व्यत्यस्त पादताण्डेश्वराय नमः ॥
अथ वक्ष्ये विशेषेण लिङ्गोद्भवमतः परम् ।
लिङ्गाकारस्य मध्ये तु चन्द्रशेखरमूर्तिवत् ॥ १ ॥
नलका पादतलं विप्र ! लिङ्गारूढसमन्वितम् ।
ब्रह्मा तु हंसरूपेण ऊर्ध्वगं वामपार्श्वके ॥ २ ॥
विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतम् ।
विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥ ३ ॥
हृदयाञ्जलि संयुक्तौ स्थितौ लिङ्गं समीक्षितौ ।
रक्तश्यामहिरण्याभम् ईशविष्णुपितामहान् ॥ ४ ॥
एवं लिङ्गोद्भवं ख्यातं वृक्षसङ्ग्रहणं तथा ।
इत्यंशुमान्काश्यपे लिङ्गोद्भवमूर्तिलक्षणपटलः (एकाशीतितमः) ॥ ८१ ॥