०६

अथ वक्ष्ये विशेषेण करणानां तु लक्षणम् ।
अरणेर्लक्षणं चापि सृक्सृवौ च * * * * ॥ १ ॥

समिधां लक्षणं चैव परिधीनामनन्तरम् ।
प्रोक्षणीपात्र चिह्नं च घृतपात्रस्य लक्षणम् ॥ २ ॥

चरुस्थाल्याश्च तच्चिह्नम् आहुतीनां प्रमाणकम् ।
स्नानोदञ्च तथाधारं पुष्पपात्रस्य लक्षणम् ॥ ३ ॥

पाद्यार्घ्याचम पात्राणां धूपपात्रस्य लक्षणम् ।
धूपघण्टा दीपपात्र लक्षणं दर्पणस्य तु ॥ ४ ॥

नीराजनस्य शङ्खस्य छत्रचामरयोरपि ।
चल प्रसादचिह्नं च वर्धनीशिवकुम्भयोः ॥ ५ ॥

प्। ४५)

सामान्य घटचिह्नं च कलशानां च लक्षणम् ।
पुण्डरीकाक्षचिह्नं च दण्डलक्षणमेव च ॥ ६ ॥

भक्तिकोशस्य चिह्नं च यज्ञसूत्रस्य लक्षणम् ।
पवित्र लक्षणम् तद्वदुष्णीषोत्तर्य लक्षणम् ॥ ७ ॥

रुद्राक्ष लक्षणं चापि जपमालादिलक्षणम् ।
कौपीनलक्षणं चैव लम्बकूर्चस्य लक्षणम् ॥ ८ ॥

लक्षणं जलभाण्डस्य महाघण्टासु लक्षणम् ।
स्थालिका लक्षणं चैव त्रिपादीलक्षणं तथा ॥ ९ ॥

दर्वीसु लक्षणं चैव दीपमालासुलक्षणम् ।
अष्टमङ्गलचिह्नमाभरणानां च लक्षणम् ॥ १० ॥

प्। ४६)

सुवर्ण पुष्पपट्टानां गोलकानां च लक्षणम् ।
लक्षणं योगपट्टस्य चासमानां च लक्षणम् ॥ ११ ॥

नारा च लक्षणं चैव सम्यक् पुस्तकलक्षणम् ।
मानाङ्गुलादिभेदं च तत्तद्भेदं शृणु क्रमात् ॥ १२ ॥

देशिकस्य करे दक्षे मध्याङ्गुल्यास्तु मध्यमम् ।
पर्वायामं तु यत्तुल्यं मात्राङ्गुलमिहोच्यते ॥ १३ ॥

समिद्दर्भे तु सङ्गृह्य पिप्पिलं वारुणं तु वा ।
षोडशाङ्गुलमायामं तत्तारं वसुमात्रकम् ॥ १४ ॥

तदर्धं तद्घनं प्रोक्तं स्थापयेद्धरणीतले ।
गुणवेदाङ्गुलायामं तन्नाहं भूतमात्रकम् ॥ १५ ॥

प्। ४७)

मथनं खदिरेणैव सर्वत्रैव सुवृत्तकम् ।
रञ्ज्वाङ्गुलसमायामं तस्यार्धं तस्य चापलम् ॥ १६ ॥

तदर्धं तद्घनं विद्यात् पार्श्वयोरुभयोरपि ।
मुष्टिरष्टाङ्गुलेनैव तन्नाहं चणमात्रकम् ॥ १७ ॥

मन्थनोपरि संस्थाप्य भ्राम्या गोपालरज्जुना ।
अरणीलक्षणं प्रोक्तं स्रुग्लक्षणमिदं शृणु ॥ १८ ॥

