बाह्य लक्षणमुद्दिष्टं शृणुष्वाभ्यन्तरं तु यत् ।
चतुरश्रां शिलां सम्यक् छेदयेत् तु विचक्षणः ॥ १ ॥
तक्षकच्छेदके चैव शूलं यत्र प्रदृश्यते ।
स गर्भान्तं विजानीयाद्यत्नेन तु परीक्ष्यते ॥ २ ॥
मञ्जिष्ठवर्णे मण्डूकं कर्कटं हरितालके ।
पीतकोयासिता सर्पं खद्योतमधुवर्णकैः ॥ ३ ॥
कपिले मूषिकं विद्यात् स्फटिकाभे जपं स्मृतम् ।
रक्तमण्डलिकं तत्र चित्रवर्णेन वृश्चिका ॥ ४ ॥
शफरं कृष्णचित्रे तु किंशुकाभेन्द्रगोपकम् ।
एते ॥॥
शङ्कोत्सेधे षण्णवत्यष्टभागम्
एकैकांशं द्व्यङ्गुलं तस्य धीमान् ।
युक्त्या युक्त्या शङ्कुतुङ्गस्य मानं
छायाश्चायाद् दक्षिणे दक्षिणे च ॥ ५ ॥
अर्थलाभगृहच्छेदं गृहिणी मरणं तथा ।
क्लेशोऽर्थ लाभो मरणं सुखमैश्वर्यमेव च ॥ ६ ॥
क्रमाच्चक्रादिकं विद्यान्मध्ये कूपं विनाशयेत् ।
मध्यकोणं तथा रज्जु द्वारपार्श्वे तु वर्जयेत् ॥ ७ ॥
क्षेत्रारामगृणाणां तु कूपन्यासविधिक्रमम् ।
देवालये च चाग्नेय्यां विशेषेण विधीयते ॥ ८ ॥
कर्तुराश्यानुकूलं वा वास्तु क्षेत्रे विधीयते ।
अधोमुखं निरीक्ष्याणि पूजितानि विशेषतः ॥ ९ ॥
तिर्यङ्मुखानि मध्यानि वर्जयेदूर्ध्ववक्त्रकम् ।
पक्षच्छिद्राणि रिक्तां च वर्जयेत् कृष्ण ऋक्षकम् ॥ १० ॥
व्यतीपातं च परिघं वैधृतिं परिवर्जयेत् ।
गुरुशुक्रज्ञवारेषु सोमवारेषु खानयेत् ॥ ११ ॥
दशाहे कूपसूतिः स्यात् पश्चात् पुण्याहमाचरेत् ।
एवमेव विधानेन कूपन्यासविधिक्रमम् ॥ १२ ॥
अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः ।
अभया वरदोपेताः टङ्कशूलसमन्विताः ॥ १३ ॥
रक्तं श्वेतं तथा नीलं पीतं कृष्णं च कुङ्कुमम् ।
अरुणाभाञ्जनप्रख्यं क्रमाद्वर्ण प्रमाणकम् ॥ १४ ॥
अनन्तादि शिखण्ड्यन्तं प्राग्दलादिषु पूजयेत् ।
आयुधानां मुखं दीर्घं कारयेत् तु विचक्षणः ॥ १५ ॥
एकादि चेष्टपर्यन्तं नाहमानं विधीयते ।
पूर्णमुष्टिस्तु नाहं स्यात् कारयेत् तु विचक्षणः ॥ १६ ॥
सहजं चलनं चैव आयुधानां विधीयते ॥
महाशिवाराधनं वक्ष्ये शृणुत्वं शरवणोद्भव ! ।
लिङ्गे बेरे तथा चान्ये पीठे वा पूजयेच्छिवम् ॥ १ ॥
निष्कलं निष्कलं ज्ञेयं सकलं सकलाकृतिम् ।
तयोस्तु पीठमाख्यातं कल्पयेत् कल्पवित्तमः ॥ २ ॥
पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा ।
द्वारं कुर्याद्विशेषेण पश्चिमं मुक्तिदं गुह ॥ ३ ॥
उत्तरं शान्तिदं ज्ञेयं विजयं दक्षिणामुखम् ।
देविकं मानवं तद्वान्नरैर्दक्षिणोत्तरम् ।
स्वायम्भूर्देविकं बाणं सर्वदेवदिगाश्रयम् ॥ ५ ॥
लिङ्गं प्रधानमेवं हि रन्ध्रं कुर्यात्तु षण्मुख ! ।
बेरं चैव तथै * हं देविके चार्षकेऽपि वा ॥ ६ ॥
शैलजे लोहजे वाथ सौधजेनैव कारयेत् ।
सौधजेनैव सिध्यर्थं शैलजं मुक्तिदं परम् ॥ ७ ॥
लोहजं सुखदं ज्ञेयं शैलं चैव चलाचलम् ।
स्थानकं चासनं यानं नृत्तरूपं तथैव च ॥ ८ ॥
स्थानकं सर्व सिध्यर्थम् आसनं सौख्यदं स्मृतम् ।
स्थानकं चासनाख्यं च तामसं शयनं गुह ! ॥ ९ ॥
धर्मकामार्थमोक्षार्थं नृत्तरूपं सुखावहम् ।
लिङ्गे चैव विशेषेण स्थानकासनकं शृणु ॥ १० ॥
वर्धमानं स्थितं लिङ्गम् आसीनं तु शिवाधिकम् ।
या कर्म शिवं ज्ञेयम् एवं तद्भेदमुच्यते ॥ ११ ॥
हर्म्यमानेन लिङ्गं वा बेरं वापि प्रकल्पयेत् ।
लिङ्गबेरवशाद्धाम कारयेद्वा विजायते ॥ १२ ॥
कल्पनाद्रूपमेवोक्तं ध्यानरूपमथ शृणु ।
त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ॥ १३ ॥
एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं वेदवक्त्रकम् ।
