अथ वक्ष्ये पाशुपत मूर्तेर्लक्षणमुच्यते ।
समपादं स्थानकं च चन्द्रशेखरमूर्तिवत् ॥ १ ॥
त्रिणेत्रं चतुर्भुजं सौम्यम् ऊर्ध्वकेशं महातनुम् ।
अभयं शूलहस्तं च दक्षिणे तु करद्वयम् ॥ २ ॥
वरदं चाक्षमालां च वामपार्श्वकरद्वयम् ।
प्रवालसदृशप्रख्यं सौम्यनेत्राति शीतलम् ॥ ३ ॥
सर्वाभरणसंयुक्तं किञ्चित्प्रहसिताननम् ।
नित्योत्सवायबिम्बं तत् स्थानकं वासनं तु वा ॥ ४ ॥
तदेवाग्नि समकर्णं रक्ताक्षं कुटिलभ्रुवम् ।
तीक्ष्णदंष्ट्रास्य संयुक्तं व्यालयज्ञोपवीतकम् ॥ ५ ॥
ज्वालामाला शिखाकारम् अतिरक्त निवासधृत् ।
शूलं ह्यधोमुखं धृत्वा कपालं वरदे धृतम् ॥ ६ ॥
अथवाभयं विना शूलमूलं भृत्त्वा तु तत्करे ।
शूलाग्रं वरदेनैव सङ्ग्राह्य त्र्यजथो धृतम् ॥ ७ ॥
दक्षिणे तु परे हस्ते टङ्कं खड्गं तु वामके ।
रौद्रं पाशुपतं ह्येतत् बिम्बे लिङ्गे तु पूजितम् ॥ ८ ॥
ध्यानपूजानिमित्ताय तन्मूर्तिं च वदाम्यहम् ।
एतां मूर्तिं सकृद् ध्यायेत् सर्वशत्रुविनाशनम् ॥ ९ ॥
एतां तु रौद्र मूर्तिं तु प्रतिमां तु न कारयेत् ।
इत्यंशुमान्काश्यपे पाशुपतमूर्तिलक्षणपटलः (चतुस्सप्ततितमः) ॥ ७४ ॥