अथ कङ्कालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
पादौ तु पादुकोपेतौ वामपादं तु सुस्थितम् ॥ १ ॥
प्रेक्ष्यधा सव्यपादं तु त्वीषच्चैव समुद्धृतम् ।
शुद्ध श्वेतानिभं वर्णं च सर्वाभरणभूषितम् ॥ २ ॥
रत्नकञ्चुकबद्धाङ्ग जटामकुटमण्डितम् ।
धूर्धूरपुष्पं नागं च वामे सव्येन्दुशेखरम् ॥ ३ ॥
हसितं वक्त्रं सन्धार्य सुगेयगणसेवितम् ।
किञ्चित्प्रकाशितान्तस्थ दर्शनं सुविलासितम् ॥ ४ ॥
गेयशृङ्गारसंयुक्तम् आस्यमेवं प्रकीर्तितम् ।
कर्णौ कुण्डलसंयुक्तौ वामे शाखादलं तु वा ॥ ५ ॥
पूर्वहस्तद्वयोर्वामे ढक्का सव्ये प्रहारकम् ।
दक्षिणं हरिणी वक्त्रे व्याहितं सिंहकर्णवत् ॥ ६ ॥
वामहस्ते तु पिञ्छं च कङ्कालास्थीं च धारयेत् ।
ततस्थ्या कृति निर्माणद्विपादद्विकरान्वितम् ॥ ७ ॥
कृष्णश्यामनिभाकारम् अपाने दण्डवेशनम् ।
दण्डं कङ्कालपादौ द्वौ रज्जुना बन्धयेद्बुधः ॥ ८ ॥
केतुकिङ्किणि नेत्राढ्य निष्कान्तं रुचिरं तु वा ।
एतत्कङ्काल नाम्ना तु वामस्कन्धोपरि न्यसेत् ॥ ९ ॥
अनेकभूतैर्जायाभिः सेवितं त्वादरान्वितैः ।
बलिपात्रधरं भूतं वामाग्रे गमनान्वितम् ॥ १० ॥
दर्व्यात्वनन्तु तत्पात्रे निधाय कृतिजायया ।
किञ्चित्प्रकाशितं योनि संयुक्ता नग्नवाससः ॥ ११ ॥
सम्भ्रान्तमनसोपेताः जायास्सर्वास्त्वनेकशः ।
ललाटवामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ॥ १२ ॥
हन्वन्तस्य तु वामे तु हिक्कामध्ये हृदिस्तथा ।
नाभेस्सव्ये युगाङ्गुल्ये वामपादस्य गुल्फके ॥ १३ ॥
मध्ये तु लम्बयेद् ब्रह्मसूत्रं हीनाधिकं विना ।
आभङ्गस्योक्त मार्गेण नतमानं प्रकल्पयेत् ॥ १४ ॥
व्याघ्रचर्माम्बरोपेतं दूकूलवसनान्वितम् ।
दक्षिणे कटिपार्श्वे तु क्षुरिकाश्चैव बन्धयेत् ॥ १५ ॥
क्षुरिकां हेमसङ्काशाम् उपबन्धसमन्विताम् ।
उभयोः पार्श्वयोर्हस्ते नानानागविभूषितम् ॥ १६ ॥
ऋषिभिर्देवगन्धर्व सिद्धविद्याधरादिभिः ।
हृदयाञ्जलि संयुक्ते सम्भ्रान्तमनसान्वितैः ॥ १७ ॥
सम्मानितं सदानन्दं सेवितं तैः सुपूजितम् ।
वीथिं सम्मार्जयेद्वायुः पर्जन्यो जलसेचनम् ॥ १८ ॥
पुष्पवृष्टिं कृता देवाः शङ्ख * * * * * * ।
ऋग्यजुस्सामाथर्वैश्च स्तुत्यं कुर्यात्पुरे पुरे ।
चर्मबन्धं च कंसं च कदम्बं सुषिरमेव वा ॥ २० ॥
शङ्खध्वनिसमायुक्तं पञ्चशब्द महारथैः ।
तुम्बुरु नारदाः सर्वैश्च गेयकर्म सलक्षणम् ॥ २१ ॥
छत्रं धृत्वा रविच्चित्रं चामरा दिव्ययोषितः ।
सर्वलोकोपकारार्थम् इन्द्रस्य भवनादिषु ॥ २२ ॥
रक्षां करोम्यहं विप्र कङ्कालस्य तु मोक्षदम् ।
काश्यपोवाच ॥
त्वया वै धारितस्यास्य कङ्कालस्योद्भवं कथम् ॥ २३ ॥
इदानीं पुरतो विप्र मृत्युते तु जनार्दनः ।
तद्देहं भुवनादित्वं भये यस्तु स्वशक्तयः ॥ २४ ॥
कम्पितात्तु समस्ताण्डात् तदा स्वण्डाधिवासिनः ।
प्रार्थये युस्तु मां भक्त्या तेषां भयनिवृत्तये ॥ २५ ॥
अण्डानां सुस्थितार्थं तु सर्वे लोकोपकारकम् ।
कङ्कालं मोचनार्थं तु तद्धृतैव महद्विज ! ॥ २६ ॥
भिक्षान्ते मोचयेदेतत् कङ्कालं माधवे भवेत् ।
एवं कङ्कालमाख्यातं हर्यर्धं च ततः शृणु ॥ २७ ॥
इत्यंशुमान्काश्यपे कङ्कालमूर्तिलक्षणपटलः (पञ्चसप्ततितमः) ॥ ७५ ॥