७८

अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं भवेत् ।
उमा सहितवत्सर्वं वामे किञ्चिन्नताननम् ॥ १ ॥

दक्षिणे त्वभयं वर्ज्यं तद्धस्तं वरदं भवेत् ।
वामे तु कटकं वर्ज्यं न्यस्त्वा चण्डेशमूर्धनि ॥ २ ॥

हृदयाञ्जलिसंयुक्तो चण्डेशो भक्तिसंयुतः ।
आसीनोऽथसुखासीनश्चण्डेशः स्वर्णसन्निभः ॥ ३ ॥

देवी देवेशयोर्मध्ये स्कन्दमूर्तिं विना द्विज ।
चण्डेशानुग्रहं ख्यातं दक्षिणामूर्ति तत्परम् ॥ ४ ॥

इत्यंशुमानकाश्यपे चण्डेशानुग्रहमूर्तिलक्षणपटलः