अथ वक्ष्ये विशेषेण प्रतिमानां तु लक्षणम् ।
प्रकारं पापनाशं स्यात् तिकारं शान्तिकं विदुः ॥ १ ॥
मकारं पुत्रवृद्धिं स्यात् नकारं पुण्यदं भवेत् ।
मूलबेरस्य मानं तु आलयांशेन कारयेत् ॥ २ ॥
आलयांशविभागेन ज। * न्मांशकेन च ।
द्व्यंशेनैव कर्तव्यं प्रतिमानां तु कारयेत् ॥ ३ ॥
मूलबेरस्य सार्धं वात्त्रिभागं वा द्विभागकम् ।
अर्धांशेनोत्तमं विद्यात् तृतीयांशन्तु मध्यमम् ॥ ४ ॥
तुरीयांशं च भागेन त्वधमं च प्रकीर्तितम् ।
उत्तमं मध्यमं वाप्य धमं वाथ कन्यसम् ॥ ५ ॥
बेरमानं च कर्तव्यं प्रतिमानां तु लक्षणम् ।
युक्तायुक्तं विचार्याथ प्रतिमानां च कारयेत् ॥ ६ ॥
बेरमानविधिः
शिलाग्रहणविधिः
अन्तर्गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिताः ।
लक्षितेषां लेपयेत् * * * * * * * * * ।
ब्रह्माणं वज्रपाणिं च शूलपाणिं च वैष्णवम् ॥ १ ॥
अजक्षीरेण संयोज्य उपलं लेपयेत्तदा ।
लेपिते यत्क्लिन्नं स्यात् एकरात्रोषिते तथा ॥ २ ॥
स गर्भान्तर्विजानीयात् सितागोसासुवृश्चिकम् ।
श * * * कृष्णजीर्णे तु * * * * * * ।
कासीसं पीतलोध्रं च गोक्षीरेण तु षेषयेत् ॥ ३ ॥
लेपिते तु शिलां तेन रुधिराभा यदा भवेत् ।
दिवसैस्सक्थुभिश्चैव एकरात्रोषितं तथा ॥ ४ ॥
तद्दशस्तत्रिविज्ञेया कूर्मेवाथ न संशयः ।
पृथ्वीत्रशूलिनी ब्राह्मं महीं क्षीरं च षेषितम् ॥ ५ ॥
लेपिते तु शिलान्तेन रुधिराभयदा भवेत् ।
कृष्णमनो भवेत्तत्र कृकलासमथापि वा ॥ ६ ॥
मत्तकं करवीरं च कुष्ठमञ्जिफलत्रयम् ।
एतानि श्लिष्णयित्वा तु स्त्रीस्तन्येनैव पोषयेत् ॥ ७ ॥
अश्मानं शक्तमत्रयदि स्यात् ।
कालकूटविषं तत्र न तु हस्तेन संस्पृशेत् ॥ ८ ॥
ग्रहाणां लक्षणं ह्येवं शिलाग्रहणमारभेत् ।
शिला स्थापयित्वा तु भुवं पश्चात् समीपतः ॥ ९ ॥
ततो गुरुः ॥
पञ्चगव्येन सम्प्रोक्ष्य पवमानमुदीरयन् ।
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥ १० ॥
सद्यादि वामभिर्दत्वा शिलायां सम्प्रपूजयेत् ।
ततोऽस्य पूर्वभागे तु होमकर्म समारभेत् ॥ ११ ॥
पञ्चांशं लिङ्गविष्कम्भं चतुरश्री कृते तु तत् ।
तत्कर्णद्विगुणांशं वा द्विगुणं वार्धमेव वा ॥ १ ॥
पीठव्यासमिति ख्यातं तेन तत्त्रिचतुर्गुणम् ।
गर्भगेहस्य विस्तारं कुड्यं गर्भसमं तु वा ॥ २ ॥
त्रिभागं वाग्निभागेशं गर्भगेहार्धमेव वा ।
अग्निव्यासमिति ख्यातं प्राग्वत् * * तु शक्तिकात् ॥ ३ ॥
रुद्रांशं नाहसदृशं पीठतारमुदाहृतम् ।
तेन द्वित्रिचतुर्गुण्यं गर्भगेहस्य विस्तरम् ॥ ४ ॥
नालीगृहं तु सङ्कुण्ड्य तारं त्रिपादमेव वा ।
पूर्ववद्भित्तिकाख्यातं नाहं रुद्रांशकस्य तु ॥ ५ ॥
चतुरश्रीकृते कर्णं पीठव्यासमुदाहृतम् ।
तेनैव द्विगुणांशं वा त्रिगुणं वा चतुर्गुणम् ॥ ६ ॥
गर्भगेहविशालं स्यात् तस्यार्धं कुड्यविस्तृतम् ।
पञ्चभागैकभागं वा अग्न्यंशेंशमथापि वा ॥ ७ ॥
चतुर्भागैकभागं वा तुङ्गं प्रागिव कल्पयेत् ।
पूजांशोच्चे युगाश्रं तु द्विगुणे वा युगाश्रके ॥ ८ ॥
कर्णं पीठविशालं स्यात्तेन द्वित्रिचतुर्गुणम् ।
पञ्चाङ्गुणं तु वा गर्भगेह व्यासमुदाहृतम् ॥ ९ ॥
त्रिचतुष्पञ्च षड्भागेकांशं कुड्यविशालकम् ।
शान्तिकाभ्युदयं ख्यातं पूर्ववद्द्विजसत्तम ! ॥ १० ॥
रुद्रांशतारद्विगुणं चतुरश्री कृते सति ।
