०५

प्। १९)

मन्त्रोद्धारादिकं गुह्यं वक्ष्येहं रत्नगर्भकम् ।
तत्वार्थमननाद्यादि जगत्त्राणास्त्रमुच्यते ॥ १ ॥

सादाख्य विश्वेमन्त्रार्थः शिवचित्तसमाधिकः ।
वाच्य वाचकता हीनं मनोवाक्काय गोचरम् ॥ २ ॥

अप्रमेयमसादृश्यमप्रपञ्च मलक्षणम् ।
निष्कलं परमं तत्वमनन्तमचलं ध्रुवम् ॥ ३ ॥

अरूपमविकारं च मनोमयमनामयम् ।
अनाधारं स्वसंवेद्यमधिष्ठानं परात्परम् ॥ ४ ॥

अचिन्त्यमव्ययं सूक्ष्मं हेतुदृष्टान्तवर्जितम् ।
शिवतत्वमिदं प्रोक्तं तत्वानां (स्थित्यमपत्ति) ॥ ५ ॥

प्। २०)

स्थित्युत्पत्ति निमित्ताया सा तनुर्द्विविधा भवेत् ।
मध्यमैकं समस्तैकमित्येवं द्विविधं मतम् ॥ ७ ॥

सौवीर्यान्नास्ति तत्कार्ये मांसास्थि रुधिराणि च ।
इन्द्रायुध समाकारं परांशक्त्यैकमूर्तिमात् ॥ ८ ॥

यत्नसम्मोदये मध्ये वासिनं शक्तिसंयुतम् ।
स्वाङ्गुष्ठब्रह्मणा तुल्यं तदूर्ध्वं शिवरक्षकम् ॥ ९ ॥

तद्रूपं च सदा भाव्यं यदा चार्यस्वरूपिणम् ।
सिद्ध्यर्थं साधकानां तु सूक्ष्मरूपमिदं परम् ॥ १० ॥

प्। २१)

त्रिणेत्रं चतुर्भुजं रौद्रं नीलोत्पलदलप्रभम् ।
ऊर्ध्वकेशं च पिङ्गाक्षं विश्वरक्षाकरं परम् ॥ ११ ॥

वस्त्रं नवरसोपेतम् ईषद्दंष्ट्रा समायुतम् ।
गुरुरूपमिदं ज्ञेयं शैवानां शिवरूपकम् ॥ १२ ॥

सिध्यर्थं साधकानां तु सूक्ष्मरूपमिदं परम् ।
गुरुदेहमिदं प्रोक्तं सृष्टिदेहमिहोच्यते ॥ १३ ॥

चतुर्वर्णयुतं देवं जटामकुटमण्डितम् ।
तनुरेका चतुर्वक्त्रं नेत्रैर्द्वादशिर्युतम् ॥ १४ ॥

चतुरास्यं चतुर्नासि चतुःश्रोत्रं चतुर्दलम् ।
भुजाष्टक समोपेतं वरणाष्टकसंयुतम् ॥ १५ ॥

प्। २२)

रक्तं कृष्णं तथा श्वेतं श्यामं पूर्वादिवर्णकम् ।
टङ्कशूलयुतं पूर्वं खड्गं नागं तु दक्षिणे ॥ १६ ॥

पाशाङ्कुशयुतं सौम्यं पश्चिमं वरदाभयम् ।
दिगम्बरं समं देवं चतुर्वक्त्रसमायुतम् ॥ १७ ॥

सर्वाभरणसंयुक्तं दिव्यमालाविभूषितम् ।
दिव्यगन्धानुलिप्ताङ्गमासनं सर्वतो मुखम् ॥ १८ ॥

सन्मार्गं शैवमित्युक्तं शिवमुखं भवेत् ।
सन्ध्याख्यं दक्षिणं प्रोक्तं पिनाकं पश्चिमं भवेत् ॥ १९ ॥

उत्तरं वैष्णवं प्रोक्तम् इच्छाज्ञानक्रियादिभिः ।
इच्छाज्ञानक्रियाशक्ति सन्मेसादाख्य सम्भवेत् ॥ २० ॥

प्। २३)

एकैकं पञ्चधा ज्ञेयम् इशानादीनि पूर्वके ।

पञ्चवक्त्रयुतं प्रोक्तम् इच्छाज्ञान क्रियादिभिः ।
इच्छाज्ञानक्रिया शक्तिः समे सादाख्य सम्भवेत् ॥ २२ ॥

