्षणम् ॥ २१ ॥

अष्टाङ्गुलं नैष्ठिकानां भौतिकानां दशाङ्गुलम् ।
शिरीषचिरिबिल्वोत्थ करञ्ज खदिरार्जुनैः ॥ २२ ॥

प्। १२६)

नैष्ठिकानामिति प्रोक्तं भौतिकानां विधीयते ।
आम्रापामार्गखदिर प्लक्षचम्पक सम्भवैः ॥ २३ ॥

जम्बूकपित्थमेदैश्च माधवैर्व्रणरोपणैः ।
वालिकेरोत्थजाशोकैः पावनैः पत्रकैरपि ॥ २४ ॥

वारिभी रवि सङ्ख्यातैर्गण्डूषैरास्य शोधनम् ।
एरण्डशिग्रुवानीरवेलु पैशाचभक्षणैः ॥ २५ ॥

छात्री नेत्रयवक्षीरी निम्बकाशाङ्गुलीयकैः ।
लूशाङ्गुलितपोलोहैर्न कुर्याद्दन्तधावनम् ॥ २६ ॥

प्रतिपत्पर्वषष्ठीषु नवमीदशमीष्वपि ।
मुमुक्षोश्च विशेषेण नित्यं वैदन्तधावनम् ॥ २७ ॥

प्। १२७)

जलस्नानं प्रकर्तव्यं सर्वपापहरं शुभम् ।
बहिरन्तर्विशुद्ध्यर्थं शिवेज्यायोगकारणम् ॥ २८ ॥

सर्वाचारप्रधानत्वं सर्वदुःस्वप्ननाशनम् ।
आलस्यादौ हरिद्रानां शूद्राणां च क्षयङ्करम् ॥ २९ ॥

ऊर्जाबलप्रदं चैव दीपनं पुष्टिवर्धनम् ।
श्रीकरं दीर्घमायुष्यं सर्ववश्यप्रदं तथा ॥ ३० ॥

नद्यां तटाके वाप्यां वा कूपे वापि चतुर्विधम् ।
कूपस्नानं न कर्तव्यं यदि नद्याद्यसम्भवे ॥ ३१ ॥

कूपाद्दशगुणं वाप्यां वाप्या दशगुणं तटम् ।
तटाद्दशगुणं नद्याम् अनन्तफलमुच्यते ॥ ३२ ॥

प्। १२८)

तटाकतीर्थसदृशं मध्यमं कन्यसं पुनः ।
कुण्डोदं च निपातं च वापिस्नानसमं भवेत् ॥ ३३ ॥

अल्पं वा बहुलं वापि शिवालयसमीपगम् ।
सर्वतीर्थानि तत्स्थानि शिवं गङ्गाविधानतः ॥ ३४ ॥

अष्टाङ्गुलादधः खात्वा मृदं मन्त्रेण तां पुनः ।
हृदयेनैव सङ्गृह्य पुनस्तेनैव चित्रकम् ॥ ३५ ॥

निधाय पश्चान्मृत्स्नापि ततस्तीरं समाविशेत् ।
शिरोमन्त्रेण तां मृत्स्नां निधायास्त्रेण शोधयेत् ॥ ३६ ॥

शिखामुद्धृत्य शिखया कवचेन त्रिधा भवेत् ।
प्रक्षाल्य नाभिपादान्तमेकान्तं शिखया पुनः ॥ ३७ ॥

प्। १२९)

मध्यांशमस्त्र सन्दीप्तामादाय पदमस्तकम् ।
सर्वाङ्गं च त्रिरालभ्य निरुद्ध्याक्षाणि सर्वशः ॥ ३८ ॥

हस्ताभ्यां जलनिर्मग्नः प्राणानायम्य संयतः ।
आसीत हृदि कालाग्नि सममस्त्रं करं तदा ॥ ३९ ॥

जलस्नानमिदं प्रोक्तं शुद्धस्नानं ततः परम् ।
जाह्नव्यादि महातीर्थेष्वाकृष्याङ्कुशमुद्रया ॥ ४० ॥

आवाह्य हृदये नैव मन्त्रेण स्नानमुद्रया ।
हृदमुत्तरतस्तीर्थम् आदायान्यानि वारिणी ॥ ४१ ॥

वामहस्ततले कृत्वा भागत्रयमुदङ्मुखः ।
एकं दक्षिणभागस्थ मङ्गमस्त्राभिमन्त्रितम् ॥ ४२ ॥

प्। १३०)

अस्त्रेण सप्तधा पूर्वं शिवेन दश सौम्यगम् ।
एवं भागत्रयं कुर्यादस्त्रजप्तं तदाहरेत् ॥ ४३ ॥

हुम्फडन्तास्त्र मन्त्रेण दशदिक्षु क्षिपेत्क्रमात् ।
उत्तरस्थं समादाय शिवं जप्तभुजं क्रमात् ॥ ४४ ॥

जलमध्ये क्षिपेत्तन्तु शिवतीर्थमिदं भवेत् ।
अङ्गजप्तेन सर्वाङ्गं लेपयेदङ्गविद्यया ॥ ४५ ॥

शीर्षादिपादपर्यन्तं प्रथमं दक्षिणं क्षिपेत् ।
चत्वारिं हृदयादीनि जलमध्ये जपेत्क्रमात् ॥ ४६ ॥