हैमेन राजते नैव ताम्रेण तरुणापि वा ।
खदिरेण करञ्जेन चतुर्भूरुहजेन वा ॥ १९ ॥

वैकङ्कतेन कर्तव्यं सर्वलक्षणसंयुतम् ।

सार्चिष्मन्मरुदङ्गुलैः परिणता सृक्तेन नेत्राङ्गुलं
कुम्भं सार्कमरुत्पथाङ्गुलि कृतो गर्भस्ततो गण्डिका ।
वेदांशास्त्वथ वैदिका द्विगुणिता कर्णोम्बरां शस्ततो
वक्त्रं स्यात्खुरि सम्मितं न दधरे तारस्त्रिभागैः कृतः ॥ २० ॥

तारादैर्घ्य समं मुखे युगकृतं कर्णे ततो वेदिका
तारेण द्विगुणाग्रमण्डितबिला घातान्तदर्धेन च ।
आद्या तत्र तु गण्डिका युगकृतं चार्धार्धहीने परे
दण्डस्यार्द्रसभागनाह सहिते कुम्भश्च निर्नाहकम् ॥ २१ ॥

परितो बल बाह्ये तु पङ्क्तिकार्धाङ्गुलेन तु ।
बाह्ये वयव निम्नं तु यवार्धं बाह्य पट्टिका ॥ २२ ॥

बिलादूर्ध्व मुखात्खात्वा कनिष्ठाङ्गुलमानतः ।
एवं स्रुग्लक्षणं प्रोक्तं स्रुवो लक्षणकं शृणु ॥ २३ ॥

द्वादशाङ्गुल मायामं कनिष्ठाङ्गुलिनाहकम् ।
स चर्मनिर्व्रणं स्निग्धं कृमिकोटर वर्जितम् ॥ २४ ॥

प्। ४९)

समिधां लक्षणं प्रोक्तं परिधीनामतः परम् ।
यैस्समिद्भिर्हुतं प्रोक्तं तैरेव परिधिर्भवेत् ॥ २५ ॥

हस्तमात्रसमायामं मध्यमाङ्गुलिनाहकम् ।
परिधीनां तथां प्रोक्तं प्रोक्षणीलक्षणं शृणु ॥ २६ ॥

आदित्याङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् ।
ओष्ठमेकाङ्गुलं प्रोक्तं पूर्णचन्द्रवदाकृतिः ॥ २७ ॥

प्रोक्षणी पात्रसदृशं धृतपात्रस्य लक्षणम् ।
चरुस्थालीसमाङ्गुल्यमोष्ठमेकाङ्गुलं भवेत् ॥ २८ ॥

कर्णं तु द्व्यङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।
चरुस्थाल्यास्तु चिह्नं स्यान्मृदा ताम्रेण वा भवेत् ॥ २९ ॥

होमद्रव्यं सभागं तु शृणुत्वं नन्दिकेश्वर ! ।
शताहुत्या घृतं प्रस्थं क्षौद्रेण द्विगुणं भवेत् ॥ ३० ॥

प्। ५०)

ऐक्षुरस होमे तु त्रिगुणं मक्षिवद्भवेत् ।
तिलसर्षपमुद्गांश्च यवमाष कुलुत्थकाः ॥ ३१ ॥

सक्थवो ब्रीहयश्चापि युष्ट्यर्धं तु तदर्धकम् ।
क्रमादुत्तममध्यस्था अधमं च भवेत्ततः ॥ ३२ ॥

आन्नमूलमपूपं च शमी बिल्वस्सदूर्वया ।
नेत्र वृक्षपलाशं वा मनुद्वययुतं तु वा ॥ ३३ ॥

त्रिगुणं चोत्तमं विद्यान् मध्यमं कन्यसं तथा ।
अधम मेवेति प्रोक्तं स्नान जलं तथा ॥ ३४ ॥

कलुषं हृदि संसुस्थं स्नानदोषसुसंयुतम् ।
पल्वलो दं च शैलोदं मार्गस्थमशुचि स्थितम् ॥ ३५ ॥

प्। ५१)

द्विवर्णं क्षीरसंयुक्तं वर्जयित्वा विशेषतः ।
नद्यां वापि तटाके वा प्लवे खाते ह्रदेऽपि वा ॥ ३६ ॥