एकैकं पञ्चधा ज्ञेयमीशानादीनि पूर्वके ।

पञ्चवक्त्रयुतं प्रोक्तमिच्छाज्ञानक्रियादिभिः ।
इच्छाज्ञानक्रियाशक्तिः समे सादाख्य सम्भवम् ॥ २४ ॥

सर्वाभरण संयुक्तं सर्वमालासमन्वितम् ॥ २५ ॥

प्। २४)

शूलं खट्वां तथा वज्रं खड्गं चाभय दक्षिणे ।
पाशाङ्कुशं च नागं च खट्वां वरदं वामके ॥ २६ ॥

दिव्याम्बरधरं देवं दीर्घबाहुं नखोज्वलम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषितम् ॥ २७ ॥

मध्यमं तत्वसिद्धान्तं सन्मार्गैकप्रदायकम् ।
अर्घ्यमन्त्रं प्रवक्ष्यामि विविधेन द्विजोत्तम ! ॥ २८ ॥

नादं नादादिमं नादं शान्तामकुटसंयुतम् ।
भयमध्या पर हयमध्याक्षरान्वितम् ॥ २९ ॥

वारुणं वह्निसंयुक्तं मरुत् षष्ठस्वरान्वितम् ।
नवात्मकमिदं मन्त्रं सर्वभूतेष्ववस्थितम् ॥ ३० ॥

प्। २५)

हसक्ष्मालच्युसन्तमौ कारणसायु समन्वितम् ।
आदौ प्रणव सम्पन्नं बिन्दुनादविभूषितम् ॥ ३१ ॥

व्यक्ताव्यक्तमयं मन्त्रं सादाख्यं मन्त्रकायकम् ।
अर्चने जपकाले तु शिवाय सह योजयेत् ॥ ३२ ॥

कृष्णास्यं चोर्ध्वकेशं च शेषं पूर्ववदाचरेत् ॥ ३३ ॥

मनोन्मन्याकृतिं वक्ष्ये चतुर्बाहु समन्विताम् ।
त्रिणेत्रारुण सङ्काशां धिक्ष्यं * * * * * * ॥ ३४ ॥

सर्वाभरणसंयुक्ता कौलकञ्चुक भूषिता ।
पद्मोत्पलधरा देवी वरदाभयपाणिनी ॥ ३५ ॥

प्। २६)

सदाशिवस्य वामाङ्गे ध्यातव्या साधकोत्तमैः ।
पूर्ववत् * * * * * * या नलसमन्वितम् ॥ ३६ ॥

बिन्दुनाद समायुक्तं विरक्तेर्मन्त्रमुत्तमम् ।
शिवमुद्दिश्यरागादि वर्जनं तु विरागिता ॥ ३७ ॥

तस्मात्सदा नमस्कार्या तत्वज्ञानसमन्वितः ।

नादबिन्दुसमाक्रान्तं विष्णुबीजं परम् विदुः ।
शिवानन्द स्वरूपत्वाद विष्णुर्वन्द्यः सदा बुधैः ॥ ३९ ॥

विष्णुना भिन्नरूपातो विष्णोश्शक्तिरखण्डता ।
सृष्टिस्थित्यन्तमोक्षाय वेदागम विवृद्धये ॥ ४० ॥

प्। २७)

सर्वशास्त्रावताराय भक्त्युत्पत्तिकराय च ।
प्राणिनामुपकाराय सादाख्यं तथ्यमुत्तमम् ॥ ४१ ॥

एकवक्त्रोऽनेकवक्त्रो द्विभुजोऽनेकबाहुकः ।
नानारूपधरो देवो नानावर्ण समन्वितः ॥ ४२ ॥

नानाशास्त्रार्थ सम्पन्नो नानालीलापरो हरः ।
न यानन्तं समासीनं नृत्तको पञ्चसौम्यकम् ॥ ४३ ॥

अनेकाकार संयुक्तो देवदेवोऽहिभूषणः ।
जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः ॥ ४४ ॥

वृषध्वजो वृषारूढो भवानी सहितो विभुः ।
सूर्याचन्द्रमसौ नेत्रे वह्निनेत्रं तु पावकम् ॥ ४५ ॥