पिधाय नेत्राद्यक्षाणि पाणिभ्यां प्राणमारुतम् ।
शिवतीर्थजले मग्नः शिवं वा हृदि संस्मरन् ॥ ४७ ॥

प्। १३१)

चन्द्रार्करूपहस्ताभ्यां सेचयेत्कुम्भमुद्रया ।
वौषडन्त षडङ्गेन जुहुयाच्च मुहुर्मुहुः ॥ ४८ ॥

साधकस्साधकैर्मन्त्रैर्जपाद्दशांश सङ्ख्यया ।
केऽभिषिञ्चेत्क्रमान्नित्यम् अमृताम्बु विभावयेत् ॥ ४९ ॥

आत्मसंरक्षणार्थाय सर्वविघ्नोपशान्तये ।
अस्त्राभिमन्त्रितं तोयमभितः परिषेचयेत् ॥ ५० ॥

अथवा मठदेशेऽपि कूपादुद्धृतवारिभिः ।
कुम्भे स्नानं प्रकुर्वीत पूर्वोक्तविधिमन्त्रकैः ॥ ५१ ॥

मृत्कुम्भात्ताम्रकुम्भे तु स्नानं शतगुणं भवेत् ।
ताम्राच्छतगुणं रौप्यं रजताद्धैमकं शतम् ॥ ५२ ॥

प्। १३२)

नैष्ठिके वापि साग्नौ वा गृहे वापि समं भवेत् ।
चक्रवर्त्युपचारेण सुगन्धामलकादिना ॥ ५३ ॥

येन केन प्रकारेण नित्यस्नानं न वर्जयेत् ।
नैष्ठिकस्यापि काषायमुत्तमं श्वेतमेव वा ॥ ५४ ॥

हस्तं वापि द्विहस्तं वा कौपीनायामकं भवेत् ।
द्वादशाङ्गुलविस्तारं दशाङ्गुलमथापि वा ॥ ५५ ॥

एतद्वशित्वा वेष्टिं च वेष्टयित्वा विशेषतः ।
आचम्य विधिवच्छुद्धः तत्वत्रय समन्वितः ॥ ५६ ॥

काककङ्ककपोतैश्च कुक्कुटातावटिट्टिभैः ।
नरैरेतादृशैश्चैव खरोष्ट्रग्रामसूकरैः ॥ ५७ ॥

प्। १३३)

मृगधूर्तश्वभिश्चैव तदुद्भूताङ्गवैरिभिः ।
गुरुद्रव्यापहर्ता च तत्तद्द्रव्यविनाशिभिः ॥ ५८ ॥

महापातकिभिश्चैव कृतघ्नैश्चान्यलिङ्गिभिः ।
अदीक्षिताश्च सर्वेऽपि तैस्संस्पृष्टैर्विशेषतः ॥ ५९ ॥

जलस्नानं प्रकुर्वीत पवने पवने तथा ।
मन्त्रविच्छुक्लसम्पर्को नाभेरूर्ध्वं करौ विना ॥ ६० ॥

एवमुक्तं जलस्नानं भस्मस्नानमतः परम् ।
विजयं श्रीकरं पुण्यं सर्वपापविनाशनम् ॥ ६१ ॥

अस्माकं च प्रियं देव्या विघ्नेशगुहयोरपि ।
देवानां च विशेषेण दैत्यानां च विशेषतः ॥ ६२ ॥

प्। १३४)

जलस्नानात्परं भस्म पाशपञ्चकनाशनम् ।
भस्मसंस्पर्शनार्थाय जलस्नानं पुरोदितम् ॥ ६३ ॥

आर्द्रजं तु वधं सिद्धं भस्मस्नान विवृद्धये ।
भस्मस्नान विहीनं चेज्जन्तुहन्तृत्वमावहेत् ॥ ६४ ॥

भस्मस्नानवियुक्तो हि भक्तो नत्यत्यते क्वचित् ।
तस्मात्सर्व प्रयत्नेन भस्मना स्नानमिष्यते ॥ ६५ ॥

त्रिपुण्ट्रं भस्मनास्नानं नैष्ठिकस्य विशेषतः ।
भौतिकस्य विशेषेण त्रिपुण्ट्रं विधिनार्द्रतः ॥ ६६ ॥

चतुर्विधं तु तद्भस्म कल्पं प्रथममुच्यते ।
अनुकल्पं द्वितीयं च तृतियमुपकल्पकम् ॥ ६७ ॥

प्। १३५)

अकल्पं तु चतुर्थं स्यात्पूर्व पूर्वं तथोत्तमम् ।
वर्ज्या वृद्धा व्याधिताश्च दुर्लक्षणयुतास्तथा ॥ ६८ ॥

तणकेन विहीना च बाला मौख्यवतीं विना ।
सुलक्षणां च कपिलां रक्तां शुक्लां सितोत्तराम् ॥ ६९ ॥

एतासां गोमयं पद्मपत्रेह्यम्भोद्भवे तथा ।
पालाशपत्रके वापि हस्ताभ्यां व्योम्नि धारयेत् ॥ ७० ॥

गोष्ठे वा गोमयं ग्राह्यं सद्योमन्त्रेण धारयेत् ।
उपर्यधस्तथा कुर्याद् विसृजेन्मध्यमं पुनः ॥ ७१ ॥

