०७

अथ वक्ष्ये विशेषेण चाङ्कुरार्पणमुत्तमम् ।
सर्वमङ्गलकार्यादौ वीजावापं च कारयेत् ॥ १ ॥

न वाहे वाथ सप्ताहे पञ्चाहे त्रियहेऽपि वा ।
सद्योङ्कुरं वा कुर्वीत विधिवन्नन्दिकेश्वर ॥ २ ॥

बीजानामधिपश्चन्द्रो रात्रौ सस्यानि वापयेत् ।
दिनेऽपि च न कर्तव्यं कृतं चेत्कर्तृनाशनम् ॥ ३ ॥

प्। ७४)

हैमे वाप्यथवा तारे ताम्रे मृण्मयकेऽपि वा ।
पालिका नवविस्तारं परमं रन्ध्रमातृकम् ॥ ४ ॥

धर्माङ्गुलं तु मध्यं स्याच्छ्रेष्ठं रुद्राङ्गुलं भवेत् ।
विस्तारसममुत्सेधं तदर्धं पादविस्तरम् ॥ ५ ॥

तदर्धं नालविस्तारं सर्वत्रैव सुवृत्तकम् ।
पादपट्टं समाख्यातं प्रस्तरं चाधुनोच्यते ॥ ६ ॥

तदुत्तरं समारभ्य चैकांशेनोत्तमं भवेत् ।
ऊर्ध्व पद्ममथांशेन कपोतोच्चं गुणांशकम् ॥ ७ ॥

नेत्रमेकेन कर्तव्यं मनुनापि विहीनकम् ।
एवं प्रस्तरमाख्यातं ग्रीवं सुदर्तिकं भवेत् ॥ ८ ॥

महानास्यादिनाभिं च दिशामुर्त्यादि वर्जिता ।
सतारं कारयेद्धीमान् घण्टायाश्चाकृतिर्यथा ॥ ९ ॥

स्थूप्युत्सेधं द्विधाभज्य चैकेनाथ सरोरुहम् ।
एकेन मुकुलोत्सेधं सुवृत्तं चतुरश्रकम् ॥ १० ॥

नालतार त्रिभागैक पत्रिकायुगमुच्यते ।
वक्त्रताररसांशैकमोष्टमित्यभिधीयते ॥ ११ ॥

प्रोक्षयेत्पुरुषेणैव ब्रह्मा तस्याधिदैवतम् ।
शुद्धदेशे मनोरम्ये चैशान्यां दिशि संस्थितम् ॥ १२ ॥

बहिः कुर्याच्च कुर्याच्च स्थण्डिलात्सरलं तथा ।
दर्भैः पुष्पैरलं कृत्य पालितारवकेऽपि वा ॥ १३ ॥

प्। ७६)

पालिका नव सताभिः पञ्चभिर्वाथ कल्पयेत् ।
स्थण्डिलोपरि संस्थाप्य गन्धपुष्पादिनार्चयेत् ॥ १४ ॥

दर्भाग्रैश्च कुशैर्वापि निश्छिद्रं सुषिरं तथा ।
कषैर्वालुकाभिश्च मृद्भिस्ताः पूरयेत्क्रमात् ॥ १५ ॥

हृदये नैव मन्त्रेण पालिकास्तु प्रपूरयेत् ।
एतैस्तिलैर्मुद्गमाषैः शिम्बसर्षप वेणुजैः ॥ १६ ॥

ब्रीहिभिश्च कुलुत्थैश्च नवबीजैर्जलैस्तथा ।
क्षीरैश्च धेनुजैरेभिः कवचेन च वापयेत् ॥ १७ ॥

तन्मध्ये चन्द्रकुम्भं च साध्यतोयैश्च सेचयेत् ।
तत्कुम्भं चन्द्रमभ्यर्च्य गन्धपुष्पादिना तथा ॥ १८ ॥

प्। ७७)

दीक्षा प्रतिष्ठाकालेषु शुभेष्वन्येषु चेच्छिवम् ।
अङ्कुरार्पणकं चैव कार्यादौ नन्दिकेश्वर ! ॥ १९ ॥

अङ्कुरार्पणविधिस्सप्तमः पटलः ॥

देव देव ! महादेव ! लोकानुग्रहकारक ! ।
दीक्षासङ्कल्पमस्माकं महेश वक्तुमर्हसि ॥ १ ॥

ईश्वर उवाच ।

नन्दीश शृणु तत्सर्वं समाहितमनाः परम् ।
आदौ क्रियावतीं दीक्षां वक्ष्ये सदधिकारिणीम् ॥ २ ॥

दीयते ज्ञानसद्भावं क्षीयते च मलत्रयम् ।
तथा दीक्षा समाख्याता इच्छाज्ञान प्रदायिका ॥ ३ ॥

प्। ७८)

गुरुणां चैव सर्वेषां मुख्या सन्मार्गदायिका ।
धर्मार्थकाममोक्षाणां कारणं सद्गुरुः स्मृतः ॥ ४ ॥

विनश्यत्यन्धकारेण यथा सूर्यस्य सन्निधौ ।
गुरोर्निरीक्षणादेव सर्वपापात्प्रमुच्यते ॥ ५ ॥

गुरुस्पृशति हस्तेन यं यः पश्यति चक्षुषा ।
शिवं भवति तत्सर्वं शिवदेव प्रसादतः ॥ ६ ॥

न लिप्यते मलेनैव पद्मपत्रमिवाम्भसा ।
तस्माद्गुरुः शिवः प्रोक्तो गुरुश्शक्तिर्मनोन्मनी ॥ ७ ॥

दीक्षाशत सहस्रं तु पापानां कृतवानपि ।
शिवज्ञानमलब्धञ्चेद् ज्ञान यात्रां समाश्रयेत् ॥ ८ ॥

प्। ७९)

ज्ञानहीनं गुरुं प्राप्य कुतो मुक्तिरवाप्यते ।
भिन्ननावाश्रितस्सधौ यथा पारं न गच्छति ॥ ९ ॥

तस्मात् सर्वप्रयत्नेन संश्रयेद् ज्ञानपारगम् ।
मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पं वनान्तरे ॥ १० ॥

ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ।
तं लब्ध्वा विसृजेच्छिष्योप्यधः पतन निश्चयम् ॥ ११ ॥

चतुर्विधा क्रियादीक्षा स बीजा बीजवर्जिता ।
अधिकारेण संयुक्ताप्यन्या निरधिकारिणी ॥ १२ ॥

