०४

अथ वक्ष्ये विशेषेण शिष्याणां लक्षणं शृणु ।
अहिंसा सत्य संयुक्तः क्रोधलोभविवर्जितः ॥ १ ॥

सहिष्णुरूर्जितमतिः सर्वक्लेश विवर्जितः ।
आसनं दन्तकाष्ठं च पादप्रक्षालनं तथा ॥ २ ॥

प्रसारणं च पादानां भस्मस्नानमतः परम् ।
तलस्य मर्दनं चैव सङ्ग्रामं च विवादनम् ॥ ३ ॥

महासंश्रयणं चापि न कुर्याद्गुरु सन्निधौ ।
अतिहासमवष्टम्भं लीलामङ्गप्रसारणम् ॥ ४ ॥

कटिप्रदेशे हस्तं यो न कुर्याद्गुरुसन्निधौ ।
व्याख्यातं च प्रतिष्ठां च मण्डलं शिष्यसङ्ग्रहे ॥ ५ ॥

प्। १५)

गूर्वाज्ञा प्रकर्तव्य मेकग्रासं पथो यदि ।
करस्फोटं च नृत्तं च गाथागानं च सुप्तकम् ॥ ६ ॥

गण्डकेशविशीर्णत्वं वर्जनं गुरुसन्निधौ ।
धामच्छायां गुरुच्छायां तथैवान्तेन वेदयेत् ॥ ७ ॥

वाचामधुरया चैव गुरवे सन्निवेशयेत् ।
गुरोर्गुरौ तु दष्टे तु प्राचार्यान्वन्दयेत्तथा ॥ ८ ॥

दीक्षामुख्येन वा प्रीत्या शुश्रुषा गौरवेण च ।
सतां चैव प्रयच्छेच्च ज्येष्ठत्व गुरुकल्पनात् ॥ ९ ॥

तत्र ज्येष्ठस्तु सम्पूज्यो गुरुवन्नन्दिकेश्वर ! ।
रात्रौ जले भये मार्गे प्रत्यादेश परो व्रजेत् ॥ १० ॥

प्। १०)

सदाचार्थो गुणग्राह्यो न दोषश्च परिग्रहः ।
गुणग्रामे भवेत्सिद्धि न सिद्धिर्दोषसङ्ग्रहे ॥ ११ ॥

सर्वेषामेव शिष्याणामधिकं स्याद्गुणं शृणु ।
भक्तिविश्वा समद्रोहं गुर्वाज्ञालङ्घनस्थितिः ॥ १२ ॥

श्रद्धा शान्तिः क्षमासत्यं तथा शौचं ततः श्रुतम् ।
कृतज्ञता द्वादशकं यस्य शिष्यस्य विद्यते ॥ १३ ॥

स शिष्याणां प्रधानश्च नास्त्येते ते प्रधानकाः ।
भक्ति युक्तश्च शिष्यश्च न शिक्षयति चेद्गुरुः ॥ १४ ॥

शिष्यज्ञानकृतं पापं गुरोर्भवति निश्चयः ।
तस्मात्सर्वप्रयत्नेन गुणान्सर्वान्परीक्षयेत् ॥ १५ ॥

प्। १७)

अल्पदोषगुणाधिक्ये समये चैव दीक्षयेत् ।
अब्दशुश्रूषणान्ते तु गुणागुणनिरूपणात् ॥ १६ ॥

गुणाधिक्येऽपि सच्छिष्यो दीक्षासंस्कारकादिभिः ।
कुर्यादाचार्यकस्तस्य विज्ञानावधिकं क्रमात् ॥ १७ ॥

दीक्षामात्रेण शिष्योऽपि सर्वदोषविवर्जितः ।
पश्चाद्दोषं समुत्पन्नं मनोवाक्काय कर्मभिः ॥ १८ ॥

व्यसनादिभिरस्येवं तत्सर्वं गुरवे पुनः ।
विज्ञाप्य सर्वदोषं च वन्दयेद्देशिकोत्तमम् ॥ १९ ॥

प्रायश्चित्तविधानं च गुरुः पश्चादुदीरयेत् ।
असन्निधौ गुरोरेवं कर्तव्यं ज्येष्ठसन्निधौ ॥ २० ॥

प्रायश्चित्ताद्भवेच्छुद्धः शुद्धत्वान्मोक्षमाप्नुयात् ॥

इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये शिष्य लक्षणः चतुर्थः पटलः ॥