अथ वक्ष्ये विशेषेण भूमानं शृणु सुव्रत ! ।
समाश्रमायताश्रं च विषमाग्रं तथैव च ॥ १ ॥
योन्याकारार्धचन्द्रं च त्रिकोणं वृत्तमेव च ।
पञ्चाश्रं च षडश्रं च सप्ताश्रं चाष्टकोणकम् ॥ २ ॥
रुद्रधा कथितं रूपं क्रममानं वदाम्यहम् ।
पूर्वात्पश्चादुदीच्यन्तं मानयेत्सकलस्थलम् ॥ ३ ॥
भुजं हस्तं करं चैव पार्श्वं पर्यायवाचकाः ।
भुजेनैव तु जङ्घोर्ध्वौ घनं वा पादमुच्यते ॥ ४ ॥
समाश्रमेवमाख्यातम् आयताश्रं तथैव च ।
विषमाश्रे विशेषोऽस्ति तं विशेषं शृणुष्वथ ॥ ५ ॥
पूर्वपश्चिमहस्तौ द्वौ संयोज्यार्धं भुजा भवेत् ।
तदल्प्य द्विगुणं कृत्य तन्मानं तु महाभुजाः ॥ ६ ॥
अर्धचन्द्रं समाख्यातं त्रिकोणमधुना शृणु ।
त्रिभुजेष्वेव हस्तं तु मानदण्डेन मानयेत् ॥ ७ ॥
तदर्धं चाल्पहस्तं स्यात् तत्पार्श्वमुत्तमोत्तमम् ।
यवादग्रावसानं तु मानयेत्तन्महाभुजाः ॥ ८ ॥
त्रिकोणमेवमाख्यातं वृत्ताकारमथ शृणु ।
कलांशं विभजेन्नाहं पञ्चांशं तस्य विस्तृतम् ॥ ९ ॥
तत्तारं तु त्रिपञ्चांशं कृत्वा त्यागद्वयं त्यजेत् ।
शेषं द्वयोदशांशं तु वृत्तस्य तु भुजा भवेत् ॥ १० ॥
तदेवाल्पभुजा ख्यातं महाहस्तं च तद्भवेत् ।
वृत्तमेवं समाख्यातं पञ्चाश्रमधुनोच्यते ॥ ११ ॥
पञ्चषट्सप्तकोणानां सममेतदुदाहृतम् ।
क्षेममध्यममारभ्य यावत्पार्श्वस्य मध्यम् ॥ १२ ॥
तन्मानेन हृते वृत्तं वृत्तं च मानयेद्बुधः ।
वृत्तबाह्यगतां चैषां मानयेत्तु त्रिकोणवत् ॥ १३ ॥
पञ्चाश्रमेवमाख्यातम् अष्टाश्रमधुनोच्यते ।
भुजान्तेषु महाशासु प्रागग्रं चोदगग्रकम् ॥ १४ ॥
द्वौ द्वौ सूत्रं न्यसेद्धीमान्वेदाश्रं पञ्चसङ्ख्यका ।
त्रिकोणं च चतुष्कोणं चत्वारस्तं प्रसम्भवा ॥ १५ ॥
तद्वेदाश्रं त्रिकोणं च पूर्ववन्मानयेद्बुधः ।
वस्वश्रमेवमाख्यातं शेषं युक्त्या समाचरेत् ॥ १६ ॥
युगाश्रं पञ्चदण्डेन काकं नीतिरि विद्यते ।
पञ्चमाषं तु पादं स्यात् चतुष्पादं तु पाटिका ॥ १७ ॥
क्रोशं पञ्चदशं दण्डम् अर्धकर्णं तु तद्द्वयम् ।
त्रितयं कर्णमित्युक्तं चतुष्कोणं तु योजयेत् ॥ १८ ॥
एवं भूमानमाख्यातं ग्रामादिरथ वक्ष्यते ॥
इत्यंशुमान्काश्यपे भूमानविधिपटलः (त्रिनवतितमः) ॥ ९३ ॥