अथ वक्ष्ये विशेषेण चण्डेशस्य तु लक्षणम् ।
रुद्रस्यैव तु ऋक्षांशं चण्डेशमभिधीयते ॥ १ ॥
गणेशावरणे त्वीशे पूजितस्तु तथा भवेत् ।
शूलं च परशुं खड्गं वज्रमङ्कुशमेव च ॥ २ ॥
क्षुरिका चाभयं दण्डं दक्षिणेऽष्टायुधं भवेत् ।
खेटकं भिन्दिपालं च पाशं घण्टां तथैव च ॥ ३ ॥
वरदं व्याघ्रहस्तं च सूचिं नागं च वामके ।
जटामकुटसंयुक्तं रौद्रदृष्टिसमन्वितम् ॥ ४ ॥
त्रेतायामष्टहस्तं तु अतिरक्तसमप्रभम् ।
विक्रान्तचण्डनाम्ना तु सुविकीर्णजटान्वितम् ॥ ५ ॥
वाहनं तु हयं विद्यात् किञ्चित् प्रहसिताननम् ।
अभयं शूलपरशुं खड्गं वै दक्षिणे करे ॥ ६ ॥
वरदं खेटकं पाशं घण्टां वामकरोद्धृतम् ।
द्वापरे तु चतुर्दोर्भिः हेमाभं सिंहवाहनम् ॥ ७ ॥
जटामण्डलसंयुक्तं सितयज्ञोपवीतकम् ।
टङ्कं शूलं च दक्षिणे * * * * * * * * ।
पाशाङ्कुशं च वामे तु भद्रपीठोपरिस्थितम् ॥ ९ ॥
द्विभुजं चण्डेशनाम्ना तु प्रोच्यते द्वापरे युगे ।
कलौ तु द्विभुजं शान्तं जटामकुटमण्डितम् ॥ १० ॥
जटामण्डलयुक्तं वा केशबन्धमथापि वा ।
कृष्णाभं वाथ रक्ताभं सौम्यनेत्राननान्वितम् ॥ ११ ॥
आभङ्गं समभङ्गं वा समपात्स्थानकं तु वा ।
भङ्गं चेद्दक्षिणं पादं कुञ्चितं त्वितरं स्थितम् ॥ १२ ॥
अथवा दक्षिणं पादं स्थितमन्यत्तु कुञ्चितम् ।
वीरचण्डेशनाम्ना तु स्थानकं त्वासनं तु वा ॥ १३ ॥
आसीनं चेत्तु वामाङ्घ्रिशाययेदन्यलम्बितम् ।
दक्षिणं शयितं पादं वामलम्बिमथापि वा ॥ १४ ॥
टङ्कं दक्षिणहस्ते तु वरदं वामहस्तके ।
हृदयाञ्जलिहस्तौ वा टकमभ्यन्तरोचितम् ॥ १५ ॥
टङ्कहीनं तु वा पुष्पं मालयाञ्जलिना धृतम् ।
ईषद्दक्षिणपार्श्वे तु लम्बिताननमेव वा ॥ १६ ॥
वाहनं वृषभं ख्यातं श्वेतवस्त्रधरं परम् ।
एवं चतुर्विधं चादिचण्डेशमभिधीयते ॥ १७ ॥
परिवारे तु बिम्बानाम् उक्तमानं विधीयते ।
कन्यसं दशतालेन सर्वाङ्गं परिकल्पयेत् ॥ १८ ॥
चण्डेशलक्षणं प्रोक्तं भूमानमधुनोच्यते ।
इत्यंशुमान्काश्यपे चण्डेश लक्षणपटलः (द्वनवतितमः) ॥ ९२ ॥