निर्झराणां च कूपस्य सुस्वादु सलिलं भवेत् ।
अष्टद्रोणैरथाद्भिस्तु स्नानमुत्तममुच्यते ॥ ३७ ॥

तदर्धं मध्यमं प्रोक्तं तस्यार्धं तु कनीयसम् ।
स्नानतोयमिदं प्रोक्तं तद्भाजनमथो शृणु ॥ ३८ ॥

सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं तु वा ।
सङ्गृह्य लक्षणोपेतं कृतं तु चतुरश्रकम् ॥ ३९ ॥

सभक्त युतद्रोणेन वसुयुक्तेन पूरितम् ।
स्नानपात्रमिदं प्रोक्तं पुष्पपात्रविधिः परम् ॥ ४० ॥

प्। ५२)

हस्तमात्र प्रविस्तारमुत्सेधं द्वादशाङ्गुलम् ।
वेत्रेणैव तु कर्तव्यं स्वर्णाद्यैरुत्तमं भवेत् ॥ ४१ ॥

पाद्यार्घ्यादि सुपात्राणां लक्षणं शृणु साम्प्रतम् ।
पञ्चाङ्गुलं तदुच्छ्रायं विस्तारं च तथैव च ॥ ४२ ॥

ओष्ठमेकाङ्गुलं प्रोक्तं घनमर्धार्धकं भवेत् ।
पाद्यार्घ्या चमनानां च पात्रं हैमादिरुच्यते ॥ ४३ ॥

शङ्खं तार समं प्रोक्तं गन्धपात्रं शशिप्रभम् ।
धूपपात्रादिपात्रं स्याच्चापातित तन्मुखम् ॥ ४४ ॥

पिधानं मुकुलाकारमनेकसुषिरान्वितम् ।
धूपपात्रमिदं प्रोक्तं धूपघण्टा ततः परम् ॥ ४५ ॥

प्। ५३)

चतुरङ्गुल मुच्छ्रायं विस्तारं द्विगुणं भवेत् ।
घण्टार्धं शिखरं प्रोक्तं गलमर्धाङ्गुलान्वितम् ॥ ४६ ॥

जिह्वायामाङ्गुलाङ्गुल्यं मूर्ध्निनालं तथैव च ।
तस्योर्ध्वमङ्गुलं पीठं तदूर्ध्वं वृषशूलभाक् ॥ ४७ ॥

धूपघण्टाविधिः प्रोक्तो महाघण्टा तु वृद्धितः ।
नवाधिका भवेदेव दीपाधारमनन्तरम् ॥ ४८ ॥

द्वादशाङ्गुलमारभ्य निवृत्त्याङ्गुलमध्यमम् ।
पञ्चवेदाङ्गुलान्तं तु नवमानमुदीरयेत् ॥ ४९ ॥

पादतारं त्रिभागैकं वक्त्रतारं तथैव च ।
तन्मध्ये मुकुलं कुर्यान्नाना दण्डिकयान्वितः ॥ ५० ॥

प्। ५४)

शेषं युक्त्या प्रकर्तव्यं हैमेन रजतेन वा ।
ताम्रेण पैत्तलेनाऽथ चायसेनापि वा भवेत् ॥ ५१ ॥

दीपाधारमिति प्रोक्तं हविः पात्रमतः शृणु ।
यावत्तण्डुल सम्पत्तिस्तावत्त्रिगुणमुच्यते ॥ ५२ ॥

चरुस्थाल्या यथा रूपं हविः पात्रं विधीयते ।
तदर्धमुपदंशाय पात्रमित्यभिधीयते ॥ ५३ ॥

ताम्रेण पार्थिवेनापि त्रिलोहैर्वाथ सम्भवैः ।
अस्य तारं समं तारं विधानवलयान्वितम् ॥ ५४ ॥

