श्रीनन्दिकेश्वरः ।
भगवन्देवदेवेश ! कर्मानाचार्यलक्षणम् ।
वदस्वलोकरक्षार्थम् अस्माकं च विशेषतः ॥ १ ॥
ईश्वर उवाच ।
विज्ञानदीक्षारहितो गुरुभक्तिविवर्जितः ।
गुर्वाज्ञालङ्घनश्चापि गुरुदोष विचारकः ॥ २ ॥
गुरुद्रव्याभिलाषी च सर्वद्रव्याभिलाषकः ।
गुरुशुश्रूषणाहीनो गुरुनिन्दासमन्वितः ॥ ३ ॥
गुरोरनिष्टकारी च ज्येष्ठभात्रवमानकृत् ।
क्रोधलोभजलोन्मेष पैशुन्यो डम्भवेषकः ॥ ४ ॥
अनृतो लुब्धकस्तेयो वक्रो मूर्खोपपादकः ।
चपलः करको दुष्टः क्षुद्रकर्मपरिग्रही ॥ ५ ॥
प्। १३)
अहङ्कारी कृतघ्नश्च समयाचारदूषकः ।
ज्ञानयोग विनिर्मुक्तः क्षयकुष्ठादि रोगवान् ॥ ६ ॥
धूर्तको विषया सक्तो दुश्शीलः कैतवस्तथा ।
ज्ञोरज्ञातिश्च दुर्मानी भक्षको दुर्मुखस्तथा ॥ ७ ॥
एवमादिगुणैर्युक्तो न पूज्यो हि महीतले ।
अस्यैवाचार्य नामत्वमभिषेकं न कारयेत् ॥ ८ ॥
प्रमादादभिषेकं तु कृतं चेद्दोषभाग्भवेत् ।
इत्यनाचार्य लक्षणं नाम तृतीयः पटलः ॥