०१

वन्दे वेतण्ड तुण्डं तं चण्डिकासङ्गमण्डलम् ।
शुण्डादण्डेन वन्यानां प्रखण्डयति मण्डनम् ॥ १ ॥

प्रणम्य देवदेवेशं सर्वज्ञं तु सदाशिवम् ।
महेशः परिपप्रच्छ प्रणामाद्युपचारकृत ॥ २ ॥

आदौ महेश्वरात्पृच्छन् श्रीण्ठो गिरिजापतिः ।
ब्रह्मेशस्सत्य देवेशो रुद्रकारणकारणः ॥ ३ ॥

प्रणम्य चरणौ तस्य रत्नगर्भं तथा ब्रवीत् ।
कामिकं योगजं चिन्त्यं कारणं चाजितं तथा ॥ ४ ॥

दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् ।
विजयं चैव निश्वासं स्वायम्भुवमथानलम् ॥ ५ ॥

प्। २)

वीरं च रौरवं चैव मकुटं विमलं तथा ।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा ॥ ६ ॥

सिद्धं सन्तान शर्वोक्तं पारमेश्वरमेव च ।
किरणे वातुल चैव * * * * * * * * ? ॥ ७ ॥

पूर्वोक्तदिति ख्यात मसङ्ख्यमुपभेदकम् ।
स विस्तरत्वात् सम्मार्ज्यै तज्जातस्य * *? मभो ॥ ८ ॥

प्। ३)

प्रकाशितं मयानन्दिंस्तव स्नेहाद्विशेषतः ।
अचिन्त्यं विश्वसादाख्यं ग्रन्थमष्टसहस्रकम् ॥ ११ ॥

ज्ञानयुक्तं क्रियाचर्या-संयुक्तं चोत्तरोत्तरम् ।
निष्क्रियं निर्मलं यच्च हेतु दृष्टान्त वर्जितम् ॥ १२ ॥

तदेतद्बुद्ध्यतां नन्दिन् सम्यक्सन्मार्गमुत्तमम् ।
सम्यग्दर्शन सन्मार्ग ज्ञानपर्याय वाचकम् ॥ १३ ॥

श्रीनन्दिकेश्वर उवाच ।

सहमार्गो भवेत्कस्मात्पुत्रमार्गः कथं विभो ।
दासमार्गो भवेत्केन कथ्यतां भगवन्मम ॥ १४ ॥

ईश्वर उवाच ।

सहमार्गं प्रवक्ष्यामि पञ्चविंशार्ण गोचरम् ।
रूपध्यान विनिर्मुक्तमरूपध्यानसंयुतम् ॥ १५ ॥

अनेकोपाय संयुक्तमनेकापाय वर्जितम् ।
मायाविवर्जितं यच्च सहमार्गमिति स्मृतम् ॥ १६ ॥

स्वरूपं सहमार्गं च योगपर्याय वाचकम् ।
पुत्रमार्ग स्वभावोऽयं गुरुरेव हि दैवतम् ॥ १७ ॥

चिन्तयेत्स्वगुरुं भक्त्या भक्त्या ज्ञानप्रदं शुभम् ।
सर्वागमोदितं ज्ञानं सर्वैश्वर्यं तथैव च ॥ १८ ॥

कैवल्य पदसम्प्राप्तिस्सर्वा गुर्वाज्ञया भवेत् ।
पुत्रमार्ग इति प्रोक्तो दासमार्गस्तथोच्यते ॥ १९ ॥

मुण्डी जटी शिखी वापि वश्यसाधन संयुतः ।
कौपिनमम्बरं ज्ञेयं कथं प्रावरणं तथा ॥ २० ॥

प्। ५)

भिक्षान्नं देहपोषार्थं प्रासादकरणं तथा ।
मठादीनि विधेयानि नैष्ठिका वासकारणात् ॥ २१ ॥

प्रपादिकरणं चैव शिवशास्त्रार्जनं तथा ।
तटाकं कूपयन्त्रं च स्थापयेद प्रयत्नतः ॥ २२ ॥

उद्यानकरणं चैव पुष्प ग्रहणबन्धनम् ।
स्नपनार्थं जलन्देयं देयं देहादिमार्जनम् ॥ २३ ॥

प्रोक्षणं लेपनं चैव त्यादि दासमार्गकम् ।
सन्मार्गं सहमार्गं च पुत्रमार्गमनन्तरम् ॥ २४ ॥

दासमार्गं च भगवन् किं विशिष्टं वद प्रभो ।

ईश्वरः ।

सन्मार्गं तत्वरत्नं हि सर्वतत्वैक नायकम् ॥ २५ ॥

प्। ६)

दासत्व पुत्रमार्गाभ्यां पुत्रमार्गो विशिष्यते ।
तथापि पुत्रमार्गं तु गुरुदेव प्रधानतः ॥ २६ ॥

तस्माच्छ्रेष्टस्तु विज्ञेयः पुत्रमार्गः स्वभावतः ।
एतच्चतुष्टये मार्गे सेव्यस्तन्मोक्षकाङ्क्षिणम् ॥ २७ ॥

यद्यप्येकेन वै न्यूनं मोक्षसोपानभञ्जकम् ।
ऐश्वर्यादिफलं लब्ध्वा पुनर्जन्म प्रपद्यते ॥ २८ ॥

ततश्च ज्ञानयोगं च क्रियाचर्या चतुष्टयात् ।
लब्ध्वा गत्वा प्रकाशित्वा मोक्षात्मी व्रजति क्रमात् ॥ २९ ॥

सम्पर्केण शिवो ज्ञेयः प्रणयस्तदनन्तरम् ।
शिवस्य प्रीतिदं पौत्रं दासमार्गमनुग्रहम् ॥ ३० ॥

प्। ७)

तस्मात्सर्व प्रयत्नेन चतुष्पादमिदं भवेत् ।
अनुष्ठेयं सदानन्दिन् भोगमोक्षस्य कारणात् ॥ ३१ ॥

मदीयकरसस्थं हि हस्तकं नन्दिकेश्वर ! ।
त्वया मया विशेषत्वाद् दत्तमेतदभीष्टदम् ॥ ३२ ॥

इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये क्रियापादे तन्त्रावतारः प्रथमः
पटलः ॥