हविः पात्रं समाख्यातं स्थलिकालक्षणं तथा ।
स्मृत्यङ्गुलं तु विस्तारं विस्तारार्धेन वर्धयेत् ॥ ५५ ॥

प्। ५५)

ओष्ठमेकाङ्गुलं प्रोक्तं स्वर्णतारादिभिर्भवेत् ।
तदर्धं मध्यमं ज्ञेयं तदर्धं कन्यसम्भवेत् ॥ ५६ ॥

स्थलिका लक्षणं प्रोक्तं त्रिपादीलक्षणं ततः ।
विद्यात्त्रीण्यङ्गुलोत्सेधं तस्यार्धं द्वक्त्रनाहकम् ॥ ५७ ॥

अङ्घ्रीनाहं युगाङ्गुल्यं त्यङ्गुलमेव वा ।
शरावाकृति मूले तु परमत्य विधीयते ॥ ५८ ॥

मध्यमं वसुमात्रं तु स्वरमात्रं तु कन्यसम् ।
जाम्बूनदमयं वाथ तारं वा ताम्रमेव वा ॥ ५९ ॥

पैत्तलं चारकूटं वा कृत्वाद्यैव त्रिपादिकम् ।
भास्कराङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् ॥ ६० ॥

प्। ५६)

तेषु मध्याङ्गुलं प्रोक्तं शुद्धकांस्येन कारयेत् ।
बलिपात्रं समाख्यातं दर्वी लक्षणमुच्यते ॥ ६१ ॥

देवदेवाङ्गुलायामं विस्तारं तुङ्गुलम् ।
तदर्धं पादविस्तारं तस्यार्धं मध्यवाहलम् ॥ ६२ ॥

शुद्धकांस्येन कर्तव्यं भुजङ्गस्य फणोपमम् ।
दर्वीलक्षणमेवं स्यादुस्णीषस्य विधिं शृणु ॥ ६३ ॥

उत्तमं वसुहस्तं स्यात्सप्तहस्तं तु मध्यमम् ।
षड्ढस्तमधमं प्रोक्तं भूतभागैरपि स्मृतम् ॥ ६४ ॥

सुसितं सूक्ष्मबलवच्चन्द्रस्य सदृशं भवेत् ।
दुकूलपट्टदेवाङ्गैः कार्पासेनैव वा कुरु ॥ ६५ ॥

प्। ५७)

उष्णीषलक्षणं ह्येबमुत्तरीयस्य लक्षणम् ।
षट्करायामसंयुक्तं कारयेन्नन्दिकेश्वर ॥ ६६ ॥

व्याघ्राजिनं प्रथमं स्याद्द्वितीयं कृष्णाजिनं भवेत् ।
तृतीयं तन्तुना कुर्यात् त्रिविधं योगपट्टिका ॥ ६७ ॥

आदित्याङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् ।
अधस्तादवकं कुर्यान् मुष्टि कुर्यात्तु पञ्चके ॥ ६८ ॥

कूर्मासनमिदं प्रोक्तं जपमालाविधिस्तदा ।
ईशाक्षहेमरूप्यैश्च सम्यङ्मुक्तिमवाप्नुयात् ॥ ६९ ॥

प्रवालैर्धनसम्पत्ति पद्माक्षैर्दुरितक्षयम् ।
कुशग्रन्थिमयैः पाप नाशाय च भवेत्पुनः ॥ ७० ॥

प्। ५८)

पुत्रदीपैश्च पुत्रःस्याच्छङ्खैश्चैव यशो भवेत् ।
मौक्तिकैः श्रियमाप्नोति सौभाग्यं स्फटिकैर्भवेत् ॥ ७१ ॥

सर्वैश्च मुक्तिमाप्नोति रुद्राक्षैरुत्तमोत्तमम् ।
आनीयनयनानन्द जलाद्रुद्राक्ष सम्भवः ॥ ७२ ॥