स बीजा समयाचार संयुक्तानां नृणां भवेत् ।
विधिहीना त्व पङ्कादि स्त्रीबालेषु विधीयते ॥ १८ ॥

प्। ८०)

साधकाचार्य योग्या या साधिकारा तु सा भवेत् ।
नित्ये नैमित्तिके काम्ये योग्यतास्ति विशेषतः ॥ १४ ॥

नित्यमात्राधिकारं वा निर्बीजान्येति चेतसा ।
एवं चतुर्विधाप्येषा क्रियादीक्षा मयोदिता ॥ १५ ॥

अथ भक्ति समायुक्तं शिवानुध्यान काङ्क्षिणीम् ।
परीक्ष्य चामलं शिष्यं विलोक्य कृपया गुरुः ॥ १६ ॥

दीक्षा कार्यं प्रकूर्वीत कृतनित्यक्रियो गुरुः ।
अनुग्राह्यास्त्रयश्शास्त्रे विज्ञान प्रलया कलौ ॥ १७ ॥

तृतीयस्सकलश्चैवमाद्यो विमलमातृकः ।
मलकर्मसमायुक्तः प्रलया कल एव च ॥ १८ ॥

प्। ८१)

सकलश्च निवृत्त्यादि कलावृद्धिं ततस्ततः ।
तेषां क्रियावती दीक्षा द्विविधा नन्दिकेश्वर ॥ १९ ॥

साधारा च निराधारा साधारा सकलस्य तु ।
निराधाराह्यथान्येषामेवं दीक्षा मयोदिता ॥ २० ॥

आचार्य निरपेक्षेण तीव्रशक्त्या तु शम्भुना ।
या क्रिया क्रियते सा तु निराधारेति कीर्तिता ॥ २१ ॥

गुरुमूर्तिं समास्थाय मन्दतीव्रादि भेदया ।
भक्त्या शम्भुश्च कुरुते या दीक्षा सा साविकरण ॥ २२ ॥

महेन्द्रे च महामेरौ मलये पारियात्रिके ।
विन्ध्ये च मन्दरेचैव श्रीगिरौ हिमपर्वते ॥ २३ ॥

प्। ८२)

गङ्गातीरे च कालिन्दी नर्मदातुङ्ग भद्रके ।
सरस्वत्यां पयस्विन्यां कावेरी कन्यका तटे ॥ २४ ॥

वाराणस्यादि पुण्येषु क्षेत्रदेशेषु वा तथा ।
समुद्रगाया नद्या वा तीरे शुद्धे महाह्रदे ॥ २५ ॥

पुष्पोद्यानेऽथवा नित्यं क्षीर वृक्षसमीपके ।
पासादे च मठे चैव श्रोत्रियस्य गृहे सदा ॥ २६ ॥

शुद्धदेशे मनोरम्ये मृजाधिकतले समे ।
मण्डपं कारयित्वा तु विरक्तस्तम्भसंयुतम् ॥ २७ ॥

षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा ।
वेदीं कुर्याद्विशेषेण दर्पणोदरसन्निभाम् ॥ २८ ॥

प्। ८३)

अथवा सङ्कटस्थाने योग्यरूपेण कल्पयेत् ।
हस्तमात्रं तदुत्सेधं रत्निमात्रमथापि वा ॥ २९ ॥

तालमात्रेण वा कुर्यादुपवेदी समन्वितम् ।
चतुरङ्गुलमुत्सेधं विस्तारं द्व्यङ्गुलं भवेत् ॥ ३० ॥

त्र्यङ्गुलं वा द्व्यङ्गुलं वाप्युत्सेधं सम्प्रकीर्तितम् ।
अथ हस्तद्विहस्तं वा वेदीं कुर्याद्विचक्षणः ॥ ३१ ॥

अग्निकुण्डं तु कर्तव्यं चतुरश्रं तु पूर्वकैः ।
मेखलायोनि संयुक्तं नाभियुक्तं मनोहरम् ॥ ३२ ॥

सर्वलक्षणसंयुक्तं वृत्तकुण्डमथापि वा ।
गोमयालेपनं कुर्याद्दर्भमालाभिरावृतम् ॥ ३३ ॥

वितानध्वज संयुक्तं मुक्तादामैरलङ्कृतम् ।
पुष्पमालासमाकीर्णं तरङ्गेण निवेष्टयेत् ॥ ३४ ॥

स्तम्भानि वेष्टयेत्तत्र मण्डलं वर्धयेत् क्रमात् ।
श्वेतरक्तं तथा श्यामं पीतं कृष्णं च वर्णकम् ॥ ३५ ॥

भक्त्या तु श्रद्धयाह्येवं मुक्ताद्यैः पञ्चरत्नकैः ।
स्फटिकैर्जाति लिङ्गोत्थैर्हरिदारैस्सजामिकैः ॥ ३६ ॥

अञ्जनैश्चूर्णनिकरैः पञ्चभिर्वा विधानवित् ।
श्वेतं स्याच्छालिपिष्टेन रक्तमिष्टिकया तथा ॥ ३७ ॥

श्यामाकञ्चं शाकचूर्णं पीतं हारिद्रमेव वा ।
तुषाङ्गारभवं कृष्णं पञ्चचूर्णेन वा पुनः ॥ ३८ ॥

प्। ८५)

श्वेतं तु तण्डुलं प्रोक्तं धातुना रञ्जितं ततः ।
रक्तवर्णमिदं ज्ञेयं मुनिपत्रस्य सारयुक् ॥ ३९ ॥

श्यामं तदेव मुद्गैर्वा राजमाषैस्तु कृष्णकम् ।
एवं भूतैर्यथा लब्धैर्देशिकेन्द्र पुरस्सरैः ॥ ४० ॥

शालिपिष्टार्द्रकार्पास सूत्रेण च पदं न्यसेत् ।
पूर्वादि पश्चिमान्तं तु त्रयस्त्रिंशन्न्यसेत् क्रमात् ॥ ४१ ॥

दक्षिणोत्तरसूत्रं तु त्रयस्त्रिंशद्भवेत् पुनः ।
पुनर्विंशति संयुक्त सहस्र पदपङ्क्तिकम् ॥ ४२ ॥

षट्त्रिंशत्तु पदं तत्र मध्ये पद्मं प्रकल्पयेत् ।
अष्टपत्रसमायुक्तं कर्णिकाकेसरोज्वलम् ॥ ४३ ॥