पञ्चवक्त्रयुतो वापि शतसाहस्रमेव वा ॥ १४ ॥
द्विशतादि सहस्रान्तम् एवमेवं विधीयते ।
एकपादं द्विपादं वा त्रिपादं सहस्रमेव वा ॥ १५ ॥
श्वेतवर्णं च रक्तं च श्यामवर्णं तथैव च ।
नीलवर्णं च कृष्णं च वर्णमेवं विधीयते ॥ १६ ॥
जटाजूटोर्ध्वकेशं वा जटापिङ्गसमोऽपि वा ।
नागखड्गायुधो वापि शूलपाशायुधोऽपि वा ॥ १७ ॥
टङ्कशूलायुधो वापि सर्वायुधकरोऽपि वा ।
निरायुधकरो वापि एवमेवं तु कारयेत् ॥ १८ ॥
सर्वायुध धृतो वापि निरायुध करोऽपि वा ।
जटाग्रे जाह्नवीं चैव त्रिधारूपं तु मेव वा ॥ १९ ॥
पूर्णचन्द्रधरो वापि भूषयेन्मकुटोपरि ।
हर्यर्धं गिरिजार्धं वा कल्पयेत्तु महाशिवम् ॥ २० ॥
हर्यर्धं दक्षिणे भागे वामभागेऽर्धनारिणम् ।
वामे तु गिरिजार्धं स्याद् दक्षिणे रुद्ररूपकम् ॥ २१ ॥
विपरीतनृपां सर्वधर्मकामार्थमोक्षदम् ।
विष्णुं प्रजापतिं चैव धनदो विजयोऽपि वा ॥ २२ ॥
गौरी स्कन्दो वृषो वापि सव्यवामे सहासने ।
प्राग्वच्च स्थापयेद्वापि कारयेद्द्विविधा मतः ॥ २३ ॥
लिङ्गं वा सकलं वापि केवलं कारयेत्पुनः ।
तयोर्योगप्रतिष्ठां चेत् सकलं भित्तिमाश्रितम् ॥ २४ ॥
बाणं वा मानुषं लिङ्गं स्थापयेद्धाममध्यमे ।
चललिङ्गं तु वा वत्स ! पूजयेच्छिवसन्निधौ ॥ २५ ॥
बाणं रत्नजलिङ्गं वा स्फटिकं चलमेव च ।
पट्टिकान्तं गलान्तं वा होमान्तं कुमुदान्तकम् ॥ २६ ॥
तत्सीमे जलनिस्रा वा नालं तत्रैव विन्यसेत् ।
पूर्वे वा चोत्तरे वापि नालस्थानं वदाम्यहम् ॥ २७ ॥
प्रतिबन्धं पद्मबन्धं पादबन्धमथापि वा ।
अधिष्ठानं तथा शक्तिमार्गेणैव तु कारयेत् ॥ २८ ॥
जातिच्छन्दविकल्पाद्यैः एकमेकेन कारयेत् ।
नागरं द्राविडं वापि वेसरं चतुरायतम् ॥ २९ ॥
वृत्तं वृत्तायतं चैव सभाकृतिरथापि वा ।
विस्तारद्विगुणोत्तुङ्गम् अल्प्य हर्म्येति चोच्यते ॥ ३० ॥
एकनासियुतो वापि देवनासियुतोऽपि वा ।
नासिकारहितो वापि वाहनं रहितोऽपि वा ॥ ३१ ॥
सिंहारूढं वृषारूढं भूतारूढमथापि वा ।
दिङ्मूर्तिरहितं वापि एभिमूर्तिरथापि वा ॥ ३२ ॥
देवाश्च दानवाश्चैव यक्षराप्स ऋषिस्तथा ।
नानानासिसमायुक्तं नानायोनिसमाकुलम् ॥ ३३ ॥
एवमेवक्रमं धाम कल्पयेत् तु षडानन ! ।
बेरस्योच्छ्रार्धमानाश्च मानेनैवासनं गुरुः ॥ ३४ ॥
पूजापीठं तु कर्तव्यं सप्तमात्रप्रमाणतः ।
मेखलत्रयसंयुक्तं दलाष्टकसमन्वितम् ॥ ३५ ॥
अर्चापीठमिति ख्यातं कल्पयेदेवमेव तु ।
अर्चारूपमिदं प्रोक्तं पूजाभागन्न विद्यते ॥ ३६ ॥
आवाहनोद्वहं नोक्तं पूजाभेदं न विद्यते ।
आवहनोद्वहं नोक्तं पूजयेत्प्रति सन्धिषु ॥ ३७ ॥
प्रतिदिनं प्रतिपक्षं प्रतिमासं प्रतिवत्सरम् ।
युगे युगेषु पे वत्स पूजां कुर्याद्विशेषतः ॥ ३८ ॥
वैदिकैस्तान्त्रिकैर्मन्त्रैः एतत् तन्त्रोक्तमार्गतः ।
पूजयेद्देव देवेशम् अन्यतन्त्रैर्नकारयेत् ॥ ३९ ॥
रथाकारं लिखेच्चक्रं नवावयवसंयुतम् ।
रथाङ्गानां चतुष्कं च द्वयं तत्रैव कीलकम् ॥ १ ॥
अग्रे द्वयं तथा पीठे स्वामिनक्षत्रमादिनः ।
रथाङ्गं च त्रयं पूर्वं कीलके भत्रयं तथा ॥ २ ॥
रज्जु द्वयं रथाङ्गानां द्वयं कीलकमेव च ।
पश्चाद्रथाङ्गं पीठं च क्रमादक्षाणि विन्यसेत् ॥ ३ ॥
स्थानेष्वेतेषु ऋक्षाणां विन्यसेच्च त्रयं त्रयम् ।
त्वक् स्थाने शास्तु मन्दारा स्थिता तत्र विनाशदा ॥ ४ ॥
रथाङ्गेर्कधरासूनुशनिराह्वादयः स्थिताः ।
तदिग्भागरथाङ्गे तु भिन्नं भवति भूतले ॥ ५ ॥
रव्यादयः कीलके च द्विग्रहो वा त्रयोऽपि वा ।
रविलुप्तकरा नीचाः तस्य भङ्गं विनिर्दिशेत् ॥ ६ ॥
रज्जौ रज्जु विनाशं च पीठे देवस्य नाशनम् ।