एकवक्त्रं शिवस्साक्षाद् द्विवक्त्रं शक्तिरुच्यते ।
त्रिवक्त्रं तु त्रिमूर्तिः स्याच्चतुर्वक्त्रमजो भवेत् ॥ ७३ ॥

वरदाख्यं पञ्चवक्त्रं तत् षड्वक्त्रं गुहरूपकम् ।
मातरस्सप्तवक्त्रं तु विद्येशाश्चाष्टवक्त्रकम् ॥ ७४ ॥

गङ्गादि नवतीर्थं स्यान् नववक्त्रं प्रकीर्तितम् ।
नववक्त्रैक वक्त्रान्तं फलं शतगुणोत्तरम् ॥ ७५ ॥

प्। ५९)

अङ्गुली जपविख्यातैश्चैकाङ्गुलि समं भवेत् ।
रेखयाष्टगुणं विद्यात् पुत्रदीपैःशतं भवेत् ॥ ७६ ॥

शङ्खजैर्मणिभिश्चैव प्रवालैश्च सहस्रकम् ।
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७७ ॥

पद्माक्षैर्दशलक्षं तु सौवर्णैर्भूतिरुच्यते ।
कुशग्रन्थ्याश्च रुद्राक्षैरनन्तगुणितं भवेत् ॥ ७८ ॥

पञ्चाधिकेन विंशत्या मोक्षसिद्धिमवाप्नुयात् ।
अष्टाविंशज्जपाच्चैव सिद्धिश्च धनधान्यदा ॥ ७९ ॥

पक्षसङ्ख्यापि तन्त्रं स्याद्धेशं मरणं भवेत् ।
धनप्रदं कीर्तिकरं त्रिंशतिर्जयवर्धनम् ॥ ८० ॥

प्। ६०)

भक्त्या तु सर्वं सञ्ज्यप्य मक्षयं फलदं भवेत् ।
जपमालाविधिश्चैवं जपस्थानस्य लक्षणम् ॥ ८१ ॥

शुद्धे मनोरमे देशे स्वगृहे वा भवेत् पुनः ।
गवां गोष्ठे शतगुणं नद्यां शतसहस्रकम् ॥ ८२ ॥

ईशस्य सन्निधाने तु अनन्तं जपमुच्यते ।
समुद्रतीरे देव्यग्रे गिरौ देवालयेषु च ॥ ८३ ॥

पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ।
ज्येष्ठाङ्गुलं मोक्षदं स्यात्तर्जन्या शत्रुनाशनम् ॥ ८४ ॥

मध्यमाद्भोगमोक्ष च श्रीकरं वै त्वनामिका ।
कनिष्ठाकर्षणं स्तम्भ मङ्गुल्यादिजपक्रमः ॥ ८५ ॥

शिवकुम्भविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ।
विंशत्यङ्गुलविस्तारं जठरं समुदाहृतम् ॥ ८६ ॥

विद्रुतस्त्रिगुणं तेन नाहमित्यभिधीयते ।
कण्ठेऽप्यर्धाङ्गुलोत्सेधं विस्तारं कौशिकाङ्गुलम् ॥ ८७ ॥

ओष्ठमेकाङ्गुलं प्रोक्तं निर्गमं च त्रयाङ्गुलम् ।
शिवकुम्भमिति प्रोक्तमेव मन्यांश्च कुम्भकान् ॥ ८८ ॥

तदर्धं वर्धनीनां तु कलशानां तदर्धकम् ।
कुण्डिका कलशस्याङ्गं शेषं युक्त्या तु कारयेत् ॥ ८९ ॥

घटास्तालादि सम्प्रोक्तं लम्बकूर्चं ततः शृणु ।
षड्विंशद्दर्भ संयुक्तं षड्विंशाङ्गुलमानयुक् ॥ ९० ॥

प्। ६२)

लम्बकूर्चमिति प्रोक्तं पवित्रस्य तु लक्षणम् ।
रव्यङ्गुलसमोपेतं सद्दभीयुगलेन च ॥ ९१ ॥