कर्णपीठततं ख्यातं तद्द्वयं गर्भविस्तृतम् ॥ ११ ॥
त्रयं वा विसृतं तस्य चतुर्गुणमथापि वा ।
त्रिचतुष्पञ्च भागेंशं कुड्यस्य व्यासमुच्यते ॥ १२ ॥
पूजांशस्य परीणाहे द्विरष्टांशं विभाजिते ।
मञ्चांशं चतुरश्राभे कर्णपीठ विशालकम् ॥ १३ ॥
तेनैव द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ।
नालिगेहं विशालं स्यात् तदर्धं कुड्यविस्तृतम् ॥ १४ ॥
चतुर्भागैकभागं वा वस्वंशेंशमथापि वा ।
अग्निभागैकभागं वा गर्भकुड्यं तु पूर्ववत् ॥ १५ ॥
लिङ्गविष्कम्भकर्णं तु चतुरश्री कृते बुधः ।
तत्कर्णं तु दशांशेन पिण्डिका व्यासमुच्यते ॥ १६ ॥
तेन द्वित्रिगुणं वापि चतुष्पञ्चगुणं तु वा ।
नालीगृहविशालं स्यात् तस्यार्धं भित्ति विस्तृतम् ॥ १७ ॥
त्रिचतुष्पञ्च षट्सप्तभागैकांशं तु भावयेत् ।
कुट्टिमस्य विशालं तु तुङ्गं पूर्ववदेव हि ॥ १८ ॥
लिङ्गविष्कम्भत्रिगुणं पीठ व्यासमुदाहृतम् ।
तेन द्वित्रिगुणं वापि नालीगेहविशालकम् ॥ १९ ॥
तदर्धं त्रिचतुर्भागं भागं वा कुड्यविस्तृतम् ।
शान्तिकाभ्युदयं प्राग्वत् कर्तव्यं हि विशेषतः ॥ २० ॥
विष्कम्भे चतुरश्रे तु कर्णमध्यर्धमेव वा ।
द्विगुणं द्विगुणार्धं वा त्रिगुणं पिण्डिका ततः ॥ २१ ॥
तेन द्वित्रिचतुष्पञ्च गुणं वा गर्भगेहकम् ।
पीठव्याससमं सार्धद्विगुणं द्विगुणार्धकम् ॥ २० ॥
कुड्यव्यासमिति ख्यातं तुङ्गं पूर्वतदेव हि ।
पूजांशस्यैव द्विगुणं पीठ व्यासमुदाहृतम् ॥ २३ ॥
तेन द्वित्रिचतुष्पञ्च गुणं वा नालिगेहकम् ।
तदर्धं त्रिपादमग्न्यंशं भित्तिव्यासमुदाहृतम् ॥ २४ ॥
शान्तिकाभ्युदयं प्राग्वत् कल्पयेद्देशिकोत्तमः ।
हीने हीनप्रमाणेषु द्वन्तरेष्टविभाजिते ॥ २५ ॥
प्रत्येकं नवधा पीठ व्यासन्नालीगृहं तथा ।
कुड्यव्यासं च हर्म्यैश्च कर्तव्यं नवधा द्विज ! ॥ २६ ॥
एकानेकतलं वापि कूटकोष्ठादिसंयुतम् ।
साधारं वा निराधारं प्रागुक्त विधिना कुरु ॥ २७ ॥
एवं स्वायम्भुवानां च लिङ्गानां बाणसञ्ज्ञताः ।
रत्नलोहजलिङ्गानां पीठनालीगृहायतम् ॥ २८ ॥
कारयेत्तु विशेषेण सर्वलोकहिताय वै ।
स्थूलमूलं शिरः स्थूलं मध्यस्थूलं तु आर्षकम् ॥ २९ ॥
स्थूलदेशे * * नाहं विष्कम्भं चैव सङ्गृहेत् ।
पाषाणं च शिरोमानं विना तुङ्गं तु सङ्गृहेत् ॥ ३० ॥
पौरुषाद्यन्यलिङ्गानां नाहं त्रिस्सप्तधा भजे ।
तेष्वेकांशकलांशेंशं लिङ्गमध्यात्तु दक्षिणे ॥ ३१ ॥
व्यपोह्य निर्मितं सूत्रं गर्भगेहस्य मध्यमम् ।
प्रासादमध्यसूत्रं च द्वारमध्यं तदेव हि ॥ ३२ ॥
नेमयुक्त्यात्र्यक्लत् सूत्रं कल्प्य प्रासादमाचरेत् ।
येन लिङ्गेन यन्मानं निर्मितं सदनस्य तु ॥ ३३ ॥
युग्मं वा युग्महस्तं तु हस्तच्छेदं प्रपूरयेत् ।
यवादि रसमात्रान्तं हीनं वाप्यधिकं तु वा ॥ ३४ ।
गर्भगेहविशालं स्यात् समाश्रमायताश्रकम् ।
स पादं सार्धपादोनद्विगुणं त्रिगुणं तु वा ॥ ३५ ॥
गर्भगेहायतं ख्यातं कुड्यं तदर्धविस्तृतम् ।
त्रिपादं वा त्रिभागैकं शेषं पूर्ववदेव हि ॥ ३६ ॥
नागरे शान्तमूर्तीनां राजसानां तु द्राविडे ।
वेसरे नृत्तमूर्तीनां रौद्राणां यानमूर्तिनाम् ॥ ३७ ॥
क्रमेण सदनं ख्यातं तत्तद्युक्त्या तु कल्पयेत् ।
विपरीतं न कर्तव्यं सर्वोदय फलार्थिभिः ॥ ३८ ॥
इत्यंशुमान्काश्यपे लिङ्गप्रासादपटलः (पञ्चनवतितमः) ॥ ९५ ॥