क्षीणे नीचारिमूढस्थाः चन्द्रयोगे ध्रुवं फलम् ॥ ७ ॥
शुक्रः पणफरे ज्ञो वा आपोक्लीवगतोऽपि वा ।
रथचक्रं विजानीयाद् दारुभिन्दन्न संशयः ॥ ८ ॥
केन्द्रे पणफरे चक्रे मन्दारफणवीक्षिते ।
रथचक्रं नरं हन्ति रज्जुभीन्नं न संशयः ॥ ९ ॥
उत्सवे चरलग्ने च स्थापने च स्थिरे तथा ।
रथारोहे ध्वजारोहे चरे चोभय राशिषु ॥ १० ॥
नेष्टं चतुष्टये वक्रं भयभे तद्वर्गोऽपि विलग्नकः ।
करोति वसुधा नाशं तद्द्वारेऽपि शुयासतः ॥ ११ ॥
चरामुख्यास्तत्र व्ययकटकतौलि तु धनुर्मीने ।
चावस्थितः सकल पापाः शुभकराः ॥ १२ ॥
शशिन्यापोक्लीबे गुरुभृगुज केन्द्रेऽपि च तथा ।
रथानां यात्रा स्युः शुचिनि निधने पञ्चम पदे ॥ १२ ॥
यात्रालग्ने नैधने नाम पुन्त्रिकोणे मातेद्युने ।
चन्द्रसूर्यारसौराद्य पश्चाच्छक्र भिद्यते राहुदण्डताकेतुः कर्ता पुत्र
भार्यार्थ हानिम् ॥ १३ ॥
त्रिषडायगतैः पापैः कण्टकाद्यैः शुभयुतैः ।
रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥ १४ ॥
लग्नेशे बलवर्जिते निधनगे क्रूरेक्षिते संयुते ।
रज्जुर्मृतिलग्नगे दिनपतौ भौ पेतन्ति ध्वजाः ।
मन्दे विप्रतिचक्रकीलसहितः राहौ * * संयुते ।
चिद्यः स्याच्छदिलग्नगे रथपतिभूमौ निवेशस्तथा ॥ १५ ॥
रथप्रयाणलग्नेशे चक्रेशे क्रूरसंयुते ।
चक्रं निपतितं भूमौ कीलेन सह भिद्यते ॥ १६ ॥
त्रिकोणे सबले जीवे केन्द्रे च बलसंयुते ।
रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥ १७ ॥
रथप्रयाणकेन्द्रेषु रविराह्वारभानुजाः ।
निघ्नन्ति रज्जुकीलाद्यैः तच्चक्रं च पतेद्भुवि ॥ १८ ॥
यात्रोदये यदा भानुः अस्तगे तत्सुतो यदि ।
विनाशयति तच्छीघ्रं चक्रं कीलेन रज्जुभिः ॥ १९ ॥
निमज्जति रथं चक्रं न भूमेर्मन्दिरो यथा ।
आदित्ये सबले केन्द्रे न गच्छति * कं पतिः ॥ २० ॥
सबले केन्द्रगे सौम्ये त्रिकोणो वाथ नायके ।
त्रिषडायगताः पापाः रथं सम्यक् प्रवर्तते ॥ २१ ॥
त्रिकोणे कण्टके पापे रथयात्रोदये सति ।
कर्ता मरणमायाति स राष्ट्रं नाशयत्यसौ ॥ २२ ॥
विनाशती च तच्चक्रं सरथं रज्जुना सह ॥ २३ ॥
रथयात्रा चरेष्विष्टा द्विस्वभावेषु मध्यमा ।
केन्द्र त्रिकोणगे पापे शुभषष्ठान्त्यगो यदि ॥ २४ ॥
पापेक्षिते शुभैर्मुक्ते रथयानं चिराद्भवेत् ।
केन्द्र त्रिकोणगे मन्दे द्वादशाष्टमगो यदि ॥ २५ ॥
दिनत्रयेणरित्यादि रथभङ्गं च निर्दिशेत् ।
केन्द्रे चन्द्रे गुरौ कोणे भृणु सौम्य निरीक्षिते ॥ २६ ॥
चरलग्ने यदा यानं घटिकानां त्रयोदश ।
द्वादशे नवमे पापे पापलग्ने शुभेक्षिते ॥ २७ ॥
द्वितीये केन्द्रगे सौम्ये रथयानं दिनार्धतः ।
पीठे राहुसमायुक्ते रथाङ्गे शनिसङ्गते ॥ २८ ॥
कीलके पापसंयुक्ते रथभङ्गोऽत्र विद्यते ।
पीठे दिनमणौ भौमे रथाङ्गे पापसंयुते ॥ २९ ॥
रज्जौ च कीलके सौम्ये रथयानं चिरेण तु ।
अचिराद्रथयानं स्यात् पीठे दे * न्दु पूजिते ॥ ३० ॥
रथाङ्गे शशिविच्छक्रा रज्जौ सूर्ये शुभेक्षिते ॥
बलि पीठं प्रवक्ष्यामि बाह्ये पीठ चतुष्टयम् ।
प्राच्यां वै स्थापिते पीठे श्रीकरं चेति कीर्तितम् ॥ १ ॥
दक्षिणे स्थापिते पीठे श्रीविशालमिति स्मृतम् ।
पश्चिमे स्थापिते पीठे श्रीभद्रमिति कीर्तितम् ॥ २ ॥
उत्तरे स्थापितं पीठं श्रीनिवासमिति स्मृतम् ।
प्राच्यां श्रीकरस्य प्रतिष्ठायां ब्राह्मणानां तु वृद्धये ॥ ३ ॥
श्रीविशालप्रतिष्ठायां क्षत्रियाणां च वृद्धये ।
श्रीभद्रस्य प्रतिष्ठायां वैश्यानां च विवृद्धये ॥ ४ ॥
श्रीनिवासप्रतिष्ठायां शूद्राणां चाभिवृद्धये ।