सग्रन्थिकं च तत्कुर्यादुमाया तन्नियोजयेत् ।
दर्पणस्यापि चिह्नं तु द्वादशाङ्गुलविस्तृतिः ॥ ९२ ॥

तदर्धं पाददैर्घ्यं तु शुद्धकांस्येन कल्पयेत् ।
एवं तु दर्पणं प्रोक्तं दीपमालाविधिं शृणु ॥ ९३ ॥

आयसेनैव कर्तव्यमथवा पादपेन वा ।
द्वारे च द्वारवत्कुर्यात् प्रभाकारं च पृष्ठके ॥ ९४ ॥

दीपमालाविधिं हैममष्टाङ्गुलमिहोच्यते ।
याज्ञिकीवृक्षमादाय कारयेल्लक्षणान्वितम् ॥ ९५ ॥

प्। ६३)

श्रीदेवी पार्श्वयोर्युग्मे दर्पणं पूर्णकुम्भकम् ।
वृषं च मकरं चैव स्वस्तिकं मत्स्ययुग्मकम् ॥ ९६ ॥

तालवृन्त समायुक्तं मङ्गलं प्रोच्यते शृणु ।

चिह्नं चैव शृणु लक्षणान्वितं
भूतकरादय तत्र मयार्धम् ।
शूलकाराय ततगुणयुक्त पिप्पलहस्तवटं च
खदिरं तोरण विस्तारमुच्छ्राय मुक्तम् ॥ ९७ ॥

प्रमाणं तोरणस्योक्तं स्वर्ण पुष्पविधिं शृणु ।
कन्यसं चैकमात्रं तु मध्यं मध्याङ्गुलं भवेत् ॥ ९८ ॥

उत्तमं गुणमात्रं तु विस्तारार्धेन वर्धयेत् ।
नलिन्याकारवत्पुष्पं कर्णिकारवदाकृतिः ॥ ९९ ॥

तन्मध्ये पत्रसंयुक्तं केवलं वापि कारयेत् ।
सुवर्ण पुष्पमेवं स्याद्धेमपट्टविधिं शृणु ॥ १०० ॥

प्। ६४)

लिङ्गनाहसमं दीर्घं चतुर्भागैक विस्तृतम् ।
पट्टलक्षणमत्रोक्तं गोलका लक्षणं शृणु ॥ १०१ ॥

लिङ्गोदयसवं तुङ्गम् अङ्गुलद्वयमालिकम् ।
तन्नाहसदृशं नाहम् अधिकं सोममात्रकम् ॥ १०२ ॥

शुद्धहेम्ना तु कर्तव्यं रजतेनापि कारयेत् ।
दण्डलक्षणकं वक्ष्ये कल्माषेण समन्वितम् ॥ १०३ ॥

मञ्जु स्निग्धमवक्रं च निर्व्रणं सुषिरं भवेत् ।
कल्माषेण विहीनं वा तस्य लक्षणमुच्यते ॥ १०४ ॥

दण्डे षडङ्गुलाधिक्ये ग्रन्थिकर्माभिधीयते ।
उभयोग्रन्थितोर्मध्यं पर्व इत्यभिधीयते ॥ १०५ ॥

प्। ६५)

एकपर्वा तु या यष्टिः पजृकाद्या सुखावहा ।
द्विपर्वा राक्षसी ज्ञेया मांसशोणितभोजिनी ॥ १०६ ॥

त्रिपर्वा पद्मिनी नाम पद्मिनीव सुखप्रदा ।
कामिनी रसपर्वा तु सर्वसिद्धिविवर्धिनी ॥ १०७ ॥

मुनिपर्वा विपन्नार्थं नाशकारणदा भवेत् ।
मूर्तिपर्वा शिवानाम अत ऊर्ध्वं न कारयेत् ॥ १०८ ॥

पादाङ्गुलमधोभागे पुत्रनाशाय कल्प्यते ।
तत्तत्सिध्यङ्गुलेनैव त्रिभिरस्तु न सिद्धिदम् ॥ १०९ ॥