गोलकाकारकं कुर्याद् वामदेवादि मन्त्रवित् ।
अघोरेण च संशोष्य शुद्धदेशे दहेत्पुनः ॥ ७२ ॥

प्। १३६)

पुरुषेण विशेषेण नवभाण्डे विनिक्षिपेत् ।
कर्पूरोशीर ह्रीबेरकेतकैश्चम्पकैस्तथा ॥ ७३ ॥

दमने देशमन्त्रेण जपेत्तस्माद्विशेषतः ।
अनुकल्पं ततश्चैव शृणुत्वं नन्दिकेश्वर ॥ ७४ ॥

वने शुष्कं शकृद्गृह्य कल्पवत्पूर्ववद्भवेत् ।
कुर्यात्पूर्वोक्तविधिना भवेद्भस्मोपकल्पकम् ॥ ७५ ॥

चूर्णं कृत्वा तु सङ्गृह्य गोमूत्रैः पिण्डवत्कुरु ।
दग्धं पूर्वोक्त विधिना भवेद्भस्मोपकल्पकम् ॥ ७६ ॥

पूर्वोक्तविधि मुत्सृज्य केवलं भस्मसाधनम् ।
संस्कारे पिण्डवत्कुर्यादकल्पमभिधीयते ॥ ७७ ॥

प्। १३७)

अन्यैरापादितं भस्म अकल्पमिति पूज्यते ।
चातुर्विध्यमिदं प्रोक्तं सर्वपापनिकृन्तनम् ॥ ७८ ॥

कल्पभस्म च सङ्गृह्य दिग्बन्धं कारयेत्ततः ।
शेषेण ब्रह्ममन्त्रेण मूर्धाद्यङ्गानि धूलयेत् ॥ ७९ ॥

कल्पस्नानमिदं प्रोक्तं शिवस्नानमतः परम् ।
पञ्चब्रह्मषडङ्गाद्यैर्निवृत्त्याद्यभिमन्त्रितम् ॥ ८० ॥

ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषे न्यसेत् ।
अघोरं तु गलं नाभिजान्त्वन्तं वामदेवकम् ॥ ८१ ॥

सद्योजातं तु पादान्तं भस्मोद्धूलविधिक्रमः ।
सद्योजातेन बाहूद्वौ मूलमन्त्रेण वक्त्रकम् ॥ ८२ ॥

प्। १३८)

शङ्खतोयेन मूलेन भस्म व्यामिश्रणं भवेत् ।
त्रिपुण्ट्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् ॥ ८३ ॥

द्वात्रिंशत्स्थानके वापि षोडशस्थानकेऽपि वा ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् ॥ ८४ ॥

उत्तमाङ्गे ललाटे च करयोर्नेत्रयोस्तथा ।
नासावक्त्र गलेष्वेवमंसद्वयमतः परम् ॥ ८५ ॥

कोर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ गुह्यद्वयोश्चैवमूर्वोः स्फिग् द्वीद्विजानुनी ॥ ८६ ॥

जङ्घाद्वये वा पादौ द्वौ द्वात्रिंशत्स्थानमुत्तमम् ।
अमृत्यष्टौ च विद्येशान्दिक्पालान्वसुभिस्सह ॥ ८७ ॥

प्। १३९)

धरो ध्रुवश्च सोमश्च आपश्चैवानि लोऽनलः ।
प्रत्यूषश्च प्रभासश्च इत्यष्ट वसवः स्मृताः ॥ ८८ ॥

एतेषां वाममन्त्रेण त्रिपुण्ट्रं स्थापयेद्बुधः ।
विदध्यात् षोडशस्थाने त्रिपुण्ट्रं तु समाहितः ॥ ८९ ॥

शीर्षे कर्णे ललाटे च कण्ठे चांसद्वयोरपि ।
कोर्परे मणिबन्धे च हृदये नाभिपार्श्वके ॥ ९० ॥

पृष्ठे चैवं प्रतिष्ठानं जपेत्तत्राधि दैवतान् ।
शिवशक्तिं च सादाख्यमीशं विद्याख्यमेव च ॥ ९१ ॥

वामादि नवशक्तिश्च अश्विनौ षोडश स्मृताः ।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥ ९२ ॥

प्। १४०)

जानुद्वये पदोश्चैव पृष्ठभागं तु षोडश ।
तेषु स्थानेष्वधिपकान्यथायोगं शृणुष्व तान् ॥ ९३ ॥

शिवः स्कन्दश्च चन्द्रार्कौ विघ्नेशो विष्णुरेव च ।
श्रीश्चैव हृदये देशे तथा नाभौ प्रजापतिः ॥ ९४ ॥

नागाश्च नागकन्याश्च उभयो ऋषिकन्यकाः ।
पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि चास्त्रकः ॥ ९५ ॥

एवं वा षोडश ध्यायेदष्टस्थानानि चोच्यते ।
शिरःस्थानं ललाटं च कर्णद्वयमतः परम् ॥ ९६ ॥

अंसद्वयं च हृदयं नाभिरित्यष्टमं भवेत् ।
ब्रह्मा च ऋषयस्सप्त देवताश्च प्रकीर्तिताः ॥ ९७ ॥

प्। १४१)

अथवा मस्तकं बाहू हृदयं नाभिरेव च ।
पञ्च स्थानान्यमून्याहुः पञ्चमूर्तिश्च देवताः ॥ ९८ ॥