प्। ८६)

तत्त्रिभागैक भागं तु कर्णिकाकेसराणि वै ।
कर्णिका पीतवर्णेन रक्तवर्णेन केसरान् ॥ ४४ ॥

मूले च तत्तदग्रे च श्वेतवर्णेन लेखयेत् ।
कर्णिकाबीजसंयुक्तं श्वेतरक्तसमन्वितम् ॥ ४५ ॥

दलाष्टकं तथा चक्रं रेखाश्वेतेन लेखयेत् ।
कृष्णेन तदनुज्ञेयं वृत्तं श्वेतमिति स्मृतम् ॥ ४६ ॥

पूर्व कुङ्कुम लिङ्गन्तु दक्षिणे कृष्णलिङ्गकम् ।
उत्तरे हेमलिङ्गन्तु श्वेतलिङ्गन्तु पश्चिमे ॥ ४७ ॥

आग्नेय दिशि तद्वर्णं लतयालङ्कृतं भवेत् ।
नैर्-ऋत्यां श्यामवर्णाभां वायव्यां कृष्णवर्णिकाम् ॥ ४८ ॥

प्। ८७)

ऐशान्यां व्रततिं शुक्लां पद्माग्रान्तां प्रकल्पयेत् ।
अवशिष्टं यदैकत्राप्युप लिङ्गांश्च स्वस्तिकान् ॥ ४९ ॥

शेषाण्यन्यानि सर्वाणि युक्त्या वर्णानि कल्पयेत् ।
तदा लिङ्गोद्भवं हेतन् मण्डलं परिकीर्तितम् ॥ ५० ॥

देशिकस्तारसंयुक्तः करार्ध्याम्बु समन्वितः ।
द्वाराधिपार्चनं कृत्वा देहलीविघ्नमुत्सरेत् ॥ ५१ ॥

तत्रास्त्रं विन्यसेदुच्चं स्वासने संस्थितो गुरुः ।
भूतशुद्धिं पुरा कृत्वा चान्तरङ्गे यजेत्पुनः ॥ ५२ ॥

सिद्धार्थ तण्डुलतिलं सुमं दूर्वा कुशोदकम् ।
क्षीरनीरं यवं चैव विशेषाच्च विधीयते ॥ ५३ ॥

प्। ८८)

तदर्घ्य वारिभिश्शुद्धिर्द्रव्याणां च विधीयते ।
तिलकं स्वासनं चैवमात्मनश्च विशुद्धये ॥ ५४ ॥

पूर्ववत्पूजितं मन्त्रं संशुद्धिः पञ्चगव्यकैः ।
विकीर्य द्रव्यमेवं हि लाजचन्दन भस्मभिः ॥ ५५ ॥

शुद्धाश्च कुशदूर्वैर्वा केवलं शुद्धलाजयुक् ।
अस्त्रजप्ताभिसंयुक्ता नस्त्राम्बु प्रोक्षितांस्तथा ॥ ५६ ॥

वर्णाभान्वर्णितांश्चैव नाना प्रहरणोपमान् ।
प्रत्यूहध्वंसकानेतान् कृत्वा वा नन्दिकेश्वर ॥ ५७ ॥

षट्त्रिंशद्दर्भमन्त्रेण कृतां हालेन मानिताम् ।
शिवहेत्या सप्तजप्तां वेणुवाथासि रूपिणीम् ॥ ५८ ॥

प्। ८९)

मनसाध्या देवेशं सृष्ट्या ध्यानं यथेप्सितम् ।
शिवं च निष्कलं न्यस्य शिवोहमिति भावयेत् ॥ ५९ ॥

श्वेतोष्णीषं न्यसेन्मूर्ध्नि मूलमन्त्राभिमन्त्रितम् ।
उत्तरीयं तु गायत्र्या सद्योजातेन वाससम् ॥ ६० ॥

कर्पूरक्षोद संयुक्तैश्चन्दनैः कुङ्कुमैस्तथा ।
भस्मना गन्धयुक्तेन स्वात्मानं भूषणैस्तथा ॥ ६१ ॥

परिकुर्याद्विशेषेण देशिकोत्यन्तनिर्मलैः ।
क्षौमैश्च वस्त्रैश्शुद्धैश्च विविधाभरणादिभिः ॥ ६२ ॥

कुर्याद्दक्षिण हस्तेन स्वैर्गन्धैर्मण्डलं कुरु ।
तस्मिन्नीशं समभ्यर्च्य शिवहस्तं प्रकल्पयेत् ॥ ६३ ॥

प्। ९०)

शिवमन्त्रेण तं न्यस्त्वा तेजिष्ठो निजमस्तके ।
ईशादभिन्नमात्मानं कर्तारं भावयेत्तदा ॥ ६४ ॥

साक्षिभूतो निरीक्षेत कर्माण्यपि च मण्डले ।
कुम्भे मखं पालयति वह्न्याधिकरणं तथा ॥ ६५ ॥

पाशौघमोचनं कुर्याच्छिष्ये तत्र विशेषतः ।
स्वस्मिन्नति गृहीतेति पञ्चाधारे महेश्वरः ॥ ६६ ॥

अहं स सोऽहमेवेति कुर्याद्भावं स्थिरं तथा ।
नैर्-ऋत्यामु शिष्ट्या स्थित्वा ज्ञानकृपाण युक् ॥ ६७ ॥

यज्ञधाम्नोक्षयेदर्घ्यं वारिभिः पञ्चगव्यकैः ।
चतुष्पथान्त संस्कारैरीक्षणाद्यैस्सुसंयुतः ॥ ६८ ॥

प्। ९१)

शुद्धिं कुर्याद्विशेषेण देशिकोऽपीश विग्रहः ।
तत्र विक्षिप्त विकिरात् कुशकूर्चान्समूहयेत् ॥ ६९ ॥

ऐशे हरति वर्धन्या स्वासनाय च तान्क्षिपेत् ।
मण्डलस्येश दिग्भागे स्थण्डिलं चतुरश्रकम् ॥ ७० ॥

द्रोणैरपि तदर्धैर्वा तदर्धैर्ब्रीहिभिस्तु वा ।
ब्रीह्यर्धं तण्डुलं प्रोक्तं तण्डुलार्धं तिलं स्मृतम् ॥ ७१ ॥

