९६

अथ वक्ष्ये विशेषेणं जीर्णोद्धारविधिं परम् ।
जीर्णदेहं त्यजेद्देही तदन्यं परिपठ्यते ॥ १ ॥

तदा तज्जीर्णदेहं तु असुरादि गुणाश्रिताः ।
तस्माच्छीघ्रं प्रयत्नेन जीर्णोद्धारं समाचरेत् ॥ २ ॥

लिङ्ग वा प्रतिमाहर्म्यं मण्टपं गोपुरं तु वा ।
प्रकारं परिवारं वा जीर्णास्ते तु स लक्षणम् ॥ ३ ॥

तेन द्रव्येण चोत्कृष्टैः पूर्ववत्परिकल्पयेत् ।
पञ्जरं कूटकोष्ठं वा महानास्यल्पमेव वा ॥ ४ ॥

धरातलाङ्घ्रिवस्तूपी वेदीजालकतोरणम् ।
यदङ्गं तेषु विच्छिन्नं तदङ्गं प्राग्वदाचरेत् ॥ ५ ॥

उपानादौ च सदने भिन्ने छिन्ने तु पातके ।
तांस्त्यक्त्वाद्येष्टकादीनि प्रथमारम्भवत्कुरु ॥ ६ ॥

मानादिष्वधिकं हीनं कर्तव्यं तत्सलक्षणैः ।
मोहाद्धीने तु वाधिक्ये कर्तुर्वित्तायुषक्षयम् ॥ ७ ॥

राष्ट्रक्षोभं सदाप्येते नृपतेर्मृत्युमाचरेत् ।
तस्मात्सर्वप्रयतेन सदनं प्राग्वदाचरेत् ॥ ८ ॥

जीर्णावस्थौ तु मानं तद् अनुक्तमार्गेण चाश्रितौ ।
पुनश्शास्त्रोक्तमार्गेणाधिक मानादिभिर्युतम् ॥ ९ ॥

कर्तव्यं विजयायुष्यं नृपतेर्नित्यमावहेत् ।
पूर्वमानादिषु क्षीणं पुनः कर्म न कारयेत् ॥ १० ॥

अति मोहेन कुर्वीत सर्वदोषास्पदं भवेत् ।
परिवारालयं पीठं प्राकारं गोपुरं तथा ॥ ११ ॥

प्रतिमामण्टपादीनि मण्टपाश्च सभास्तथा ।
पुरा सुमाननीयापि पुनः कर्माधिकं शुभम् ॥ १२ ॥

सोक्तस्थाने गते वापि पुनर्बाह्यगतं शुभम् ।
प्राग्वच्च सुदृढं कृत्वा सम्प्रोक्षणमथाचरेत् ॥ १३ ॥

लोहजानां तु बिम्बानाम् अङ्गहीनं तु सम्भवे ।
तदङ्गं पूर्ववत्कृत्वा स्थापनं सम्यगाचरेत् ॥ १४ ॥

हिक्कादूर्ध्वे तु विच्छिन्ने त्यक्त्वान्यं परिपठ्यते ।
नलकादिषु विच्छिन्ने पादयोर्हस्तयोऽस्तु वा ॥ १५ ॥

तेनैव जीर्णलोहेन पूर्ववद्बिम्बमाचरेत् ।
अब्दत्रयं तु तल्लोहं खात्वा भूमौ विशेषतः ॥ १६ ॥

पश्चादग्नौ द्रुतं कृत्वा पुनर्बिम्बं समाचरेत् ।
मृण्मये वर्णहीने तु पुनः कृत्वा तु पूर्ववत् ॥ १७ ॥

कल्करज्जु मृदो वापि भिन्नच्छिन्नादि सम्भवेत् ।
तत्तदङ्गं पुनः कार्यं शूलं चैव तथैव हि ॥ १८ ॥

दारुशूलेष्टका वापि शूलदोषविहीनकम् ।
तदेव सङ्गृहेद्धीमान् दोषाढ्यं परिवर्जयेत् ॥ १९ ॥

लिङ्गे पीठेश्रहीने तु सूत्रहीने तु वा लिखेत् ।
व्यपोह्य लिङ्गपीठं च स्थापयेत् पूर्ववद्बुधः ॥ २० ॥

जीर्णलिङ्गं च पीठं च बिम्बं वै सागरे न्यसेत् ।
आर्षे च पौरुषे वापि पूर्वमेवा कृतालये ॥ २१ ॥

पश्चात्कृतं शिवं हर्म्यं पूर्वद्रव्यैर्नवाधिकम् ।
कल्पयेत्पञ्चसालानां बाह्ये बाह्यन्तरेऽपि वा ॥ २२ ॥

मूलवस्तु समं चैवाधिकालयं विशेषतः ।
महामर्यादि सालस्या भ्यन्तरे तु न कारयेत् ॥ २३ ॥

क्षीणालयं प्रकर्तव्यं बाह्ये त्रित्रिगुणानु वा ।
महामर्यादि बाह्ये तु गत्वालयं प्रकल्पयेत् ॥ २४ ॥

उत्तमान्तरमाख्यातम् एवमेवं प्रकल्पितम् ।
मर्यादेर्महाशायां बाह्ये वा प्राग्वदन्तरम् ॥ २५ ॥

नीत्वा तु नाशनं कर्तृप्रजानाशं महाव्याधिं विशेषतः ।
कलहंसस्य नाशं च सिध्यते नात्र संशयः ॥ २६ ॥

परितः शेष देवानां भागेषु शिवमन्दिरम् ।
कर्तव्यं विजयायुष्यं पुत्रपौत्रादिवर्धनम् ॥ २७ ॥

यत्रैव कल्पितं हर्म्यं पूर्वे परिपश्चिमाननम् ।
मूलवस्तु समीक्ष्यैवं कल्पयेत्कल्पवित्तमः ॥ २८ ॥

मध्योत्तमान्तरे विप्र ! परिवारसमन्वितम् ।
परिवारविहीनं तु कल्पितं कन्यसान्तरम् ॥ २९ ॥

एवमेवान्य देवानाम् आलये विप्र कल्पयेत् ।
मूलगेहेर्चितं देवं चान्यं वा तत्र पूजयेत् ॥ ३० ॥

पौषाच्चदार्षकं श्रेष्ठम् आर्षाद्वैगाणवं वरम् ।
गाणवाद्देविकं श्रेष्ठं तस्मात्स्वायम्भुवं वरम् ॥ ३१ ॥

क्षेत्रहर्म्यं समाख्यातं कोटिवृद्ध्युत्तरं फलम् ।
फलार्थिभिः कल्पितं तदनुकर्म द्विजोत्तम ! ॥ ३२ ॥

इत्यंशुमान्काश्यपे जीर्णोद्धारपटलः (षण्णवतितमः) ॥ ९६ ॥