अथ वक्ष्ये विशेषेण हर्यर्धं तु हरं परम् ।
आर्जवं सुस्थितं देवं स्थानकं समपादकम् ॥ १ ॥
दक्षिणे त्वभयं वामे कटकं ह्यूरुमाश्रितम् ।
परशुं दक्षिणे हस्ते वामे शङ्खायुधं परम् ॥ २ ॥
सव्ये वामे च मुकुटे जटाकीटं प्रकल्पयेत् ।
प्रवालश्यामवर्णं च तद्योग्याभरणान्वितम् ॥ ३ ॥
दक्षिणं तूग्रदृष्टिं स्यात् वामे दृष्ट्याति शीतलम् ।
किञ्चित्प्रकाशितं चोर्ध्वदृष्ट्या चैव ललाटके ॥ ४ ॥
सर्वाभरणसंयुक्तम् उचिताम्बरभूषितम् ।
शिरश्चक्रसमायुक्तं तस्यलक्षणमुच्यते ॥ ५ ॥
रुद्राङ्गुल विशालं तु तद्भान्वंशेन तद्घनम् ।
सुवृत्तं चक्रवद्विप्र ! पद्माकृतिरथापि वा ॥ ६ ॥
शिरश्चक्रविशालं तु सप्तभागैकभागिकम् ।
शिरश्चक्रस्य नालस्य विस्तारं द्विजसत्तम ॥ ७ ॥
चक्रतार त्रिभागैकं चक्रादाशिरसोत्तमम् ।
अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ ८ ॥
गुणाङ्गुले कृकाट्योर्ध्वे चक्रनालस्थितिर्भवेत् ।
चक्राद्गुणाङ्गुलं लम्ब्य पुष्पमाला तु मध्यमात् ॥ ९ ॥
सर्वेषामपि देवानां देवीनां ह्येवमाचरेत् ।
इत्यंशुमान्काश्यपे हर्यर्धमूर्तिलक्षणपटलः (षट्सप्ततितमः) ॥ ७६ ॥