प्। २८)

क्षिदृग्भूतो महादेवी काञ्चन स्त्रिदशेश्वरः ।
नादं कालसमोपेतं वह्निमारुतसंयुतम् ॥ ४६ ॥

षष्ठस्वरसमायुक्तं बिन्दुनादसमन्वितम् ।
एकं महेशमन्त्रं तु सर्वसिद्धिकरं परम् ॥ ४७ ॥

महेश्वरस्य वामाङ्क विद्यां गौरीं शृणु द्विज ! ।
भवानी श्यामवर्णाभाप्येक वक्त्रा द्विबाहुका ॥ ४८ ॥

पीनस्तना सुवदना पीनोरुजघना परा ।
सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता ॥ ४९ ॥

तनुमध्या निम्ननाभि बिम्बोष्ठी चारुलोचना ।
पञ्चब्रह्म षडङ्गानि शृणु नन्दिरतन्द्रितः ॥ ५० ॥

प्। २९)

सान्तं तु प्रथमं सद्यस्तृतीयं वामदेवकम् ।
अघोरं पञ्चमं बीजं पुरुषं रुद्रसङ्ख्यकम् ॥ ५१ ॥

त्रयोदशं भवेदीशं पञ्चब्रह्ममिहोच्यते ।
सब्रह्मसंहितः शास्त्रैः संहिता मन्त्रकं भवेत् ॥ ५२ ॥

बिन्दुनादयुतास्सर्वे स्वस्वनाम चतुर्थकाः ।
नमस्कारान्त मात्रास्ते तत्तद्ध्यानमतः परम् ॥ ५३ ॥

श्वेतं हैमं तथा नालं लम्बमं स्फटिक प्रभम् ।
सद्यादीनां च वर्णानां त्रिणेत्राश्च चतुर्भुजाः ॥ ५४ ॥

शूलटङ्कधराश्चैवमभयं वरदान्विताः ।
अघोरं रौद्रमित्युक्तं शेषाः सौम्या इति स्मृताः ॥ ५५ ॥

प्। ३०)

द्वितीयं हृदयं विद्याच्चतुर्थन्तु शिरो भवेत् ।
शिखा षष्ठाक्षरं विद्या द्वादशं कवचं भवेत् ॥ ५६ ॥

नेत्रं चतुर्दशं चैवमस्त्रं षोडशमुच्यते ।
सविसर्गो भवेदस्त्रं सानुस्वारो हृदादयः ॥ ५७ ॥

नमः स्वाहा वषड्वौषड् हुम्फडन्ताश्च जातयः ।
हृदाद्यस्त्रान्तकैर्युक्ता मन्त्रास्युस्ते प्रकीर्तिताः ॥ ५८ ॥

श्वेतं पीतं तथा रक्तं कृष्णं चाञ्जनसन्निभम् ।
षडङ्गानां च वर्णाःस्युः त्रिणेत्राश्च चतुर्भुजाः ॥ ५९ ॥

अभयं वरदोपेताः टङ्कशूलसमन्विताः ।
रक्तं शूलं तथा श्वेतं हेम कृष्णं च कुङ्कुमम् ॥ ६० ॥

प्। ३१)

अरुणं चाञ्जन प्रख्यं क्रमाद्विध्येशवर्णकम् ।
क्षेत्रेशं चैव यक्षेशान् द्वारेशान्परिवर्जयेत् ॥ ६१ ॥

अन्यांश्च सर्वदेवानामासनावरण स्थितान् ।
आदौ प्रणवसंस्थानं हृदये तदनन्तरम् ॥ ६२ ॥

स्वनामाद्यक्षरैर्बीजं नमस्कारं तथान्तिकम् ।
स्वाहान्तं सर्वमन्त्रेषु होमकाले विशेषतः ॥ ६३ ॥

सर्वभूते बलिं मन्त्रं शृणुष्वैकाग्रमानसः ।
आकारं च मुखं सर्वं वर्णानां च ततः परम् ॥ ६४ ॥

ॐ आ अ हुं फट्स्वाहान्तं मन्त्रमेतदुदीरयेत् ।
प्रणवादि प्रयोक्तव्यमसुगैतिकमन्त्रकम् ॥ ६५ ॥

प्। ३२)