वेदाङ्गुलेन संसिद्धिः पञ्चमं मृत्युदं भवेत् ।
रसाङ्गुलं धान्य सिद्धिः तन्नाशं सप्तमं भवेत् ॥ ११० ॥

प्। ६६)

अष्टाङ्गुलमिदं प्रोक्तं तत ऊर्ध्वं न कारयेत् ।
मूलात्तु द्विगुणं पुच्छमेवं दण्डस्य लक्षणम् ॥ १११ ॥

मूर्धान्तं देशिकस्योक्तं नादान्तं साधकस्य तु ।
भ्रुवोऽन्तरं तु पुत्रस्य नासान्तं समयिनां सदा ॥ ११२ ॥

नैष्ठिकानां गृहस्थानां हस्तं व्योमेन कारयेत् ।
सर्वदा धारणीयं तु वैणवं दण्डमुत्तमम् ॥ ११३ ॥

भस्माधारपटैर्वापि कार्पासैस्तारवैरपि ।
दुकूलपट्टसङ्कल्पं प्रस्थभस्म समन्वितम् ॥ ११४ ॥

तदर्धार्धयुतं वापि कर्तव्यं नन्दिकेश्वर ! ।
वृत्तमूलं दृढं श्लक्ष्णं सुसूत्रं दण्डसंस्थितम् ॥ ११५ ॥

प्। ६७)

अथवा वेणुमध्यस्थं कक्षालम्बित विग्रहे ।
अन्तरीये पटे वापि धारयेत्स शिवस्सदा ॥ ११६ ॥

तक्ष्या तु कारयेन्नित्यं सर्वपाप प्रणुत्तये ।
कौपीन लक्षणं वापि हस्तं वा विद्धि हस्तकम् ॥ ११७ ॥

आयाममेवं विस्तारं दशाङ्गुलमथाष्टकम् ।
कौपीनमेवमुक्तं तु कार्पासाद्यादिना भवेत् ॥ ११८ ॥

पञ्चाशत्सूत्रसंयुक्तं मेखलं त्र्यंश लम्बितम् ।
पुस्तकस्य विधिं वक्ष्ये नन्दीश शृणु तं पुनः ॥ ११९ ॥

मानाङ्गुलमथारभ्य अङ्गुलाङ्गुलवर्धनात् ।
वेदभूताङ्गुलान्तं तु नवमानमुदीरयेत् ॥ १२० ॥

प्। ६८)

स्वप्रमाणेन कर्तव्यं जालपत्रादिना भवेत् ।
ताम्रेण वाथ कर्तव्यं सुषिरद्वय संयुतम् ॥ १२१ ॥

पात्रमानं चतुष्कृत्वा तत्पुनस्त्रिविधं भवेत् ।
चतुस्त्रिभागयोर्मध्यं मध्यं च सुषिरं भवेत् ॥ १२२ ॥

आयामं पञ्चधा कृत्वा तन्मध्ये सुषिरं भवेत् ।
त्रिभागैकेन भागेन कर्तव्यं युक्तिपूर्वकम् ॥ १२३ ॥

यवोदरप्रमाणेन रज्जुं कुर्यात्तु भक्तितः ।
पत्रवद्दारुयुगलं वर्णविस्तारशोभितम् ॥ १२४ ॥

एवं पुस्तकचिह्नं स्यान्नाराचस्य तु लक्षणम् ।
षोडशाङ्गुलविस्तारं पीलिकाकृतमध्यगम् ॥ १२५ ॥

प्। ६९)

एवं हि प्रीति नालस्य लक्षणं चोभयं भवेत् ।
तीक्ष्णेनैव च कर्तव्यं सुदृढं दोषवर्जितम् ॥ १२६ ॥

सङ्खेल्ययोऽस्तु नारा चं समतार समन्वितम् ।
चलप्रासादकं वक्ष्ये प्रासादकरणं ततः ॥ १२७ ॥

