प्। ८)
ईश्वरः ॥
आचार्य लक्षणं वक्ष्ये शृणुत्वं नन्दिकेश्वरः ।
ज्ञानयोगक्रियाचर्याः सम्यगाचर्यते यतः ॥ १ ॥
तस्मादाचार्य इत्युक्तः सर्वभूतहिताय वै ।
आचार्यौ द्वौ समाख्यातौ विरक्तः प्रथमो भवेत् ॥ २ ॥
भौतिकश्च द्वितीयः स्यात् प्रथमस्तु विशेषतः ।
आजन्मब्रह्मचारी च यतिश्च तदनन्तरम् ॥ ३ ॥
एवं च यत्तु प्रथमे द्वितीयेऽपि द्वितीयकम् ।
गृहस्थो वानप्रस्थश्च चतुष्टयमुदीरितम् ॥ ४ ॥
जन्म वै द्विविधं प्रोक्तं दीक्षा प्रसवसञ्ज्ञिकौ ।
नैष्ठिको नैष्ठिकश्चैव गृहस्थान्दीक्षयेत्क्रमात् ॥ ५ ॥
प्। ९)
भौतिकस्तु गृहस्थाच्च नान्यद्दीक्षा समाचरेत् ।
भौतिको लिङ्गं युक्तस्तु तस्य जातिर्न विद्यते ॥ ६ ॥
भार्या सहितवृत्तित्वात् तल्लिङ्गत्वात्तथैव च ।
चिन्तासन्तति संशून्या लोकाचार विमोहितम् ॥ ७ ॥
जातिभेदवशादेव दीक्षयेन्नन्दिकेश्वर ! ।
एतेषां देशिकानां तु लक्षणं शृणु सुव्रत ! ॥ ८ ॥
अहिंसा सत्यवादी च विश्वजीवदया परः ।
क्षमावान्शान्तचित्तश्च निग्रहानुग्रहे महान् ॥ ९ ॥
समाचारयुतो दक्षो जपध्यानपरायणः ।
विज्ञानदीक्षा संयुक्तो गुरुभक्तिविशारदः ॥ १० ॥
प्। १०)
ज्ञानयोगक्रियाचर्या चतुष्पादान्तशास्त्रवित् ।
डम्भ मायाविनिर्मुक्तः क्षुद्रकर्मविवर्जितः ॥ ११ ॥
शिष्याणां गुण दोषज्ञो विज्ञानी च जितेन्द्रियः ।
रागद्वेष विनिर्मुक्तः कृपागुणसमन्वितः ॥ १२ ॥
समयानां तु सर्वेषां ज्ञानसारपरिग्रही ।
अधिष्ठाने त्रियोपेतो गमनत्रय पारगः ॥ १३ ॥
आज्ञात्रय समायुक्तः नादत्रयसमन्वितः ।
शिवानुभूति संयुक्तः संशयच्छिद संशयः ॥ १४ ॥
वश्याकर्षण विद्वेष स्तम्भोच्चाटनमन्त्रवित् ।
ज्ञय कुष्ठादिरोगैश्च वीतः परमसुन्दरः ॥ १५ ॥
प्। ११)
निर्मदो निरहङ्कारो नृंशस्यो निर्विकल्पकः ।
तमोविहीनः शास्त्रज्ञः परमार्थविचिन्तकः ॥ १६ ॥
एतल्लक्षणसंयुक्तोऽप्याचार्यवर उच्यते ।
भौतिकोऽपि विशेषेण धर्मपत्नीसमन्वितः ॥ १७ ॥
पूर्वोक्त लक्षणोपेतो भौतिकाचार्य उच्यते ॥
इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये क्रियापादे आचार्य लक्षणो द्वितीयः
पटलः ॥