सर्वत्र च हृदयाय स्वाहान्तं प्रणवादिकम् ।
अग्रमन्त्रमिति प्रोक्तं मन्त्रं पाशुपतं शृणु ॥ ६६ ॥

विद्युत्प्रभं परशुमान विलम्बिदंष्ट्रं
पाशं त्रिशूलमपि वामकरेऽक्षसूत्रम् ।
सर्वे भवे वरदहस्तयुतं त्रिणेत्रं
देवस्य पाशुपतरूपमिदं प्रशस्तम् ॥ ६७ ॥

एवं ध्यात्वा तु मनसा पूजयेत्तु विवक्षणः ।
अस्य मन्त्रं प्रवक्ष्यामि शृणु त्वं नन्दिकेश्वर ॥ ६८ ॥

षष्ठं च स्याद्द्वितीयं तु चतुर्थाभेन संयुतम् ।
द्वितीयाद्यपरोपेतं पञ्चवामाक्षरान्वितम् ॥ ६९ ॥

शिखामन्त्रेण संयुक्तमेतत्पाशुपतास्त्रकम् ।

हुं फट्कलः ।

कलान्ते नैव चान्तेन चतुर्थस्वरसंयुतम् ॥ ७० ॥

प्। ३३)

क्षुरिकाकलवदेवस्य शुद्धस्फटिक सन्निभम् ।
दीक्षाकाले विशेषेण पाशच्छेदेन मन्त्रकम् ॥ ७१ ॥

अघोराख्यस्य मन्त्रस्य सूक्ष्मरूपं शृणु द्विज ।
नादं यान्तसमायुक्तमादौ प्रणव संयुतम् ॥ ७२ ॥

विसर्गान्तं प्रयोक्तव्यमेतद्द्रूपं शृणु द्विज ।

विद्युज्ज्वालानलाभं भुजगपरिकरं तीक्ष्ण दंष्ट्रं त्रिणेत्रं
शूलं पाशं च घण्टा मलमसि च महाखेटकं प्रज्वलन्तम् ।
सर्वे सर्वेऽपि यं कामाङ्कुशमभीतिं दक्षिणे घोरवक्त्रे
पार्श्वे घोरास्त्रमेवं नियमित मनसा भावयेत्सर्वशान्तिम् ॥ ७३ ॥

परचक्र प्रशमने महाव्याधिप्रकोपमे ॥ ७४ ॥

भूमिकम्पे दिशादाहे ध्वंहाहे चण्डमारुते ।
एवमेवादिकालेषु अघोरस्य मुखाग्रतः ॥ ७५ ॥

प्। ३४)

अष्टोत्तरशतं कृत्वा जपेत्सर्वं प्रशाम्यति ।
व्योमव्यापि महामन्त्रं प्रवक्ष्यामि तवाधुना ॥ ७६ ॥

आदौ तु प्रणवं विद्याद् द्वितीयं तु द्वितीयकम् ।
तृतीयं त्रिस्वरं प्रोक्तं चतुर्थं षट्स्वरं भवेत् ॥ ७७ ॥

पञ्चमं यश्चतुर्थं स्यान्मन्त्रमोङ्कारसंयुतम् ।
अष्टमान्तमिति ख्यातं सप्तमं तु ततः परम् ॥ ७८ ॥

ला क्रमान्त समायुक्तम् अकारस्वरसंयुतम् ।
अष्टमं तान्त संयुक्तं तृतीय स्वरभूषितम् ॥ ७९ ॥

नवमं यान्तमेकारं संयुक्तं प्रणवं दश ।
अस्य रूपं प्रवक्ष्यामि समासाच्छृणु सत्तम ॥ ८० ॥

प्। ३५)

त्रिमुखं सप्तपिञ्छाक्षं क्वचिद्रक्तं क्वचित्सितम् ।
अनुपाद्यमिदं रूपं व्योमाख्यं व्योमरूपिणम् ॥ ८१ ॥

ग्रहणे विषुवे चैव व्यतीपाते त्वनेकधा ।
राजाभिषेक समये युद्धारम्भे स्वजन्मनि ॥ ८२ ॥

उत्सवान्ते च तीर्थान्ते ज्वरमार्यादि पीडिते ।
क्षीरस्नानं मधुस्नानं महास्नानं प्रशस्यते ॥ ८३ ॥