गुरुदेवाग्निविद्यानां सन्निधौ वाज्यदर्शने ।
महापातकयुक्तानां कृतघ्नस्यापि दर्शने ॥ ९९ ॥

अशुद्धभूतके मार्गे धूलनं न विधीयते ।
तस्माद्विशुद्धदेशेऽपि चासने संस्थितः शुचिः ॥ १०० ॥

उत्तराभिमुखो भूत्वा मौनी ध्यात्वा शिवं गुरुम् ।
परमाणुसमं भस्म भूमौ न पतितं भवेत् ॥ १०१ ॥

तद्वत्सङ्ग्राह्य यत्नेन त्रिपुण्ट्रोद्धूलनं भवेत् ।
सर्वपाप विनिर्मुक्तः सर्वशुद्धि समन्वितः ॥ १०२ ॥

प्। १४२)

तस्य दर्शनमात्रेण सर्वपापात्प्रमुच्यते ।
बहुनात्र किमुक्तेन देशिकेक्षणसन्निधौ ॥ १०३ ॥

अनायासेन पापानि मनोवाक्कायजान्यपि ।
त्रिपुण्ट्रधारणेनैव प्रणश्यत्यखिलान्यपि ॥ १०४ ॥

भूतिधारणहीनस्य तत्तज्ज्ञानेन तत्परः ।
न च योगसमाधिश्च न चेज्या दानमेव च ॥ १०५ ॥

तस्मात्सर्व प्रयत्नेन भस्मना स्नानमुत्तमम् ।
भस्मसंस्पृष्टहस्तेन वारिणा प्रोक्षणं परम् ॥ १०६ ॥

द्विजात्यदीक्षितस्पर्शे भस्मस्नानं विधीयते ।
पश्चात्कौपीनमुत्सृज्य तालमुद्रासमन्वितः ॥ १०७ ॥

प्। १४३)

अन्यकौपीनमाच्छाद्य विक्ताचमनं भवेत् ।
अथ माहेन्द्रकं स्नानं सूर्यांशुसचिवैस्सह ॥ १०८ ॥

ऊर्ध्वबाहुः शिवं ध्यायपरस्सप्त पदागतिः ।
ईशमन्त्रं जपन्गच्छेद् गुरुभक्ति विशारदः ॥ १०९ ॥

वायव्यं स्नानमेवाहं गोरवुरोद्भूतरेणुभिः ।
पुरुषं कवचं वापि जपन्सप्तपदावधि ॥ ११० ॥

जलैस्सद्यादिभिर्मन्त्रैः मन्त्रस्नानं भवेत्पुनः ।
मूलमन्त्रेण मनसा प्राणायामसमन्वितः ॥ १११ ॥

मानसं स्नानमेवं हि सर्वत्र विहितं हि तत् ।
अथाचमनविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ॥ ११२ ॥

प्। १४४)

पादप्रक्षालनं कृत्वा हस्तं संशोद्ध्य वारिणा ।
कुक्कुटासन संयुक्तं पाणिं गोकर्णवद्भवेत् ॥ ११३ ॥

जान्वन्तस्थित हस्तश्च फेनबुद्बुदवर्जिता ।
सङ्गृह्यमाषमग्नाम्बु सव्यपाणिपुटेन च ॥ ११४ ॥

संवीक्ष्यां गुष्ठमूलस्थं ब्राह्मतीर्थेन वारिणा ।
मन्त्रशुद्धिं पुरा कृत्वा चात्मविद्याशिवात्मिका ॥ ११५ ॥

तारं प्रथममुच्चार्या हामात्मस्थं त्वया स्वधा ।
एतत्प्रथमपानेन संशुद्धिर्नन्दिकेश्वर ! ॥ ११६ ॥

एकत्रिंशत्तत्वशुद्धिः पृथ्व्या मायान्तु संयुता ।
पूर्वं प्रणवमुच्चार्य ह्रीं त्वया तत्वया स्वधा ॥ ११७ ॥

प्। १४५)

एवं द्वितीयपानेन यतत्व विशोधनम् ।
शुद्धविद्येशसादाख्यस्त्रितत्वमिति कीर्तितम् ॥ ११८ ॥

ओङ्कारान्तं तदुच्चार्य ह्रीं शिवाय स्वधात्मनः ।
पुनस्तृतीयपानेन शक्तितत्वस्य शोधनम् ॥ ११९ ॥

पञ्चत्रिंशत्तत्वशुद्धिरेवमाचमनेन हि ।
अधरोष्ठौ द्विः प्रमृज्यं नमोऽन्तं हृदयोपरि ॥ १२० ॥

दक्षिणाङ्गुष्ठमूलेन ततो ज्येष्ठ कनिष्ठिकाः ।
विहाय मध्य संस्थापस्तिसृभिः संस्पृशेच्चतौ ॥ १२१ ॥

अङ्गुष्ठतर्जन्याक्रम्य प्राणसंस्पर्शनं क्रमात् ।
त्रिवारं वारिपानेन त्रितत्वस्य प्रियं भवेत् ॥ १२२ ॥

प्। १४६)