एककुम्भस्य मानं तदन्यकुम्भं विवृद्धये ।
सर्वलक्षणसंयुक्तं सर्वदोषविवर्जितम् ॥ ७२ ॥

हैमं रजतकुम्भं वा ताम्रं मृण्मयमेव वा ।
शिवकुम्भं कुम्भमेवमन्यत्कलशमेव वा ॥ ७३ ॥

प्। ९२)

त्रिसूक्ति युक्ति सूत्रेण द्विजदृष्टिपदा वृतम् ।
चतुर्हस्तं त्रिहस्तं वा द्विहस्तं चैकहस्तकम् ॥ ७४ ॥

कृत्वा स्थण्डिलमेव तु मध्ये पालिं प्रकल्पयेत् ।
दलाष्टकसमोपेतं कर्णिकाकेसरोज्वलम् ॥ ७५ ॥

चतुष्पदसमायुक्तं बाह्येका वरणान्वितम् ।
पूर्वोत्तरात्रिदर्भैश्च पूर्वादिक्रमशो न्यसेत् ॥ ७६ ॥

सहदेव्यैकपत्रन्तु भद्रं वैकङ्कतं तथा ।
विष्णुक्रान्तिश्च पञ्चैते पञ्चौषधमिति स्मृतम् ॥ ७७ ॥

सुशालिकोद्रवैश्चैव यवनीवार वेणुकम् ।
एते पञ्चयवाः प्रोक्ताः कुम्भेष्वेतान्समर्पयेत् ॥ ७८ ॥

प्। ९३)

पर्वते च तटाके वा समुद्रे वृषशृङ्गके ।
क्षेत्रे पञ्च मृदोग्राह्याः क्रमेणैव तु निक्षिपेत् ॥ ७९ ॥

मुक्ता माणिक्य वैडूर्य पुष्य वज्र प्रवालकान् ।
इन्द्रनीलं च गोमेदं तथा मरकतं त्विति ॥ ८० ॥

नवरत्नमिदं प्रोक्तं शिवकुम्भादिषु न्यसेत् ।
हेमकुम्भं च निक्षिप्य नववस्त्रैश्च वेष्टयेत् ॥ ८१ ॥

कूर्चं सर्वेषु निक्षिप्य चूतपत्रं मुखे क्षिपेत् ।
मातुलुङ्ग फलैश्चैव पूर्वस्यां शोभनास्तथा ॥ ८२ ॥

नैर्-ऋत्यां वसुदेवांश्च लक्ष्मीं द्वारे प्रपूजयेत् ।
वारुण्यां सम्मुखी रक्तैः पूरयन्ती मखालयम् ॥ ८३ ॥

प्। ९४)

अर्चयेन्मण्डपाकारान् हृदा ध्यात्वा समाहितः ।
मण्डपस्योत्तरे भागे पूजयेच्छिवमव्ययम् ॥ ८४ ॥

अथ स्नातं विशुद्धं च शुद्धवस्त्रैश्च संयुतम् ।
निराहारं च श्रद्धालुं शिष्यमग्रे निधाप्य च ॥ ८५ ॥

अक्रोधं भक्तिविश्वासं गुर्वाज्ञापालनं तथा ।
गुरुद्रोह शिवद्रोह समयद्रोहवर्तिनम् ॥ ८६ ॥

अदीक्षितमबन्धुत्वात् कृतघ्नमविवेकिनम् ।
गुरुदोषावलोकं च स्वदोषानवलोकिनम् ॥ ८७ ॥

अष्टौतांश्च न कुर्वीत त्यज्याश्च शपथं भवेत् ।
शिष्यमेवं विधं वापि शासयित्वा तु देशिकः ॥ ८८ ॥

प्। ९५)

प्रोक्षयेच्छङ्खतीर्थेन दिव्यदष्ट्यावलोकयेत् ।
वज्रासनो परिन्यस्य सर्वालङ्कार संयुतम् ॥ ८९ ॥

पाशस्तोहं प्रकर्तव्यं जीवान्तं वह्नि संयुतम् ।
पिङ्गलादि समायुक्तं बिन्दुनाद समन्वितम् ॥ ९० ॥

कूटाक्षरद्वितीयं तु मायानलसमन्वितम् ।

ह्रीं ह्रीं ह्रीम्

अग्निमण्डलमध्ये तु रश्मिज्वालासमाकुलम् ॥ ९१ ॥

कालवेष्टकतद्भावं गुह्यद्वारे सुयोजितम् ।
चक्षुर्भूतस्सदामन्त्रं पाशस्तोभो विधीयते ॥ ९२ ॥

क्षुरिकास्त्रं समुच्चार्य पाशच्छेदन्तु कारयेत् ।
सदाचार्यः प्रसन्नात्मा त्वेकचित्तस्समाहितः ॥ ९३ ॥

प्। ९६)

अस्त्रमन्त्रं समुच्चार्य प्रोक्षयेच्छिष्य विग्रहे ।
तस्माद्दक्षिणहस्ते तु रक्षासूत्रं प्रकल्पयेत् ॥ ९४ ॥

उत्तराभिमुखं कृत्वा नैष्ठिकं कूटिकासनम् ।
भौतिकं पूर्वदिग्वक्त्रं पश्चिमास्यमथापि वा ॥ ९५ ॥

तण्डुलैस्तत्करं कुर्यात् रक्षासूत्रं तु भस्मना ।
अभिमन्त्र्य गुरुं पूज्य सव्याङ्गुष्ठ विवर्जितम् ॥ ९६ ॥

तत्तन्तु त्रिगुणीकृत्य शिष्यहस्तं च बन्धयेत् ।
कवचे नैव तद्ग्रन्थिं भस्मना रक्षणं भवेत् ॥ ९७ ॥

ब्रह्मादिकारणान्पूज्य हृदयेनैव तत्र वै ।
नैष्ठिके त्वीशमन्त्रेण भौतिके पुरुषादिभिः ॥ ९८ ॥

प्। ९७)

विप्रादीनां च कर्तव्यमुपवीतं यथाक्रमम् ।
मण्डल न्यासपूजां च ततः कुर्यात्तु देशिकः ॥ ९९ ॥

उत्तराभिमुखो भूत्वा पद्ममध्ये शिवं यजेत् ।
ईशानं तत्र विन्यस्य पूर्वे तत्पुरुषं यजेत् ॥ १०० ॥