मन्त्रेणानेन नन्दीशं कारयेदमरेश्वरम् ।
दुरिता नाशमायान्ति प्रार्थितं फलमाप्नुयात् ॥ ८४ ॥

सद्याङ्गानि प्रवक्ष्यामि षडङ्गानि यथाक्रमम् ।
प्रशान्तं हेति हृदयं प्रणवात्मन्नमः शिरः ॥ ८५ ॥

प्। ३६)

शिवाय जं शिखा ज्ञेया साकारन्तु पुरूस्वतम् ।
फट्कारस्तु स्त्रचास्त्र मों दुसो नेत्रमिष्यते ॥ ८६ ॥

हृदादिनेत्र पर्यन्तमामौ सर्वं प्रयोजयेत् ।
यात्रशं हृ च यादीनां विद्यारागं च तादृशम् ॥ ८७ ॥

भॄ इं ज्ञ ड ज्ञां महामन्त्रं बीजमुख्या त्रिरेव हि ।
अङ्कुरार्पण काले तु शम्भोरासनकल्पने ॥ ८८ ॥

एकांश्च त्रीणि मन्त्रांश्च तत्काले योजयेद्बुधः ।
आद्यन्तं बिन्दुसंयुक्तं ब्रह्मबीजमिति स्मृतम् ॥ ८९ ॥

वायव्यं प्रथमं बीजं कामराजं द्वितीयकम् ।
सौकारं स्यात्तृतीयं तु प्रत्येकं बिन्दुसंयुतम् ॥ ९० ॥

प्। ३७)

प्रणवादि विसर्गान्तं सारस्वतमिति स्मृतम् ।

नेत्रत्रयं स्फटिक घण्टिक साक्षसूत्रं
व्याख्यान पुस्तकविलासितदोश्चतुष्कम् ॥ ९१ ॥

चैतां सितांशुकधरां सितपुष्पग्रन्थां
स्तोत्रम्बुजासनरतां प्रणमामिवाणीम् ॥

यान्तं यान्त समायुक्तं मायाबीज समन्वितम् ॥ ९२ ॥

बिन्दुनाद समायुक्तं श्रीबीजं सर्वसिद्धिदम् ।
दुर्गाबीजं तथा तं तु पञ्चमस्वरसंयुतम् ॥ ९३ ॥

बिन्दुनादसमायुक्तं सर्वाभीष्टप्रदं भवेत् ।
एकानना त्रिणेत्रा च डाडिमाभा चतुर्भुजा ॥ ९४ ॥

पाशाङ्कुशधरा देवी वरदाभय पाणिका ।
पद्मासन स्थिता सौम्या सर्वाभरणभूषिता ॥ ९५ ॥

प्। ३८)

प्रसन्नवदना रक्त वस्त्रेणैव तु वेष्टिता ।
रुद्रशक्तिरियं विद्या सान्निध्या सर्वसिद्धिदा ॥ ९६ ॥

एतन्मन्त्रस्तु ह्रीं श्रीं क्लीं प्राकारममृतं भवेत् ।
यतश्चन्द्रमिति ख्यातं ह्रां ह्रीं स सूर्य गुण्यते ॥ ९७ ॥

गकारं तु गणेशस्य विश्वविघ्ननिवारणम् ।
वक्रतुण्डाय विद्महे हस्तिवक्त्राय धीमहि ॥ ९८ ॥

तन्नो दन्तिः प्रचोदयात् ।

सर्वान्तं क्षेत्रपालस्य चतुर्दश समन्वितम् ।
बिन्दुनाद समायुक्तं भयं सर्वं सुवर्जितम् ॥ ९९ ॥

अजपा वक्ष्यते नन्दिन् सर्वभूतहिताय वै ।
सर्वप्राणिषु सर्वासां सर्वज्ञानमयी शुभा ॥ १०० ॥

प्। ३९)

वाच्यवाचक रहिता शिवभक्ति समन्विता ।
व्योमाक्षरं च प्रथमं बिन्दुसन्धियुतं भृगुः ॥ १०१ ॥

अजपेति विजानीहि मन्त्राणां गुरुरूपिणी ।
निष्कलं परमं तत्वं सर्वतत्वबहिष्कृतम् ॥ १०२ ॥

अनादिनिधनं शून्यमनौपम्यमकारणम् ।
न शक्यं तन्तनादान्तं नलायाति तमेव च ॥ १०३ ॥

न भावं भावनातीतान्नैवाभावं न चोभयम् ।
नास्तीत्यभावमापन्नं परनिर्वाणमात्मगम् ॥ १०४ ॥