तथैव शिवभक्तानां प्रियमाम्नायकेष्वपि ।
अथर्वसामयजुषामधरोष्ठ प्रमार्जनात् ॥ १२३ ॥

ऋग्वेदस्य विशेषेण शिवभक्तस्य तत्प्रियम् ।
मध्यमाङ्गुलत्रयेणापि चोर्ध्वाधो मार्जनं भवेत् ॥ १२४ ॥

गणेश्वराणां प्रीतिश्च मूलमन्त्रेण मन्त्रिणाम् ।
मूलमन्त्रं जलेनैव पादमूर्धावपि स्पृशेत् ॥ १२५ ॥

दक्षिणां च गणानां च प्रियं भवति सर्वदा ।
अङ्गुष्ठानामिकाग्रेण नेत्रद्वन्द्वं तथैव च ॥ १२६ ॥

तारयुक्तानि बीजेन सूर्याचन्द्रमसोः प्रियम् ।
तर्जन्यङ्गुष्ठकेनैव पृथ्वीबीजं ध्रुवं तथा ॥ १२७ ॥

प्। १४७)

संयोज्यानामिकात्सृष्टिमसौ प्रीतिरनुत्तमा ।
व्योमबीजं ध्रुवं चैव कनिष्ठाङ्गुलिसंयुतम् ॥ १२८ ॥

जेलेन कर्णयोः स्पर्शं दिशां प्रीतिर्भवेत्तदा ।
तारवद्भवसंयुक्ता चतुरङ्गुल मूर्तिभिः ॥ १२९ ॥

नाभिसंस्पर्शपञ्चैव विष्णोः प्रीतिकरं भवेत् ।
दक्षहस्ततलेनैव हृन्मन्त्रं तु समुच्चरन् ॥ १३० ॥

हृदि संस्पर्शनादेव वह्निरह्नाय मोदते ।
शिवमन्त्रं समुच्चार्य पञ्चाङ्गुलमुखेन च ॥ १३१ ॥

शिखासंस्पर्शनादेव शिवप्रीतिस्तदा भवेत् ।
क्षुते निष्ठीवने कालेप्याचामन्तु तदा भवेत् ॥ १३२ ॥

प्। १४८)

अथवा दक्षिणं श्रोत्रं संस्पृशेद्दक्षपाणिना ।
द्विराचामेद् विशुध्यर्थं भावशुद्धिसमन्वितः ॥ १३३ ॥

ततश्च सकलीकृत्य प्राणायामत्रयं भवेत् ।
तथैव संहत्य मन्त्रान् मनसा त्रि प्रवर्तयेत् ॥ १३४ ॥

पुनराचम्य विधिना विधाय श्रोत्रवन्दनम् ।
एकचित्तः प्रसन्नात्मा कराङ्गन्यासमाचरेत् ॥ १३५ ॥

ॐ ह्रीम् अस्त्राय फट् ।

एवं मन्त्रं समुच्चार्य वामपाणिं च शोधयेत् ।
करेण दक्षिणेनैव दक्षिणं वामपाणिना ॥ १३४ ॥

एकवारं तमुच्चार्य शोधनं नन्दिकेश्वर ।

ॐ हां हौं शिवाय नमः ।

अस्त्र तेजोन्वितौ हस्तौ मणिबन्धावनुस्मरन् ॥ १३७ ॥

प्। १४९)

पाणिभ्यां सम्पुटं कृत्वा चाङ्गुष्ठद्वयमध्यमे ।
ध्यायेदमृतरूपेण शक्तिमण्डलमुत्तमम् ॥ १३८ ॥

ॐ हौं शक्तयेवषड् सम्प्लावं तत्करद्वयम् ।
वकारं तत्पुटेभाव्यं तन्मध्येऽपि शिवासनम् ॥ १३९ ॥

ॐ हां शिवासनाय नमः ।

मूर्तिं सूक्ष्मे तु सञ्चिन्त्य पश्चान्मन्त्रं समुच्चरेत् ।

ॐ हां विद्यादेहायनमः ।

एवं सदाशिवं रूपं विन्यसेन्नन्दिकेश्वर ॥ १४० ॥

ॐ हां हौं शिवाय नमः ।

एवं सदाशिवं देवं चिन्तयेद्व्यापकं तदा ।
सकलीकरणं पश्चात् कनिष्ठाङ्गुष्ठकान्तगम् ॥ १४१ ॥

प्। १५०)

ॐ हां हृदयाय नमः । इति कनिष्ठिकायाम् ।
ॐ हां शिरसे स्वाहा । इत्यनामिकायाम् ॥

ॐ ह्रीं शिखाय वौषण्णमः । इति मध्याङ्गुलौ ।
ॐ हौं कवचाय हुं फण्णमः । इति तर्जन्याम् ॥

ॐ हाम् अस्त्राय फट् । इत्यङ्गुष्ठे ।

पश्चात्तु परमीकायं कारयेन्मूलमन्त्रतः ।
अवगुण्ठ्य तनुरुहौ पुनर्नाभौ शिवासनम् ॥ १४२ ॥

ॐ हां शिवासनाय नम इति विश्वे व्यवस्थितः ।
सदाशिवस्य सम्प्राप्तिर्नाभेरा ब्रह्मरन्धकम् ॥ १४३ ॥

ॐ हां हौं सदाशिवाय नमः ।

प्। १५१)