अघोरं दक्षिणे भागे वामदेवं तु चोत्तरे ।
सद्यं पश्चिमदिग्भागे पञ्चब्रह्म न्यसेत्क्रमात् ॥ १०१ ॥

हृदये विन्यसेद्वह्निं दले नैर्-ऋत्यके शिरः ।
वायव्यां च शिखा प्रोक्ताप्यैशान्यां कवचं यथा ॥ १०२ ॥

कर्णिकायां पुरोभागे नेत्रन्यासो विशेषतः ।
अनन्ताद्यष्टविद्येशा नष्टाशासु यजेत्क्रमात् ॥ १०३ ॥

प्। ९८)

धर्मज्ञानं च वैराग्यम् ऐश्वर्यं च तथैव च ।
अङ्गविद्येश्वराणां च मध्ये वह्न्यदिकोणके ॥ १०४ ॥

विन्यस्यैवं प्रसन्नात्मा पश्चात्कुम्भार्चनं भवेत् ।
वर्धनीमीशदिक् संस्थां सिंहस्थां खड्गरूपिणीम् ॥ १०५ ॥

अस्त्रेण तां यजेत्पश्चात् प्रणवाद्यासनस्थिताम् ।
वाहनायुधदीप्तांश्च दिक्षु शक्रादिषु स्थितान् ॥ १०६ ॥

विष्ण्वन्तान्दश सम्पूज्य नमस्कारैः स्वनामभिः ।
तां वर्धनीं समादाय कुम्भाग्रानुगमोन्मुखीम् ॥ १०७ ॥

अविच्छिन्नाम्बुधारां च भ्रामयेच्च प्रदक्षिणीम् ।
मखमण्डपरक्षार्थं मूलमन्त्रं समुच्चरन् ॥ १०८ ॥

प्। ९९)

शिवाज्ञां लोकपालेभ्यः श्रावयेद्देशिकोत्तमः ।
धृत्वा कुम्भे यजेदेतान् पूजार्थं नन्दिकेश्वर ॥ १०९ ॥

पश्चात्स्थिरासनं कुम्भे पूजयेत्स्वाङ्गमीश्वरम् ।
शौण्ड्यं विन्यस्य चाध्वानं वर्धन्यां चास्त्रमर्चयेत् ॥ ११० ॥

ॐ अस्त्रासनाय हुं फण्णमः । ॐ अस्त्र मूर्तये हुं फण्णमः । ॐ
क्लीं श्लीं पाशुपतास्त्राय हुम्फण्णमः । ॐ शिरसे हुं फण्णमः ।
ॐ शिखायै हुं फण्णमः । ॐ श्रूं कवचाय हुं फण्णमः । ॐ
नेत्रत्रयायै हुं फण्णमः । ॐ हुम् अस्त्राय हुं फण्णमः ।

प्। १००)

सहस्रादित्यसङ्काशं युगान्ताभ्र समस्वनम् ।
चतुर्भुजं चतुर्वक्त्रं प्रतिवक्त्रं त्रिलोचनम् ॥ १११ ॥

नागयज्ञोपवीतं च प्रदीप्तवदनं सदा ।
शक्तिमुद्गरशूलाग्नि हस्तं चन्द्रार्धशेखरम् ॥ ११२ ॥

योनिलिङ्गसमायामं प्रकुर्याद्योनिमुद्रया ।
अङ्गुष्ठेन स्पृशेत्कुम्भं हृदा मुष्ट्या तु वर्धनीम् ॥ ११३ ॥

भोगमोक्षाय मुष्ट्यातां संस्पृशेन्नन्दिकेश्वर ।
ज्वलज्ज्वालानलप्रख्यं क्षमूर्ध्व सुसंयुतम् ॥ ११४ ॥

ज्ञानासिं नैर्-ऋते पूज्य कुम्भोपरि शिवं यजेत् ।
ईशानं शिवकुम्भं च पुरुषं पूर्वकुम्भके ॥ ११५ ॥

प्। १०१)

अघोरं दक्षिणे कुम्भे वामदेवं तु चोत्तरे ।
सद्यं पश्चिमकुम्भं तु पूजयेन्नन्दिकेश्वर ॥ ११६ ॥

तद्बहिश्चाष्टकुम्भेषु पूजयेन्नर्मदां पुनः ।
दक्षिणे कन्यकां पूज्य वारुण्यां च समुद्रिकाम् ॥ ११७ ॥

गङ्गामुत्तरकुम्भे च यमुनां वह्निकुम्भके ।
सरस्वतीं च नैर्-ऋत्यां काबेरीं वायुकुम्भके ॥ ११८ ॥

ऐशान्यां तुङ्गभद्रां च पूजयेच्च यथा क्रमम् ।
आवाहन विसर्गान्तं ॐ हां युक्तं स्वनामभिः ॥ ११९ ॥

नमस्कारान्तमन्त्रैश्च पूजयेत्तीर्थमातृकाः ।
ॐ यथा कृतं यत्नेन भगवन्मुखमन्दिरम् ॥ १२० ॥

प्। १०२)

वणीयं वं जगन्नाथा सर्वाध्वरधुरन्तथा ।
ओङ्कारस्थं चतुर्बाहुं विघ्नेशं नैर्-ऋते यजेत् ॥ १२१ ॥

वायव्ये षण्मुखं पूज्य यथार्हं देशिकः क्रमात् ।
चन्दनेषु समायुक्तं वारिभिः कृतमण्डले ॥ १२२ ॥

स्थण्डिलाद्बहिरेवं तु सम्पूज्य विधिनाततः ।
स्थण्डिलात्सपतिर्मध्ये स विस्तारं च पूजयेत् ॥ १२३ ॥

तत्रानुज्ञां समादाय गच्छेत्सार्पेण देशिकः ।
मन्त्राणां तृप्तये चैव कुण्डपार्श्वं वजेद्गुरुः ॥ १२४ ॥

विक्तासनमासीनो श्रुतगन्धार्कवारि च ।
सर्वं वामे च विन्यस्य समिद्दर्भतिलादिकम् ॥ १२५ ॥

प्। १०३)

कुण्डाग्नि स्रुक्स्रुवाज्यं च संस्कारं पूर्ववद्भवेत् ।
अग्न्यूर्ध्वमुखमध्ये च शिवं सम्पूज्यदेशिकः ॥ १२६ ॥

स्वमूर्तौ मण्डले चैव शिवकुम्भेग्निशिष्ययोः ।
सृष्टिक्रमेण विन्यस्य शोध्याऽध्वानं यथाविधि ॥ १२७ ॥