एवमेव प्रकारेण चतुर्द्वारे विशेषतः ॥ ५ ॥
श्रीश्च सरस्वती चैव ब्राह्मी सावित्रि एव च ।
पीठस्याधिपतीनां तु पूर्वादीनां यथाक्रमम् ॥ ६ ॥
सुप्रभेदे ——– बलि पीठलक्षणम् ॥
४२०) गर्भगेहस्य पञ्चांशे चतुष्कं चोत्तमोन्नतम् ।
त्रिभागं मध्यमं प्रोक्तं द्विभागमधमं स्मृतम् ॥ ७ ॥
द्वारोत्सेधसमं श्रेष्ठं तत्त्रिभागं तु मध्यमम् ।
द्वारार्धमधमं विद्यात् उत्सेध समविस्तृतम् ॥ ८ ॥
उत्सेधं सुविभज्याथ भागमेकोनविंशति ।
भागेनोपानकोच्चं तु चतुर्भिर्जगती भवेत् ॥ ९ ॥
कुमुदं तु त्रिभागे तु तदूर्ध्वैकेन पट्टिका ।
कर्णं कुर्यात्त्रिभागैः एकेनैवोर्ध्व पट्टिका ॥ १० ॥
महापट्टिका द्व्यंशेन दलोत्सेधं त्रिदलाष्टकम् ।
कर्णिका चैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥ ११ ॥
प्रवेशनिर्गमं वक्ष्ये विस्तारोत्सेधकांशकम् ।
समस्तांशमुपानन्तु मन्वंशं जगती तथा ॥ १२ ॥
भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिका तथा ।
अष्टांशं कण्ठविस्तारं दशांशं चोर्ध्वपट्टिका ॥ १३ ॥
द्वादशांशं महापट्टी दशांशमष्टदलविस्तरम् ।
चतुरश्रं यथा पीठं कुर्यात्पद्मदलं विना ।
स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥ १५ ॥
प्रतिष्ठाविधिमार्गेण कारयेद्देशिकोत्तमः ।
कारणे परिवारबलिः ॥
मूलधाम्नश्च द्वारोच्चम् उत्तमं पीठविस्तृतम् ।
त्रिपादं मध्यमं प्रोक्तं द्वारतुङ्गार्धकन्यसम् ॥ १ ॥
शुद्धद्वारस्य विस्तारम् अधमं पीठमुच्यते ।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥ २ ॥
अथवा व्योमहस्तेन अधमं पीठविस्तृतम् ।
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ॥ ३ ॥
तद्विस्तारसमं तुङ्गं कृत्वा चैवाष्टविंशति ।
उपानोच्चं द्विभागं स्यात् षडंशं जगती भवेत् ॥ ४ ॥
कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते ।
वेदांशं कर्णमानं तु ऊर्ध्वकम्पं शिवांशकम् ॥ ५ ॥
महापट्टीद्वयांशं तु द्विभागं वा विशेषतः ।
वेदांशं पद्मतुङ्गं तु द्विभागं कर्णिकोदयम् ॥ ६ ॥
अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पञ्चभागं तु महापट्टी द्विभागतः ॥ ७ ॥
उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।
क्षुद्रपीठलक्षणम् ॥
अन्तर्मण्डलमध्ये तु भित्याश्रयमथापि वा ॥ ८ ॥
बलिपीठं प्रकर्तव्यं कौशिकाङ्गुलसंयुतम् ।
अधमं द्विगुणं मध्यं त्रिगुणं चोत्तमोन्नतम् ॥ ९ ॥
वेदाश्रं वाथ वृत्तं वा सर्वपीठं प्रकल्पयेत् ।
विस्तारसमतुङ्गं स्यात् त्रिपादं चार्धमेव वा ॥ १० ॥
त्रिमेखलं तु कुर्वीत द्विमेखलमथापि वा ।
एकमेखलया युक्तम् ऊर्ध्वे पद्मसमन्वितम् ॥ ११ ॥
पद्मपीठं तु कुर्वीत पद्माकारं स कर्णिकम् ।
मातॄणां नवपीठं स्यात् ज्येष्ठायां पीठकत्रयम् ॥ १२ ॥
अन्येषामेकमेवं स्यात् चण्डेशस्य तथैव हि ।
अन्तर्मण्डलदेशे तु इन्द्रादि बलिपीठकम् ॥ १३ ॥
स्थापयेत् तु क्रमेणैव मण्डपोपान बाह्यतः ।
अन्तर्मण्डलतारस्य सदृशं द्विगुणं तु वा ॥ १४ ॥
अन्तस्तारस्य बाह्ये तु कल्पयेत्कल्पवित्तमः ।
तस्यास्तु मध्यमे भागे परिवाराष्ट विन्यसेत् ॥ १५ ॥
वृषादि चण्डपर्यन्तं स्थापयेदष्टदिक्षु च ।
यस्य विस्तारपचत आयामं च विधीयते ॥ १६ ॥
चतुर्भागाधिकं पञ्चभागं वाधिकमेव वा ।
त्रिभागेनाधिकं चैव द्विद्धं पञ्चार्धमाधिकम् ॥ १७ ॥
मेव वा द्विगुणं तद्द्विगुणं पादाधिकं तु वा ।
द्विगुणार्धं तु आयामं गोपुरेषु विधीयते ॥ १८ ॥
प्रासादस्य विस्तारं यत्तद्दण्डमिहोच्यते ।
मूलहर्म्यं समारभ्य षडष्टदण्डमानतः ॥ १९ ॥