प्रासादकथनं चाप्तं हैमं वा रौप्यकन्तु वा ।
ताम्रेण दारवेणापि शरावेणापि वा भवेत् ॥ १२८ ॥

नेत्रेणैवापि सूत्रेण क्रमादेवं तु कारयेत् ।
घृतवारे बहिश्चैव मानाङ्गुलविजृम्भणात् ॥ १२९ ॥

समन्ताद्वृत्तसंयुक्तं चतुरश्रमथापि वा ।
लिङ्गपीठात्ततोच्छ्रायं द्विगुणं गर्भगेहतः ॥ १३० ॥

प्। ७०)

सुदृढं भित्तिकं कुर्यात्सर्वशोभा समन्वितम् ।
आयामोत्सेधकं वापि वर्धयेदङ्गुलेन वै ॥ १३१ ॥

लिङ्गपीठसमं तत्तु कारयेल्लक्षणान्वितम् ।
अत ऊर्ध्वं न कर्तव्यमुपानाद्यं ततः शृणु ॥ १३२ ॥

तदुच्चमष्टधा कृत्वा वैकांशेन धरातलम् ।
धरातलमधिष्ठानं वसुधारमसूरकम् ॥ १३२ ॥

एतानि वेद नामानि पर्याय वचनानि च ।
पादार्धवन्न सूत्रस्य द्विगुणं चेति कीर्तितम् ॥ १३४ ॥

प्रस्तारं चरणार्धं तु तत्समं गलमुच्यते ।
शिखरं चरणायामं तस्योत्सेधं तदर्धकम् ॥ १३५ ॥

प्। ७१)

यदाधिष्ठानमानं तु द्वादशाङ्गेन वापयेत् ।
जन्ममेकेन कर्तव्यं द्वाभ्यां वै जगती भवेत् ॥ १३६ ॥

तथैव कुमुदोत्सेधं कम्पमेकं न कारयेत् ।
पक्षांशं गलमित्युक्तम् ऊर्ध्वपत्रमथांशकम् ॥ १३७ ॥

महापट्टी द्विभागेन वेत्रवंशेन कारयेत् ।
अधिष्ठानं समाख्यातं पादगर्भमतः परम् ॥ १३८ ॥

पादायामं चतुर्भागं वेदीमेकेन कारयेत् ।
एकात्रिपदिभिर्वापि भूतपङ्क्तिरथापि वा ॥ १३९ ॥

केवलस्तम्भमात्रं तु ताटिकादि विहीनकम् ।
वस्वश्रं वा षडश्रं वा समानाकृतिरुच्यते ॥ १४० ॥

प्। ७२)

ऊर्ध्वद्वारं प्रकर्तव्यमुत्तरान्तं प्रशस्यते ।
प्रोक्षयेत्पञ्चगव्येन हृदयान्यस्य च क्रमात् ॥ १४१ ॥

चल प्रासादमेवं तु छत्रलक्षणकं भवेत् ।
तालमानस्य हस्तस्य द्विविधं छत्रमुच्यते ॥ १४२ ॥

पूर्णचन्द्र समाकारं मुकुलेन समन्वितम् ।
सनालदण्ड संयुक्तं मुक्तादामविराजितम् ॥ १४३ ॥

अग्रं विचित्रवर्णाढ्यं श्वेतच्छत्रमिदं परम् ।
चामरं मणिषण्डेन भूषितं सितवालजम् ॥ १४४ ॥

हस्तदीर्घं च तन्नालं तालद्वय समन्वितम् ।
आलाम्ये तु तदर्धं वा तदर्धं वा तु कारयेत् ॥ १४५ ॥

प्। ७३)

अनुक्तं मूलभेदाद्यैर्गृह्यैस्सर्वत्र सर्वदा ॥ १४५ १।२ ॥

इत्यचिन्त्य विश्वसादाख्ये करणाधिकारः षष्ठः पटलः ॥