हृदये हृदयं पश्चात् शिरः शिरसि विन्यसेत् ॥ १४४ ॥

शिखायां तु शिखां न्यस्य तनुत्रं तनुमध्यमे ।
नेत्रेषु नेत्रं विन्यस्य हस्तयोर्हस्तमेव च ॥ १४५ ॥

चोटिकामुद्रया तेन दशदिग्बन्धनं कुरु ।
मूलेन परमीकृत्वा महामुद्रा ततः क्रमात् ॥ १४६ ॥

हस्तद्वयेन पादाभ्यां मस्तकान्त डां स्पृशेत् ।
शा वौषडन्तेन मन्त्रेणैव तु कारयेत् ॥ १४७ ॥

निरीक्षणादिभिः शोध्य जलमङ्कुशमुद्रया ।
ललाटे तीर्थमाकर्षेद् ॐ हां हृदयाय वौषट् ॥ १४८ ॥

तत्पुरुषमुच्चार्य नमोन्तं भवमुद्रया ।
निक्षिपेज्जलमध्ये तु मूलमन्त्रषडङ्गकैः ॥ १४९ ॥

प्। १५२)

अभिमन्त्र्य तनुत्रेण चावकर्णौ तु कारयेत् ।
अमृतीकरणं कुर्याद् विघ्नौघानां निवारणम् ॥ १५० ॥

ॐ ह्रौं ह्रां ह्रीं ह्रूं हॄं ह्रैंश्च प्राणायामत्रयं भवेत् ।
पुनराचमनं कुर्याद् यथोक्तं तद्विधानतः ॥ १५१ ॥

दीक्षा विहीन जनता दीक्षादोषस्य नाशने ।
अरुणोदयमारभ्य नाडीपञ्चकसंयुतम् ॥ १५२ ॥

तदा * * * * * * * * * धेनुमुद्रया ।

ॐ हौं शिखाय वौषट् । ॐ हां हृदयाय नमः ॥
वौषट् ॐ शिरसे वौषट् । ॐ हृं शिखायै वषट् ॥
ॐ हौं कवचाय हुम् । वौषट् । ॐ हः अस्त्राय फट् ।
शिरोभिषेचनं कुर्यान्मन्त्रैस्तैः कुम्भमुद्रया ।

प्। १५३)

ॐ हैं कवचाय नमः ।

सुधामय जलेनैव देहसंवेष्टनं कुर्यात् ॥ १५३ ॥

प्रातस्सन्ध्येति तत्काले ब्राह्मीं हृदयपङ्कजे ।
रक्तमाल्याम्बरधरां रक्तगन्धानुलेपनाम् ॥ १५४ ॥

जटामकुटसंयुक्तां चतुर्वक्त्रां चतुर्भुजाम् ।
हंसपङ्कजमध्यस्थाम् अष्टद्रव्यावलोकिनीम् ॥ १५५ ॥

यज्ञोपवीतिनीं बालां पद्ममालाविराजिताम् ।
सृगक्षमालां सव्यक्तां बाहुभ्यां दधतीं पराम् ॥ १५६ ॥

दण्डं कमण्डलुं द्वाभ्यां वामाभ्यां च तथैव च ।
त्रिपुण्ट्रावलिसन्दीप्तां सर्वाभरणभूषिताम् ॥ १५७ ॥

प्। १५४)

शतयोजनकोटीभिर्विस्तृते रक्तमण्डले ।
तन्मध्ये सुस्थिरां देवीं सर्वकर्मणि साक्षिणीम् ॥ १५८ ॥

मध्याह्ने वैष्णवीं ध्यायेच्छुक्लां शुक्लां शुकोज्वलाम् ।
वैनतेयाब्जमध्यस्थाम् एकवक्त्रां सुयौवनाम् ॥ १५९ ॥

वनमालोपवीतां च संहतस्तनसंयुताम् ।
बिम्बोष्ठीं चारुवदनां नेत्रयुग्मां स कुण्डलाम् ॥ १६० ॥

शङ्खं वामे च चक्रं च दक्षिणे दधतीं करे ।
गदाभयं च दधतीं त्रिपुण्ट्राङ्कितमस्तकाम् ॥ १६१ ॥

सर्वालङ्कारसंयुक्तां साक्षिणीं सर्वकर्मणाम् ।
द्विशतकोटियोजनविस्तीर्णे श्वेतमण्डले ॥ १६२ ॥

प्। १५५)

तत्र मध्य स्थितां देवीं सारां संस्थितिकारिणीम् ।
सायाह्ने शिवसिद्धा ये रौद्रीं नीलोत्पल प्रभाम् ॥ १६३ ॥

गङ्गेन्दु मण्डितजटामीषद्गलित यौवनाम् ।
वृषपङ्कजमध्यस्थाम् एकवक्त्रां त्रिलोचनाम् ॥ १६४ ॥

कृष्णाजिनोपवीतं च सर्वाभरणभूषिताम् ।
सर्वलक्षणसंयुक्तां संहारक्रमकारिणीम् ॥ १६५ ॥

भस्मत्रिपुण्ट्रसंयुक्तां त्रिशूलाक्षां च दक्षिणे ।
वामे शक्त्याभयं देवीं सर्वकर्मसु साक्षिणीम् ॥ १६६ ॥

अर्धास्तमितत्रिशतकोटियोजन विस्तृते ।
बिन्दुमण्डलमध्यस्थां भावयेन्नन्दिकेश्वर ॥ १६७ ॥