दशद्वादशदण्डो वा मनुदण्डावसानकम् ।
षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् ॥ २० ॥
अथवान्यप्रकारेण पीठस्थानं विधीयते ।
तृतीय साले चतुष्पञ्चसाले चैव तु मध्यमे ॥ २१ ॥
महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते ।
मूलधामस्य द्वारोच्चम् उत्तमं पीठविस्तृतम् ॥ २२ ॥
त्रिपादं मध्यमं प्रोक्तं द्वारतुङ्गार्धकन्यसम् ।
शुद्धद्वारस्य विस्तारम् अधमं पीठविस्तृतम् ॥ २३ ॥
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ।
तद्विस्तारसमं तुङ्गं कृत्वा चैवाष्टविंशति ॥ २४ ॥
उपानोच्चं द्विभागं स्यात् षडंशं जगतिर्भवेत् ।
कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते ॥ २५ ॥
वेदांशं कर्णमानं तु ऊर्ध्वकम्पं शिवांशकम् ।
महापट्टी गुणांशं तु द्विभागं वा विशेषतः ॥ २६ ॥
वेदांशं पद्मतुङ्गं तु महापट्टी द्विभागया ।
उपानोच्चं शिवांशेन द्विभागं कर्णिकोदयम् ॥ २७ ॥
अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पञ्चभागं तु महापट्टी द्विभागया ॥ २८ ॥
उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।
अथवा पीठोदयं विप्र धरातलं यथा कुरु ॥ २९ ॥
तदूर्ध्व पद्ममानं तु पीठोच्चे न्यंशमुच्यते ।
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् ॥ ३० ॥
पद्मतारे युगांशं वा भूतांशं कर्णिकायतम् ।
पीठागारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा ॥ ३१ ॥
कलाश्रं वाथ कर्तव्यं तद्द्व्यया मण्डलाम्बुजम् ।
लोहजं शैलजं वाथ इष्टकामयमेव वा ॥ ३२ ॥
सुधया वेष्टकागर्भं नानाचित्रैर्विचित्रितम् ।
भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् ॥ ३३ ॥
नानावर्णैर्विचित्रं यत् भूषयेद्धेमराजतैः ।
पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा ॥ ३४ ॥
अंशमस्योपपीठोच्चम् उपपीठोक्तवत् कुरु ।
तदूर्ध्वे तु महापीठम् उक्तवस्योदयान्वितम् ॥ ३५ ॥
उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! ।
आमोदं प्राग्दले चैव प्रमोदो याम्यदिग्दले ॥ ३६ ॥
प्रमुखः पश्चिमे चैव उत्तरे विमुखस्तथा ।
अविघ्नस्त्वीशदिग्भागे विघ्नकर्तारमानले ॥ ३७ ॥
सात्विकं नैर्-ऋते भागे राजसं वायुकोणके ।
तामसं कर्णिकामध्ये नीलरुद्रस्वरूपकम् ॥ ३८ ॥
भूम्यन्तरिक्ष स्वर्गं च सर्वभूतगुणात्मकम् ।
तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! ॥ ३९ ॥
पश्चिमाभिमुखे हर्म्ये किञ्चिद्भेदं वदाम्यहम् ।
वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् ॥ ४० ॥
वारुणे तु महापीठं शेषं पूर्ववदाचरेत् ।
परिवारविधिः प्रोक्तः पश्चाल्लिङ्गस्य लक्षणम् ॥ ४१ ॥
क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् ।
चम्पका देवदारुश्च स्तवका जाति बिल्वकम् ॥ ४२ ॥
अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् ।
प्रासादस्य समं वापि प्रासादग्रीवमेव वा ॥ ४३ ॥
वृषस्थल समं वापि गोपुरोत्सेधमेव वा ।
द्वितल त्रितलान्तं वा दण्डस्योत्सेधमुच्यते ॥ ४४ ॥
पूगनालिकतालं च चम्पकं बिल्वचन्दनम् ।
अश्वत्थं खादिरं चैव न्यग्रोर्धसार तिन्त्रिणी ॥ ४५ ॥
पलाशं नृपसारं च बिल्वसारं तथैव च ।
मधूकसारवृक्षं च ध्वजदण्डमिहोच्यते ॥ ४६ ॥
वृषस्थलावसानान्तं ग्रीवान्तं गोपुरान्तकम् ।
दण्डमानमिति प्रोक्तं ध्वजदण्डमिहोच्यते ॥ ४७ ॥
बलिपीठं तु तन्मानम् उच्छ्रयं कर्णिकासमम् ।
गेहगोपुरयोर्मध्ये बलिपीठं तु विन्यसेत् ॥ ४८ ॥