मुखनामाग्निजिह्वानां ज्वालानां लक्षणं शृणु ।
कुण्डमानं मुखं ज्ञात्वा हृदयेनाहुतिर्भवेत् ॥ १२८ ॥

शिष्य संस्कारहीनं च नित्यहोमं च पश्चिमे ।
उत्तरे पुष्टि सौभाग्य वश्याकर्षण शान्तिके ॥ १२९ ॥

पाशानां तु विशुद्धौ हि होमकर्मविधीयते ।
अस्त्राञ्जनपदालेपा गुलिकास्त्वभिलाषणे ॥ १३० ॥

प्। १०४)

छात्रसञ्जननार्थं च पूर्ववक्त्रे यजेद्गुरुः ।
स्तम्भनोच्चाटनं चैव मारणं दक्षिणे भवेत् ॥ १३१ ॥

प्रायश्चित्ताहुतिस्तत्र मुक्तये चोर्ध्व वक्त्रके ।
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥ १३२ ॥

अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः ।
ऐशेन्द्र वह्नि नैर्-ऋत्या वारुणीदिक्पतिक्रमात् ॥ १३३ ॥

हिरण्याद्याश्चतस्रस्तु षट्स्थिता रक्तगर्भकाः ।
बहुरूपा मध्यतः स्थित्वा दक्षिणोत्तरगामिनी ॥ १३४ ॥

हिरण्या द्रुतहेमाभा कनका वज्ररूपिणी ।
रक्तारुणसमाभासा कृष्णा नीलमणिद्युतिः ॥ १३५ ॥

प्। १०५)

सुप्रभा मौक्तिक ज्योति रतिरक्ता परागवत् ।
बहुरूपा शरच्चन्द्र चन्द्रकान्तसमप्रभा ॥ १३६ ॥

प्रत्येकं काम्यभेदेन जिह्वाभेदो विधीयते ।
हिरण्याकर्षणे वश्ये स्तम्भने कनका भवेत् ॥ १३७ ॥

शत्रु विद्वेष मोहे च रक्ता कृष्णा तु मारणे ।
सुप्रभा शान्ति पुण्यादौ सुरक्तोच्चाटने भवेत् ॥ १३८ ॥

एकैकवक्त्रे रूपा तु सर्वाभीष्टप्रदायिनी ।
अभीष्टवक्त्रे जिह्वानां होरे चेयं विधीयते ॥ १३९ ॥

विरेफावात्तिमौ मासौ रेफा षष्ठस्वरस्थितौ ।
इन्दुबिन्दु शिखायुक्तौ जिह्वा बीजान्यनुक्रमात् ॥ १४० ॥

प्। १०६)

शान्तिके पौष्टिके होमं मधुक्षीरैक्षवादिभिः ।
कीलालसन्तु पुण्याहमाभिचारे विशेषतः ॥ १४१ ॥

कन्दकैर्लवणैस्तक्र राजिका परतैलकैः ।
कारस्कारादनुजृम्भिः समिद्भिः कथमन्त्रकैः ॥ १४२ ॥

कर्पूरजलेय विद्याधरफलाप्तये ।
अन्यथान जुहुयात्साधकोत्तमः ॥ १४३ ॥

यक्षिणीसिद्धिकामस्तु कदम्बकलिकां हुनेत् ।
चक्रवर्तित्वलाभाय पद्मैर्मुक्तादि सम्पदे ॥ १४४ ॥

आरोग्यकामी दूर्वाभिः सर्वप्राणिवशीकृते ।
प्रियंहुरं वा पुष्पाणि समाहितमना हुनेत् ॥ १४५ ॥

प्। १०७)

छिन्नोद्भवैस्समधुरैर्जुहुयात्सद्य एव हि ।
आम्रपल्लवहोमेन विषमज्वरशान्तिदम् ॥ १४६ ॥

तद्घृतेन सहार्वेण प्लुतं मृत्युञ्जयं भवेत् ।
अस्य मन्त्रः । अमुकस्य ज्वरं नाशयज्ञं सौ वषट्
पलाशकुसुमैश्चैव कवित्वं जनयेत्क्षणात् ॥ १४७ ॥

अस्य मन्त्रः । वद वद वाग्वादिनीं स्वाहा ।
प्रचेतसं जलेभ्यर्च्य वृष्टिकामो विशेषतः ॥ १४८ ॥

तिलानरुणमन्त्रेण वामदेवेन होमयेत् ।
जगत्समस्तं मेघौघैः इव सम्प्लावयेत्सदा ॥ १४९ ॥

भेदयेत्तिलहोमेन क्षणात्पाशुपताणुना ।

प्। १०८)

अस्य मन्त्रः । ॐ श्लीं श्लीं शुं हुं फट् स्फोटय स्फोटय हुम्फट् ॥

सप्तबाधाञ्चशान्त्यर्थं रुद्रशान्तिं तिलादिभिः ॥ १५० ॥

होमं सर्वं विशेषेण साधकाय निवेदयेत् ।
पूर्वोक्तविधिना चैव प्रकृतं वक्ष्यते क्रमात् ॥ १५१ ॥

मूलेनाष्टशतं हुत्वा दशांशैश्चाभिमन्त्रकैः ।
प्लुतमूलं समुच्चार्य दद्यात्पूर्णाहुतिं क्रमात् ॥ १५२ ॥

इति शिष्यं प्रवेशाय प्रत्येकं तु शतं हुनेत् ।
अथवा सर्वसम्पत्यै जुहुयाद्देशकालयोः ॥ १५३ ॥

शुभाय दुर्निमित्तानां सुनिमित्तस्य सिद्धये ।
मूलमन्त्रेण जुहुयात् प्रत्येकं तु शतद्वयम् ॥ १५४ ॥

प्। १०९)

शिवाद्यस्त्रान्तमन्त्राणां स्वाहान्तं तर्पणं सकृत् ।
शिखासं पुटितैर्मन्त्रै हुम्फडन्तैश्च दीपनम् ॥ १५५ ॥

ॐ ह्रीं शिवाय स्वाहा इति तर्पणे
ॐ ह्रीं हौं शिवाय वौषडित्यादि दीपनम् ।
स्थालीं शिवाम्भसा शुद्धां कवचेनाव गुण्डिताम् ॥
श्रीकण्ठाद्यैः समालब्धां बध्नीयात्कुण्डमण्डले ॥ १५६ ॥