प्। १५६)

तासां प्रभाभिर्गगनं भासितं भावयेत्तदा ।
उत्तमा परमा सन्ध्या मध्यरात्रे विशेषतः ॥ १६८ ॥

शिवशक्ति स्वरूपेण चैकत्वे चैकतां गता ।
बिसतन्तुनिभां सूक्ष्मां रक्तां शुक्लां सितेतराम् ॥ १६९ ॥

चतुर्थी निष्कलानित्या कृष्णा सा च विभाव्यते ।
शिवबोधापराया तु सा सन्ध्या परमा भवेत् ॥ १७० ॥

अङ्गुष्ठमूले ब्राह्मं च कनिष्ठाधः प्रजापते ।
पैत्रं तु तर्जनीमूले कराग्रे देवतीर्थकम् ॥ १७१ ॥

दक्षहस्ततले चाह्नं देवं वा वामहस्तके ।
सर्वपर्व स्वङ्गुलीनामार्षतीर्थं विशेषतः ॥ १७२ ॥

प्। १५७)

मणिबन्धप्रवेशे तु भूततीर्थमथाष्टकम् ।
ब्राह्मतीर्थादधस्तीर्थं दिशानां नन्दिकेश्वर ॥ १७३ ॥

पश्चाच्छिवात्मकैर्मन्त्रैस्तत्तोयेन प्रकारयेत् ।
त्रिवारं हृदयं जप्त्वा रुद्धाधस्थकरद्वये ॥ १७४ ॥

कुशा दक्षिणहस्तेन सन्दर्भं वामपाणिना ।
षडङ्गेनाभि मन्त्र्यैतत् कवचेनाव गुण्ठितम् ॥ १७५ ॥

शस्त्रेण रक्षां कृत्वा वै वेणुमुद्रामृती कृतिम् ।
जलं प्रक्षिप्य तदधो गलितेन च वारिणा ॥ १७६ ॥

वौषडन्तं षडङ्गेन मार्जनं मूर्ध्नि चाचरेत् ।
सव्यहस्ततिले नीत्वा शेषितं वारि तत्पुनः ॥ १७७ ॥

प्। १५८)

कराङ्गन्यासकं कृत्वा रविमण्डलमध्यमे ।
शिवायार्घ्यं ततः कृत्वा गायत्रीं मनसा जपेत् ॥ १७८ ॥

उक्षितः पूर्वसन्ध्यायां मध्याह्ने चोदितो भवेत् ।
सायमुत्थाप्य दत्वार्ध्यमुपविश्य त्रिलोचनाम् ॥ १७९ ॥

पद्मोपरिस्थितां शुक्लां सौम्यदेहां शुचिस्मिताम् ।
एकवक्त्रां प्रसन्नाक्षीं पङ्कजासन संस्थिताम् ॥ १८० ॥

जटामकुटसंयुक्तामर्धेन्दुकृत शेखराम् ।
त्रिपुण्ट्रावलिभिर्दीप्तां शुक्लयज्ञोपवीतिनीम् ॥ १८१ ॥

चतुर्भुजां चतुर्वक्त्रां साक्षसूत्रधरां पराम् ।
पद्माभयान्वितां देवीं चतुर्वेदफलान्विताम् ॥ १८२ ॥

प्। १५९)

गायत्रीं मनसा ध्यायेत् सर्वपाप विकृन्तनीम् ।
ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥

तन्नः शिवः प्रचोदयात्

त्रिसन्ध्यं शिवगायत्रीं जपेद्भक्ति समन्वितः ॥ १८३ ॥

ॐ हां शिवायार्घ्यं स्वाहा ।

एवं मन्त्रं जपित्वार्ध्यं दत्वा सद्यो विसर्जनम् ।
त्रिः प्रदक्षिणमावर्त्त्य मूलमन्त्रं जपेद्बुधः ॥ १८४ ॥

मन्त्राणां दीपनार्थाय कुर्यात्तर्पणमप्यथ ।

ॐ हौं शिवाय स्वाहा । ॐ हृदयाय स्वाहा ।
ॐ हां शिरसे स्वाहा । ॐ हूं शिखायै स्वाहा ।
ॐ हैं कवचाय स्वाहा । ॐ हौं नेत्रत्रयाय स्वाहा ।

प्। १६०)

ॐ हां विष्णवे स्वाहा ॐ हां रुद्राय स्वाहा ।
ॐ हां सदाशिवाय स्वाहा ॐ हां वाग्वादिनी स्वाहा ।
ॐ हां सरस्वत्त्यै स्वाहा ।

साध्यानां मन्त्रदेवानां तर्पयेन्नन्दिकेश्वर ॥ १८५ ॥

एतैर्मन्त्रैश्च दिक्पालानिन्द्राद्यैः स्वस्वनामभिः ।

ॐ हाम् ऐन्द्र्यै स्वाहा । ॐ हाम् आग्नेय्यै स्वाहा ।
ॐ हां दक्षिणायै स्वाहा । ॐ हां नैर्-ऋत्यै स्वाहा ।
ॐ हां वारुण्यै स्वाहा । ॐ हां वायव्यै स्वाहा ।
ॐ हाम् उत्तरायै स्वाहा । ॐ हाम् ऐशान्यै स्वाहा ।
ॐ हाम् अन्तरिक्षाय स्वाहा ।