वाहनं बलिपीठं तु ध्वजपीठं तु विन्यसेत् ।
महत्यल्पं च द्विविधं ध्वजमुत्तुङ्गमिष्यते ॥ ४९ ॥
क्षुद्रं प्रासादमुत्सेधं ध्वजदण्डमिति स्मृतम् ।
स्तूप्यन्तं शिखरान्तं च नासिकान्तं गलान्तकम् ॥ ५० ॥
प्रस्तरान्तसमुत्सेधम् उपदण्डं द्विहस्तकम् ।
हस्तार्धपादहीनं तु एकहस्तावसानकम् ॥ ५१ ॥
एवं दीर्घविधि प्रोक्तम् अयदूर्ध्वं तु पद्मकम् ।
मूलप्रासादविस्तारं तत्समं वा त्रिपादकम् ॥ ५२ ॥
ध्वजदण्डोच्छ्रयं प्रोक्तं मानमार्गमितीष्यते ।
गोपुरात्पूर्वा परान्तं तु प्रासादसममेव वा ॥ ५३ ॥
पैशाच पीठं न्यस्ताध धामार्ध त्रिपदांशकम् ।
हस्त त्रिपञ्चसप्ताभि नवहस्तान्तमेव वा ॥ ५४ ॥
उच्छ्रयेति दशा सप्त पद्मत्रयंशं तु गजासरा ।
एकांशं पद्मतुङ्गं तु कम्पमंशांशमम्बुजम् ॥ ५५ ॥
कुमुदं त्रिभागमेवं तु ऊर्ध्वपद्मं शिवांशकम् ।
मधोकम्पपद्मांशं प्रोक्तं वेदांशं कण्ठमुच्यते ॥ ५६ ॥
कम्पभागेन कर्तव्यं पद्मांशं पट्टिका गुणम् ।
एकपत्रपद्ममधा कम्पमंशं मथकर्णिका ॥ ५७ ॥
पञ्चमधोर्ध्वपद्मं तु गुणभागं विधीयते ।
चक्रं वापि त्रिशूलं वा प्रासाद स्यार्धमेव वा ॥ ५८ ॥
पादोनाष्टांशभागेन आयुधस्य समुच्छ्रयम् ।
एकादि नवहस्तान्तं माननिर्णयमिष्यते ॥ ५९ ॥
एवं तु परिवाराणि प्रोक्तानि शास्त्रपारग ।
नन्दाष्टपङ्क्त्याष्ट नव विंशदष्टा-
कुम्भे च मूर्ध्नि गलप्रस्तरान्तम् ।
पादोन पादादि अधस्तूपिकान्तं
नारायण्यमेकभूमं प्रधानम् ॥ ६० ॥
यानकं स्थानकं शयनमासनं च चतुर्विधम् ।
आर्षकं स्थानकं चैव स्वायम्भुवमथासनम् ॥ ६१ ॥
मानुषं राक्षसं बाणं गाणवं शयनं भवेत् ।
देविकं यानकं प्रोक्तम् एवं लक्षणमुच्यते ॥ ६२ ॥
चतुरश्रं स्थानकं प्रोक्तम् आसनं तु सुवृत्तकम् ।
यानकं त्वश्रमेवोक्तम् अष्टाश्रं शयनं भवेत् ॥ ६३ ॥
पीठाकृतितताश्चैव एवं लक्षणमुच्यते ।
वृत्तपीठस्थिता गौरी भद्रपीठं तु चासनम् ॥ ६४ ॥
शयनं पद्मपीठा च बलिपीठाधिपीशक्तिमिहोच्यते ।
आमोदश्च प्रमोदश्च प्रमुखो विमुखस्तथा ॥ ६५ ॥
अविघ्नो विघ्नकर्तारो बलिपीठाधिदेवताः ।
विस्तारस्तम्भतो बाह्ये जन्मात् स्तूप्यन्तमुन्नतम् ॥ ६६ ॥
अथवा शिखरान्तं स्यात् विमानानां समुन्नतम् ।
बलिदेवताः ॥
दैविकं तु भवादीनाम् इन्द्रादीनां तु मानुषम् ॥ ६७ ॥
भूतादीनां स्वयं भूतम् आर्षकं परिवारकम् ।
वसूनां बाणलिङ्गे तु विद्येशानां तु दैविकम् ॥ ६८ ॥
यक्षादि राक्षसा लिङ्गं बलिदेवाः प्रकीर्तिताः ।
भवश्शर्वस्तथेशानः पशुपतिर्नीललोहितः ॥ ६९ ॥
उग्रो भीमो महा देवो इत्यष्टौ मूर्तयस्तथा ।
पीतं च कुङ्कुमं कृष्णम् अरुणं भिन्नाञ्जनप्रभम् ॥ ७० ॥
नीलं श्वेतं तथा रक्तम् अष्टमूर्तेश्च वर्णकम् ।
अभयवरदाः सर्वे पाशाङ्कुश चतुर्भुजाः ॥ ७१ ॥
त्रिणेत्रास्त्वेकवक्त्राश्च द्विपादाश्चैव नूपुराः ।
जटामकुटसंयुक्ता मूर्तिरूपाः प्रकीर्तिताः ॥ ७२ ॥
सालास्सालान्तरे मध्ये ध्वजस्थानं विधीयते ।
अथवा दण्डमानेन मूलं प्रासादमारभेत् ॥ ७३ ॥
द्वित्रिदण्डविवृद्ध्या तु पञ्चसप्तनवान्तकम् ।
रुद्रत्रयोदशान्तं वा दशपञ्चसुसप्तकम् ॥ ७४ ॥
एकोनविंशतिश्चैव दण्डमानं प्रकीर्तितम् ।
पञ्चभागद्विभागं तु सप्तभागे त्रिभागिकम् ॥ ७५ ॥
नवभागे चतुर्भागं प्राकाराणां विधीयते ।
पूर्वं शून्यविशालं चेत् यथाशोभं यथा रुचि ॥ ७६ ॥
एवं तु बहुधा प्रोक्तं कल्पयेत् तु यथारुचि ।
अन्तर्मण्डल सालादिमध्यगोपुरमध्यतः ॥ ७७ ॥
नवपञ्चैकदण्डोऽपि वसुदिक्षु चतसृषु ।
प्रधान स्वग्रदेशस्था ध्वजं तत्सङ्ख्यया मताः ॥ ७८ ॥