कवचास्त्रजप्त सन्दर्भं प्रत्येकन्तु शतद्वयम् ।
वारिणा मण्डलं कृत्वा धर्मज्ञानादिरासनम् ॥ १५७ ॥

आवाह्य मूर्तिं मूर्तीशं ध्यातं पुष्पैः शिवं यजेत् ।
एवं स्थाल्याङ्गुलैः पुष्पैः पूजयेद्देशिकोत्तमः ॥ १५८ ॥

निरीक्षणादिशुद्धायां चुल्ल्यां कुण्डस्य लक्षणम् ।
हुङ्कारबीज युक्तायाः पश्चिमस्यां विशेषतः ॥ १५९ ॥

प्। ११०)

धर्माय धर्मरूपायामस्त्रं तस्यां तु विन्यसेत् ।
तत्र स्थालीं समारोप्य शुद्धां क्षुरिक वारिणा ॥ १६० ॥

वि ******** त्रासाश्च तु सिद्धये ।
अस्त्राभिजप्तां हां कृत्वा गव्यप्रासादमन्त्रितम् ॥ १६१ ॥

आमतण्डुलक्षीराज्यं शतं जप्त्वा तु विन्यसेत् ।
प्रसृतेः पञ्चसंयुक्तं शिष्यं प्रति गुरूत्तमः ॥ १६२ ॥

त्रयाधिकानां शिष्याणां प्रसृतिं वर्धयेत्क्रमात् ।
प्रधानं चाग्निमन्त्रेण पिधानं कवचेन तु ॥ १६३ ॥

मूलेन पूर्वमुख्यांश्च चरूंश्चारु पचेद्गुरुः ।
शिवपादकदीपिन्या सुच्छिन्ने चुल्लिमध्यतः ॥ १६४ ॥

आज्येन स्रुवमापूर्य स्वाहान्तं स्वाहृतां मनुम् ।
जप्त्वा हुत्वा ततः तप्त्वा न्तकारणो गुरुः ॥ १६५ ॥

प्। १११)

चुल्यधो मण्डले दर्भे अस्त्रजप्ते विशेषतः ।
स्थालीं संस्थाप्य तारेण पिधायास्यं समन्ततः ॥ १६६ ॥

उल्लेखनं ततः कुर्याल्लेपनं हृदयाणुना ।
शीताभिघारणं प्राप्य शीतलो भवति क्रमात् ॥ १६७ ॥

सकृत्सकृद्वौषडन्त सहितं मन्त्रपूर्वकम् ।
होमं कुर्यात्सुदीप्ताग्नौ हविषा नन्दिकेश्वर ॥ १६८ ॥

सम्पाताज्यस्य संसिद्धे धर्माद्यासन कल्पिते ।
स्रुवं निधाय पाश्चात्ये कुण्डमण्डलतो गुरुः ॥ १६९ ॥

स्रुवेणाज्याहुतिं कृत्वा संहितामन्त्र संयुतम् ।
विधूयात्स्रुवमेवं च पुनस्संहितया हुनेत् ॥ १७० ॥

प्। ११२)

वषडन्तं चरुं कृत्वा सकृदालभ्य देशिकः ।
धेनुमुद्रामृतीभूतं शान्त्यर्थं स्थण्डिलं नयेत् ॥ १७१ ॥

आज्यं त्रिभागां कुर्याच्च देवाग्निश्छानकारणम् ।
दिक्पालेभ्यश्चरुं कुर्यात्समिदाज्यत्रयं ततः ॥ १७२ ॥

हृदा दुग्धं नमोन्तेन ते नैवाचमनीयकम् ।
अस्त्रमष्टोत्तरशतं हुत्वा पूर्णाहुतिं हुनेत् ॥ १७३ ॥

कुण्डतः पूर्वभागे वा शिवकुम्भस्य पूर्वकम् ।
मातृनुद्भगणादीनां स्वनामान्तहृदा ततः ॥ १७४ ॥

अन्तर्बलिविधानं च सिध्यान्नन्दिकेश्वर ।
ईशमध्याप्यलब्धाक्षो भावयेदेकभावनः ॥ १७५ ॥

प्। ११३)

सर्वाध्वो परिनिस्तीर्ण सर्वज्ञाति गुणैर्युतः ।
अस्मदध्वर सिद्ध्यर्थम् अधिष्ठाता महाध्वरे ॥ १७६ ॥

शिवोहं भावयेदस्मान् निष्क्रामेद्यागमण्डपात् ।
शुक्लमस्त्रोपहारं च समसृस्त्राणु मण्डले ॥ १७७ ॥

प्राणवासनके सृक्स्यात्पूर्वाग्रयुतदर्भके ।
भुक्त्यै प्रागाननं कृत्वा मुक्त्यै चोत्तरवक्त्रकम् ॥ १७८ ॥

पञ्चगव्यं कुशोदं च प्राशयेत्तत्र वै गुरुः ।
पश्चादाचमनं कुर्यान् मन्त्रकर्मविधि क्रमात् ॥ १७९ ॥

स्नानमेवं प्रकुर्वीत शिवदृष्ट्या वलोकयेत् ।
उत्थाप्यासनतश्शिष्यं मुक्तिकामं विशेषतः ॥ १८० ॥

प्। ११४)

पादादारभ्य मूर्धान्तं दिव्यदृष्ट्या विलोकयेत् ।
मूर्धादि पादपर्यन्तं मुक्तिकाङ्क्षी निरीक्षयेत् ॥ १८१ ॥

शिवतैजसमाहात्म्यं चिन्तयन्नन्दिकेश्वर ।
नेत्राणां सम्प्रदानेन प्रसन्नो देशिकोत्तमः ॥ १८२ ॥

अस्त्रतो परिसम्प्रोक्ष्य मन्त्रस्नानं च सिद्धये ।
अन्तरायविनाशार्थं भस्मस्नानं विधीयते ॥ १८३ ॥

पाशौघच्छेदनं कुर्याद् ज्ञानखड्गेन देशिकः ।
मूर्धादि पादपर्यन्तं पार्श्वद्वयमथ स्पृशेत् ॥ १८४ ॥

पाशाङ्कुरविनाशार्थं भूत्या स्नानं विशेषतः ।
सृष्टिसंहारयुक्त्या तु स्नापयेदस्त्र भस्मना ॥ १८५ ॥

प्। ११५)