निरामयं निरस्ताङ्गं व्यापकं सर्वतो मुखम् ।
असासन्तमनीशञ्च सर्वकारण कारणम् ॥ १०५ ॥

प्। ४०)

निर्मलं निष्प्रभं चैव निष्क्रियं निरपेक्षकम् ।
सदाशिवं शिवं शक्तिमीशं रुद्रं जनार्दनम् ॥ १०६ ॥

ब्रह्माणमिन्द्रमग्निं च सोमं सूर्यं तथैव च ।
सर्वदेवमयं चैव स्वग्वीं? दैवतं यजेत् ॥ १०७ ॥

मन्त्रश्रवणमात्रेण गुरुं दैवत चिन्तया ।
मन्त्रसिद्धिमवाप्नोति भक्तिविश्वास संयुतः ॥ १०८ ॥

प्रातः काले समुत्थाय गुरुरूपं विचिन्तयेत् ।
सहस्रं गुरुपूजान्तन्नियोगादमितः परम् ॥ १०९ ॥

षट्शतं तु गणेशाय षट्सहस्रं प्रजापतेः ।
विष्णोर्वै षट्सहस्रं तु षट्सहस्तं पिनाकिनः ॥ ११० ॥

सादाख्याय सहस्रं स्यादात्मने सहस्रं यथा सह ।
एति मन्त्रजपादेव सकृत्सन्ततकं जपेत् ॥ १११ ॥

ज्ञानयोगजपादीनि गुरोर्वक्त्रात्प्रसिध्यति ।
एवं विभक्तिमात्रेण दिवारात्रं जपं कृतम् ॥ ११२ ॥

वने वनतरोरग्निर्देहं मूलादि रक्षति ।
ते नैवानन्तरूपेण नाग्निमूलादि रक्षति ॥ ११३ ॥

मलं समूलञ्चरूपं दहत्यात्मानलो मनुः ।
महानदीं हि वा ज्ञासुरतैवान्ययथा भवेत् ॥ ११४ ॥

तथा तरन्ति पाशाब्धिं तान्यथैवात्ममन्त्रिणः ।
ब्रह्मचारी गृही वानप्रस्थो वा अथवा युतः ॥ ११५ ॥

प्। ४२)

परमाक्षरचिन्तं हि विरक्तो विषयी परः ।
ब्रह्महत्याश्च मेधाद्यैः पापपुण्यैर्न लिप्यते ॥ ११६ ॥

ध्यायन्नासाग्र दृष्ट्या तु परमाक्षररूपकम् ।
ध्याता गच्छन्त्स्वयं तिष्ठन् आसीनः स्वपनेऽपि सन् ॥ ११७ ॥

भुञ्जानश्च पिबन्खादन् क्रीडंश्च सार्वकालिकम् ।
क्रुद्धो वा अथवा शान्तो यत्र तत्र स्थितोऽपि वा ॥ ११८ ॥

शुचिर्वाप्यशुचिर्वापि सर्वावस्थासु योगवित् ।
ज्ञानं तत्कुरुते वाच्यं नान्यथा शास्त्र कोटिभिः ॥ ११९ ॥

तत इतो यतोत्यन्तं क्वापि लीनमवस्थितम् ।
गुरौ सन्तोषिते सर्वं तुष्यतीह चराचरम् ॥ १२० ॥

प्। ४३)

विमानिनं विमाने तु ततः सन्तोषयेद्गुरुः ।
गुरुर्माता पिता चैव भ्राता बन्धुजनश्चसः ॥ १२१ ॥

गुरुणापि समो बन्धुर्नास्ति नास्ति ह्यसंशयः ।
लब्ध्वा तु गुरुकारुण्यं शिवाज्ञा सम्प्रचोदितम् ॥ १२२ ॥

अनायासेन मुक्तिश्च शृणु सद्यैक जन्मनि ।
तस्माज्जनानां रुद्राक्ष कारणं शिवभक्तिमाम् ॥ १२३ ॥

एतन्मात्रेण मुक्तिः स्यात्पुनर्जन्म न विद्यते ।

इत्यचिन्त्य विश्वसादाख्ये पञ्चमः पटलः ॥