॥ शुभमस्तु ॥
पीठरन्ध्रे भगाकारं योनिमध्ये सलक्षणम् ।
ऊर्ध्वाग्रं तत्प्रकर्तव्यम् अथवा रन्ध्रमुच्यते ॥ ७९ ॥
भगाकारं कृताख्याता योनि मध्ये क्रमोध्वयुक् ।
बाणरत्नादिकं चैव देवी पीठस्य लक्षणम् ॥ ८० ॥
रन्ध्रमध्ये भगाकारम् ऊर्ध्वाग्रं लक्ष्मपीठकम् ।
रन्ध्रस्यैव द्विभागेन तन्मूले भ्रमरे लिखेत् ॥ ८१ ॥
पीठोदयकलांशं तु एकांशं रत्नमेव च ।
दशांशं सिकतैर्युक्तं पञ्चांशं बन्धयेत् क्रमात् ॥ ८२ ॥
पूजांश षोडशांशैकम् उत्सेधं तु विधीयते ।
तन्मानं पदविस्तारम् अष्टबन्धं तथोच्यते ॥ ८३ ॥
भिन्ने घटे यथाकाशे तथाकाशे प्रलीयते ।
जीर्णबेरं तु न त्याज्यं पूजितं निष्फलं भवेत् ॥ ८४ ॥
न दर्शनं न सेवा च नार्चनं नाभिवन्दितम् ।
मोहेन पूजनं कुर्यात् तत्कर्ता मरणं व्रजेत् ॥ ८५ ॥
देवे जीर्णे पुनः सृष्टे देव्या प्राच्या पति स्थितः ।
ताभिरेव पुनर्देव्या योज्यानन्य सृजेत् पुनः ॥ ८६ ॥
नोद्वाहं च न कर्तव्यं सन्तदेवासु पूजयेत् ।
लिङ्गे जीर्णे पुनः सृष्टे योगे प्राच्या पतिस्थितः ॥ ८७ ॥
भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ।
नोद्वाहं च कर्तव्यं सन्तदेवासु पूजने ॥ ८८ ॥
लिङ्गस्य जीर्णिते सत्ति लिङ्गमात्रं परित्यजेत् ।
पीठस्य जीर्णिते सत्ति पीठमात्रं परित्यजेत् ॥ ८९ ॥
लिङ्गपिण्डिसमं जीर्णं लिङ्गपीठं परित्यजेत् ।
भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ॥ ९० ॥
लिङ्गं चतुर्विधं ज्ञात्वा स्थावरं शास्त्रचोदितम् ।
दैविकं चार्षकं चैव गाणवं मानुषं तथा ॥ ९१ ॥
चतुर्विधेषु भेदेषु दैविकं लक्षणं शृणु ।
दैविकलिङ्गम् ॥
दीर्घाकारं भवेल्लिङ्गं निम्नोन्नतसमन्वितम् ॥ ९२ ॥
रेखाकोटर संयुक्तं मुखे तारायतोन्नतम् ।
पार्वताग्राकृतिं लिङ्गं वह्वग्रं त्वग्रतः शिखा ॥ ९३ ॥
कराभ्यां सम्पुटाकारं ब्रह्मसूत्रविवर्जितम् ।
इत्येतैर्लक्षणैर्युक्तं लिङ्गं दैविकमुच्यते ॥ ९४ ॥
आर्षलिङ्गम् ॥
मूलस्थूलं भवेल्लिङ्गम् अग्रमूलं तथैव च ।
मध्यस्थूलं तु लिङ्गानां नालिकेरफलाकृति ॥ ९५ ॥
कदलीफलाकृति श्रीबिल्वस्यैव फलाकृतिः ।
लिङ्गमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् ॥ ९६ ॥
गाणवलिङ्गम् ॥
कूष्माण्डस्य फलाकारं मातुलुङ्गफलाकृति ।
उर्वारुकफलाकारं कपित्थस्य फलाकृति ॥ ९७ ॥
तालफलवदाकारं गाणवं लिङ्गमुच्यते ।
मानुष लिङ्गम् ॥
द्वारं वा गर्भमानं वा हस्तमानमथापि वा ॥ ९८ ॥
शिल्पशास्त्रोक्तमानं वा छत्राकारशिरोन्नतम् ।
एकवर्णं सुसंस्निग्धं ब्रह्मसूत्रसमन्वितम् ॥ ९९ ॥
इत्येतैर्लक्षणैर्युक्तं लिङ्गं मानुषमुच्यते ।
अथ वक्ष्ये विशेषेण शिवरात्रिं सुपूजयेत् ॥ १०० ॥
कृतत्रेतायुगे चैव द्वापरे च कलौ युगे ।
युगे युगे तु सम्पूज्य कृतायां तु गुहो यजेत् ॥ १०१ ॥
त्रेतायां विघ्नराजेन द्वापरे चाच्युतो यजेत् ।
ब्रह्मेन्द्र ऋषिभिश्चैव कलौ सम्पूजितो हरः ॥ १०२ ॥
माघकृष्णचतुर्दश्यां फाल्गुने च द्वितीयके ।
चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपञ्चमी ॥ १०३ ॥
ज्येष्ठे शुक्लतृतीये च आषाढे चाष्टमी यजेत् ।
द्वादश्यां श्रावणे चैव पूर्वाषाढे तु पञ्चमी ॥ १०४ ॥
तुलायां सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिकाम् ।
द्वादश्याभार्द्रमासे तु पुष्यमासे तु सप्तमी ॥ १०५ ॥
एवं संवत्सरे पूज्यशिवरात्र्युपवासके ।
माघमासे चतुर्दश्यां तत्फलं शिवरात्रिकम् ॥ १०६ ॥
एकमासे द्विपक्षे तु रात्राधिक्य तिथिर्वरम् ।
शिवं सम्पूज्य तद्रात्रौ तत्फलं लभते नरः ॥ १०७ ॥