अस्त्राम्बुना पुनः प्रोक्ष्य सकलीकरणायतम् ।
ऊर्ध्वं नाभेः कुशाग्रेण शोधयेदस्त्रमुच्चरन् ॥ १८६ ॥

त्रिधा लाभे ततन्मूलैः पापनाशाय नाभ्यधः ।
पाशद्वैविध्यनाशाय लभेदस्त्रेण सद्गुरुः ॥ १८७ ॥

शिष्यदेहे शिवान्ताङ्गं शासनं च निवेदयेत् ।
पुष्पैः शिष्यं समाराध्य नेत्रं नेत्रेण वा हृदा ॥ १८८ ॥

दशासहितु वस्त्रेण शुक्लेनावेष्टयेन्मुखम् ।
शिष्याञ्जलिपुटे पुष्पं निक्षिप्य श्वेतवर्णकम् ॥ १८९ ॥

अरुणं भक्तिकामः स्यात्तथैवाञ्जलिके क्षिपेत् ।
वत्करद्वयमादाय देशिकाग्रे व्रजेत्क्रमात् ॥ १९० ॥

प्। ११६)

शिवस्य दक्षिणे भागे प्रदक्षिणममुं नयेत् ।
प्रणवासनके न्यस्त्वा वर्णाध्वानं निवेशयेत् ॥ १९१ ॥

शिष्यस्य हृदयाम्भोजे मूर्तिपादाब्जलक्षणम् ।
आत्मानं विन्यसेत्पश्चाच्छिष्यदेहं विशोधयेत् ॥ १९२ ॥

संहारमेवोच्चैरेवं ततः शुद्धचरित्रके ।
न्यासं कृत्वा शिवं ध्यात्वा पुनश्चैनं प्रपूजयेत् ॥ १९३ ॥

प्राचीनमुखशिष्यस्य शिवमन्त्रेण मस्तके ।
रुद्रे च पद त्वर्थं शिवहस्तं च दापयेत् ॥ १९४ ॥

मण्डले क्षेपयेत्पुष्पं पश्चादन्धमधित्यजेत् ।
तत्पादस्थानमालोक्य दद्याच्छिष्यस्य नाम च ॥ १९५ ॥

प्। ११७)

देवान्तं सर्वजातीनां नामधेय विधिर्भवेत् ।
ब्रह्मक्षत्रियजातीनां शिवान्तं नामधेयकम् ॥ १९६ ॥

गणान्तं वा भवे देवमन्येषां पितृवद्भवेत् ।
नैष्ठिकस्य विशेषेण जातिभेदं न चिन्तयेत् ॥ १९७ ॥

अकारश्च इकारश्च उकारश्च तथैव च ।
एकारश्च तथोकारः पञ्चस्वरमिदं भवेत् ॥ १९८ ॥

आयुरारोग्यलक्ष्मीं च क्षयं मरणमेव च ।
यथासङ्ख्यं भवेत्सिद्धिस्तस्मान्नैवविचारयेत् ॥ १९९ ॥

शिष्यपूर्वाभिधानस्य नामाद्यक्षरनिश्चयम् ।
ज्ञात्वायुरादित्रितये तेषामेकन्तु दापयेत् ॥ २०० ॥

प्। ११८)

क्षयमारणकारिण्यौ द्वौचापि परिवर्जयेत् ।
दद्यान्नाम च शिष्याणां स्वेच्छया वा गुरूत्तमः ॥ २०१ ॥

भक्तानां च गणानां च नामधेयमथापि वा ।
अङ्गना च विशेषेण शक्तिनाम च दापयेत् ॥ २०२ ॥

स्थण्डीलीकरणं कृत्य शक्तिरूपि च वर्धनीम् ।
वह्नीशञ्च गुरुञ्चैव प्रणतिं कारयेद्गुरुः ॥ २०३ ॥

उत्तराभिमुखं शिष्यं स्वस्य दक्षिण पार्श्वगम् ।
आसनोपरि संस्थाप्य शिष्यदक्षिणकर्णके ॥ २०४ ॥

मूलमन्त्रमुपादित्य वामकर्णे सदाशिवम् ।
महेशं विमुखं चैवं सर्वपापविनाशनम् ॥ २०५ ॥

प्। ११९)

सुषुम्ना मध्यमं मूलमिडायान्तु सदाशिवम् ।
पिङ्गलायां महेशं च शिष्यदेहे विभावयेत् ॥ २०६ ॥

तन्मूलं गुरुजङ्घायां निधाय विधिना ततः ।
शिष्यस्य हृदयं गत्वा मूलमन्त्रेण रेचयेत् ॥ २०७ ॥

पूरकेण समागत्य स्वकीयं हृदयाणुणा ।
पुनः शिवाग्निनापत्यन्नाडी सन्धानमुच्यते ॥ २०८ ॥

सान्निध्यार्थं हृदा हुत्वा त्रितये नन्दिकेश्वर ।
मूलेन च शतं हुत्वा शिवहस्तं स्थिरं भवेत् ॥ २०९ ॥

शिष्यपाणिद्वये पुष्पैः शुभैरापूर्यदेशिकः ।
उत्तरे पूजिते लिङ्गं विलोक्य कुसुमानि वै ॥ २१० ॥

प्। १२०)

निक्षिप्य पादमूले च दण्डवत्प्रणमेद्भुवि ।
शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ २११ ॥

विनीतं शिष्यमाचार्यः करुणादवलोकयेत् ।
मदीयाज्ञा प्रसादेन कर्तव्यं त्रितयं तु तत् ॥ २१२ ॥

दानधर्म तपश्चर्याः कुरुष्वेति वदेद्गुरुः ।
मठं वृक्षं च गोत्रं च गोचरं च तथैव च ॥ २१३ ॥

सन्तानं पञ्चकं चैवमेवं शिष्याय सद्गुरुः ।
मठमामर्दकं वृक्षं वटं गोत्रं तथैव च ॥ २१४ ॥

शुद्धं तत्वं समाख्यातं गोचरं शिष्यमुच्यते ।
सन्तानं नन्दिकेशाख्यं श्रावयेच्छिष्यकान्प्रति ॥ २१५ ॥

प्। १२१)

प्रोक्षयेत्कुम्भतोयादीन् तत्तन्मन्त्रेण देशिकः ।

इति चिन्त्य विश्वसादाख्ये क्रियासमयदीक्षाविधिर्नाम अष्टमः पटलः ॥