एवं दशदिशां तृप्तिं कारयेद्दक्षिणाय च ॥ १८६ ॥

प्। १६१)

ॐ हाम् आदित्येभ्यः स्वाहा । ॐ हां वसुभ्यः स्वाहा ।
ॐ हां रुद्रेभ्यः स्वाहा । ॐ हां विश्वेभ्यः स्वाहा ।
ॐ हां साध्येभ्यः स्वाहा । ॐ हां मरुद्भ्यः स्वाहा ।
ॐ हां भृशभ्यः स्वाहा । ॐ हाम् अङ्गिरोभ्यः स्वाहा ।

आदित्याद्यं गिरोऽन्तं तु तर्पयेद्देवतीर्थकैः ।
तत्र कण्ठोपवीती च ऋषीणां तर्पणं क्रमात् ॥ १८७ ॥

कुशमध्येन तत्सर्वमङ्गुली सर्वसन्धिभिः ।

ॐ हाम् अत्रये नमः । ॐ हां वसिष्ठाय नमः ।
ॐ हां पुलस्त्याय नमः । ॐ हां क्रतवे नमः ।
ॐ हां भारद्वाजाय नमः । ॐ हां विश्वामित्राय नमः ।
ॐ हां प्रचेतसे नमः । ॐ हां सनातनाय नमः ।

प्। १६२)

अत्र्यादि प्रचेतान्तमृषयो देववंशजाः ॥ १८८ ॥

कनिष्ठामूलदेशाभ्यां मानुषाणां च तर्पणम् ।

ॐ हां सनकाय वषट् । ॐ हां सनन्दनाय वषट् ।
ॐ हां सनातनाय वषट् । ॐ हां सनत्कुमाराय वषट् ।

ॐ हां कपिलाय वषट् । ॐ हाम् ऋभवे वषट् ।
ऋभ्वन्तसनकादीनां सप्तानां मुनिनां क्रमात् ॥ १८९ ॥

सिद्धांश्च तण्डुलैः सार्धं पूर्ववत्तर्पणं भवेत् ।

ॐ हां शिखायै वषट् । ॐ हां रुद्राय वषट् ।
शिवादिचण्डपर्यन्तं दशचण्डांश्च तर्पयेत् ॥ १९० ॥

हस्तमाल्येन भूतानां तण्डुलैस्सह तर्पयेत् ।

ॐ हाम् आकाशभूतेभ्यो वौषट् ।

प्। १६३)

आकाशादिपृथिव्यन्तं भूतेभ्यस्तर्पणं कुरु ॥ १९१ ॥

कृत्वा यज्ञोपवीतं तु दक्षिण स्कन्धसंयुतम् ।
कुशाग्रं तत्तिलैः सार्धं तर्जनीमूल तर्पणम् ॥ १९२ ॥

ॐ हां कव्यवाहनाय स्वधा । ॐ हाम् अनलाय स्वधा
ॐ हां सोमाय स्वधा । ॐ हां यमाय स्वधा ।
ॐ हाम् अर्यम्णे स्वधा । ॐ हाम् अग्निष्वात्ताय स्वधा ।
ॐ हाम् आज्यपाय स्वधा । ॐ हां सोमपाय स्वधा ।

पितॄणां कव्यवाहादि सोमपान्तं प्रवर्तयेत् ॥

ॐ हां पितृभ्यः स्वधा । ॐ हां पितामहेभ्यः स्वधा ।
ॐ हां प्रपितामहेभ्यः स्वधा । ॐ हां मातुः पितामहेभ्यः स्वधा ।
ॐ हां मातुः प्रपितामहेभ्यः स्वधा ।

प्। १६४)

ॐ हां सर्वेभ्यः पितामहेभ्यः स्वधा ।
ॐ हां सर्वेभ्यो ज्ञातिभ्यः स्वधा ।
ॐ हां सर्वेभ्य आचार्येभ्यः स्वधा ।

पित्राद्याचार्यपर्यन्तं मनुष्याणां पितॄंस्तदा ॥ १९३ ॥

मातॄणां च ग्रहाणां च राक्षसानां तथैव च ।
स्वधान्तं तर्पणं कुर्याद् यथा विधिस्तथैव च ॥ १९४ ॥

ॐ हां सर्वेभ्यो मातृभ्यः स्वधा ।
ॐ हां सर्वेभ्यो ग्रहेभ्यः स्वधा ।
ॐ हां सर्वेभ्यो राक्षसेभ्यः स्वधा ।
ॐ हां हुम् अस्त्राय फडिति जलतीरे विनिक्षिपेत् ।
ॐ हां हृदयाय नम इति ।

प्। १६५)

हंसारयमुद्राया तीर्थानि सर्वांश्च हृदि संहरेत् ।
यत्र कारे समो वामो मन्त्रमन्यामनन्तरम् ॥ १९५ ॥

करन्यासं पुरा कृत्वा देहन्यासमनन्तरम् ।
बालबालिश वृद्धस्त्रीरोगिणां भोगि भूभुजाम् ॥ १९६ ॥

गुरुवक्त्रेण सङ्कोच्य तर्पणादींश्च कारयेत् ॥ १९६ १।२ ॥

इत्यचिन्त्य विश्वसादाख्ये सन्ध्योपासनविधिर्दशमः पटलः ॥