पक्षाक्षं सममेवं स्यात् पूर्वरात्रौ शिवं यजेत् ।
तस्मात् सर्वप्रयत्नेन सर्वरात्रौ विशेषतः ॥ १०८ ॥
रात्रावधिकपक्षे तु शिवपूजा विधीयते ।
तद्रात्रौ शिवरात्रिः स्याद्देवसान्निध्यमेव च ॥ १०९ ॥
शर्वरी पक्षहीनं तु सा दोषाबहुलास्तथा ।
तस्मात् सर्वप्रयत्नेन सर्वमासं क्रमेण तु ॥ ११० ॥
नित्यसिध्यवसने तु शिवरात्रिं समाचरेत् ।
यामं प्रतिविशेषेण शिवपूजां विशेषतः ॥ ११ ॥
न वाहे चैव सप्ताहे पञ्चाहे वाङ्कुरार्पणम् ।
अङ्कुराण्यर्पयेत् पश्चात् पूर्वोक्त विधिना सह ॥ ११२ ॥
तद्दिनस्य तु पूर्वे तु मण्डपं शोधयेत्ततः ।
पञ्चगव्येन सम्पूज्य कौतुकं बन्धयेत् ततः ॥ ११३ ॥
बिल्वपत्रं तु सम्पूज्य सर्वगन्धसमन्वितम् ।
वस्त्रेण वेष्टयेद्धीमान् बिलपत्राधिवासनम् ॥ ११४ ॥
प्रभाते विमले धीमान् देशिकः स्नानमाचरेत् ।
पूर्वाह्ने तर्पणं चैव मध्याह्ने तु प्रदक्षिणम् ॥ ११५ ॥
सायाह्ने पूजनं कृत्वाप्येवमेवं व्रतं चरेत् ।
ब्रह्मक्षत्त्रिय विट्छूद्रा उपवाससमन्विताः ॥ ११६ ॥
द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि ।
सर्वासां चैव नारीणाम् उपवासं तथैव च ॥ ११७ ॥
न निद्रानं प्रयत्नेन सर्वकार्याणि साधयेत् ।
यत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च ॥ ११८ ॥
आयुष्यकं च सिद्धिं च सर्वमोक्षं तथैव च ।
अमङ्गल्योपवासी च पुनर्जन्म सुमङ्गली ॥ ११९ ॥
अपत्नीकोपवासी च पुनः पत्नी समन्वितः ।
इष्टकाम्यफलं काम्यं शिवरात्र्युपवासके ॥ १२० ॥
निद्रायां तु फलं हीनं निद्राहीनं तु तत्फलम् ।
तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् ॥ १२१ ॥
ऋग्यजुस्सामवेदानां चतुर्भिः प्रतियामके ।
ब्राह्मणैर्मुनिभिस्सार्धं देशिकस्सम्प्रपूजयेत् ॥ १२ ॥
विघ्नेशं पूजयेत् पूर्वं सौरपूजामतः परम् ।
शालिभिः स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः ॥ १२॥
पूर्वे तु पञ्चगव्यं स्यात् पञ्चामृतं द्वितीयके ।
तृतीये स्नानमाप्यं तु इक्षुसारं चतुर्थके ॥ १२४ ॥
यामं प्रतिविशेषेण पूजयेद्देशिकोत्तमः ।
पूर्वे तु स्नपनं प्रोक्तम् अष्टोत्तरशतं भवेत् ॥ १२५ ॥
द्वितीये स्नपनं प्रोक्तं पञ्चाशत्कलशं भवेत् ।
तृतीये स्नपनं चैव पञ्चविंशति सङ्ख्यया ॥ १२६ ॥
चतुर्थे स्नपनं चैव नवकुम्भेन पूजयेत् ।
यामं प्रति विशेषेण स्नपनं कारयेद्बुधः ॥ १२७ ॥
पूर्वयामे तु संस्थाप्य बिल्वपत्रैस्समर्चयेत् ।
द्वितीये पद्मपुष्पैश्च तृतीये जातिपुष्पकैः ॥ १२८ ॥
नन्द्यावर्तैश्च सम्पूज्य चतुर्यामं तु पूजयेत् ।
चतुस्सन्ध्यार्चनं कुर्यात् बिल्वपत्रैस्समन्वितम् ॥ १२९ ॥
मुद्गान्नं प्रथमे चैव द्वितीये पायसान्नकम् ।
तृतीये कृसरान्नं स्यात् शुद्धान्नं स्याच्चतुर्थके ॥ १३० ॥
यामं प्रतिविशेषेण क्षेत्रपालं समर्चयेत् ।
यामं प्रतिविशेषेण बलिहोमं समाचरेत् ॥ १३१ ॥
देशिकं पूजयेत्तत्र वस्त्र हेमाङ्गुलीयकैः ।
एवं सम्पूज्य विधिवत् शिवलोके महीयते ।
---------------------------------
सूर्येन्दु वह्निमय भास्वर दीप्य पीठां
स्वेच्छा गृहीत सृणिपाशशरेक्षु चापाम् ।
बालेन्दु मौलिमलकाभरणां त्रिणेत्रां
नित्यं नमामि मनसा महनीयकीर्तितम् ॥ १३३ ॥
पृथ्वी गृहं सुरदलाम्बुजमष्टपत्रं
लोकाश्रकं द्विदशकोणमथाष्टकोणम् ।
अन्तस्त्रिकोणमदि मध्यममादि पीठं
तत्सर्वमम्ब तव रूपमनुस्मरामि ॥ १३४ ॥
बालार्क मण्डलाभासं चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवाम्भजे ॥
(शुभमस्तु)