अथ बेरं ताम्रजं शैलं दारवं वा विधीयते ।
दारवान्मृण्मयं श्रेष्ठं मृण्मयाच्छैलमुत्तमम् ॥ १ ॥
शैलजात्ताम्रजं मुख्यं भवति ध्रुवार्च्चाचेत् ।
ताम्रजं शिलैर्वा कुर्यात् बेरायामं तदर्धायाममुत्तमम् ॥ २ ॥
गुणांशान्मध्यमं द्व्यंशं मध्यमात्तच्छरांशकम् ।
तद्धामविसृतार्धं द्विधा कृत्वा तस्या परार्धं
षड्विंशतिभागं कृत्वा तत् पूर्वार्धमंशेन
सहैकैकसमयोजयेत् । सप्तविंशति तदुत्सेधं भवति । गर्भागारस्य
चतुर्चतुर्भागं त्रिभागं द्विभागं शरांशाद् गुणांशगर्भार्धं
वा । तस्यापरार्धमपूर्ववत् कुर्यात् । पादोत्सेधं द्वारोत्सेधं वा ।
तत्पादहीनमर्धं वा * * वांशो हीनमष्टमांशोनं वा अधिष्ठानस्य
पादमर्धं त्रिपादसमं पादाधिकपादो द्विगुणं वा । तन्मानेन
गुणांश हस्तमानाङ्गुलेन पञ्चविंशत्यङ्गुलाद्यैक
चत्वारिंशदङ्गुलान्तं द्व्यङ्गुलबृद्ध्याङ्गुलि भेदं न तथा भवति ।
यन्मान समन्ताष्टांशं कृत्वा एकद्वित्रि चतुरंशाधिन्नेत्रांस्य
बाहुस्तनान्तमित्येतद् नवधा भवति । एतेष्विष्टमानं विनिश्चित्य
पदादुष्णीषान्तं ध्रुवभेतकारयेत् । तच्चित्रं चित्रार्घं
चित्राभासमिति त्रिविधं भवति । उत्तमं चित्रं मध्यमचित्रमाभासमयं
षण्मानैः सहिअं चित्रनाहार्धसन्दर्शनमर्धचित्रं नाहोन्नतिभ्यां
हीनम् अयत्नदाभासा सा सर्वत्रलोहजं मृण्मयं चित्रमेवार्ध
चित्रमेवार्धचित्रं न कारयेत् । कुर्याच्चेदाभिचारिकं भवति । लोहजं
दारवं चित्रम् अर्धं वा कारयेत् । आभासं पटकुट्यादि लेख्यं बेरे
चित्रर्चनमैहिकामुष्मिकप्रदम् अर्धविचित्रार्चनं वा
केवलामुष्मिकफलप्रदम् आभासेऽर्चनमैहिक फलप्रदं तथाभासं
द्विविधं भवति । अचलमित्यचलभित्तौ लिखितं च । लम्पटे लिखितं
तस्मादचलमेव कारयेत् । दाभासं भित्तौ समुल्लिखितस्तन्नक्षिमोचनं
ध्रुवबेरशुद्धिं च कृत्वा । देवीमानम् । देव्या बाहुस्तनान्तं वा
कण्ठान्तं वा देव्योर्मननम् । मन्योर्विंशशेषिकयोरन्येषां
परिवाराणां च तत्तत्समम् । पादहीनं मध्यपादं वा
तत्तदालयवशाद्वा कारयेत् । ब्रह्माणं शङ्करं च ध्रुवबेरसमं
नवांशोनमष्टांशोनं वा कारयेत् । येन द्रव्येण देवः कृतः तेन
द्रव्येण देव्यादिपरिवान्तं तत्तदालयक्रमेण कारयेत् ।
इति श्री वैखानसे मरीचि प्रोक्त बेरोन्नतकल्पविधि पटलः ॥