॥
त्रिपुरान्तकमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
त्रिचतुष्पञ्चमात्रं स्यात् नतमानं यथाक्रमम् ॥ १ ॥
आभङ्गं समभङ्गं चाप्यति भङ्गमिति त्रिधा ।
प्रतिमोच्चं नतं तुङ्गं भङ्गमानं हि कल्पयेत् ॥ २ ॥
पादाङ्गुष्ठ द्वयोश्चैव त्वन्तरं षोडशाङ्गुलम् ।
आभङ्गं तद्विजानीयात् अष्टादशाङ्गुलं समम् ॥ ३ ॥
विंशत्यङ्गुलमाख्यातम् अतिभङ्गमिति त्रिधा ।
तत्त्रिभागैकभागं तु पार्ष्ण्योश्च त्वन्तरं भवेत् ॥ ४ ॥
उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ।
हनोर्वामे समालम्ब्य दक्षिणस्तन वामके ॥ ५ ॥
नाभेर्दक्षिणपार्श्वे तु वामोरुः सव्यपार्श्वके ।
दक्षिणाङ्घ्रौ तु पार्ष्ण्योस्तु वामपार्श्वे तु लम्बयेत् ॥ ६ ॥
आभङ्गसूत्रमाख्यातं समभङ्गमथ शृणु ।
ललाटं मध्यनासाग्रं पादयोः पार्ष्णिमध्यमे ॥ ७ ॥
लम्बयेत्पूर्वसूत्रं तु अन्तरं तु वदाम्यहम् ।
तत्सूत्राद्वामपार्श्वे तु हिक्कामध्यं शिवाङ्गुलम् ॥ ८ ॥
अर्धाङ्गुलं तु तत्सूत्रात् वामे हृदयमध्यमम् ।
तत्सूत्राद्दक्षिणे नाभिमध्यमं तु द्वियङ्गुलम् ॥ ९ ॥
तत्सूत्राद्दक्षिणे चैवमग्रं चैव युगाङ्गुलम् ।
तत्सूत्राद्वामगोजानोरन्तरं द्वादशं यवम् ॥ १० ॥
समभङ्गमिति ख्यातम् अतिभङ्गमथ शृणु ।
उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके ॥ ११ ॥
दक्षिणस्तन मध्ये तु तत्सूत्रं तु गुणाङ्गुलम् ।
नाभिमध्यात्तु वामे तु सूत्रनीव्रं द्वयङ्गुलम् ॥ १२ ॥
तत्सूत्राद्वामजान्वन्तं मध्यमं त्रिविधीयते ।
वामाङ्घ्रिपार्ष्णिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् ॥ १३ ॥
स्पर्शनं वेशनं नीव्रं समपादस्थानकोक्त च ।
एवं त्रिभङ्गसूत्रेषु सम्मिश्रं तु न कारयेत् ॥ १४ ॥
उत्तमं त्वतिभङ्गं स्यात् मध्यमं समभङ्गकम् ।
आभङ्गमधमं ख्यातं त्रिपुरान्तकमूर्तिनः ॥ १५ ॥
दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् ।
दक्षिणे पूर्वहस्तोर्ध्वं नाभिसूत्रावसानकम् ॥ १६ ॥
सिंहकर्णं तु तद्धस्तं पाणिमध्यं तु पीडितम् ।
बाणायामं सप्तविंशत्यङ्गुलं तु विधीयते ॥ १७ ॥
कनिष्ठाङ्गुलि परीणाहं देवेशस्य करे तु तत् ।
आस्यं पञ्चाङ्गुलं व्यासं मात्रोच्चं व्याससादृशम् ॥ १८ ॥
आस्यतुङ्गसमं पुच्छम् अग्न्यङ्गुलं तदायतम् ।
वामहस्ते धनुर्धृत्वा कक्षान्तं तत्करोर्ध्वकम् ॥ १९ ॥
एकद्वित्र्यङ्गुलं वापि तस्य नेत्रोद्धृतं तु वा ।
विंशदङ्गुलतुङ्गं त्रिः पञ्चसप्तनवाङ्गुलम् ॥ २० ॥
हीनं वाप्यधिकं वापि नवधा धनुषायुधम् ।
पूर्णमुष्टिस्तु नाहं स्यान्मध्यादग्रं क्रमात्कृशम् ॥ २१ ॥
अग्रमध्याङ्गुलं व्यासं वृत्तं वर्णैर्विचित्रितम् ।
बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना ॥ २२ ॥
धनोर्दार्घैकभागे तु सप्तांशं रज्जुदैर्घ्यकम् ।
तद्दीर्घस्यानुकूल्यं तु धनोर्वक्रमुदाहृतम् ॥ २३ ॥
त्रिवक्रसहितं वाथ बालचन्द्राभमेव च ।
धनुषाकृतिरेव स्यात् लोहजं दारुजं तथा ॥ २४ ॥
कर्तरी परहस्तौ द्वौ टङ्ककृष्णमृगान्वितौ ।
टङ्कं दक्षिण हस्ते तु वामहस्ते मृगं धृतम् ॥ २५ ॥
जटामकुटसंयुक्तं सर्वाभरणभूषितम् ।
प्रवालसदृशप्रख्यं वामे गौरीसमन्वितम् ॥ २६ ॥
त्रिपुरान्तकमूर्तेस्तु प्रथमं लक्षणं त्विदम् ।
तदेव वामपादं तु अपस्मारोपरिस्थितम् ॥ २७ ॥
शेषं प्रागिव कर्तव्यं द्वितीयं लक्षणं भवेत् ।
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ २८ ॥
शेषं प्रागिव कर्तव्यं सूत्रं चितिरपार्श्वकम् ।
तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु ॥ २९ ॥
तदेव वामपादं तु अपस्मारोपरिस्थितम् ।
प्रागिवैव विशेषं तु चतुर्थं लक्षणं तु वा ॥ ३० ॥
कटके बाणधरे हस्ते मध्यरेखा कलाङ्गुलम् ।
तिथ्यंशं मनुमात्रं वा त्रयोदशाङ्गुलमेव वा ॥ ३१ ॥
भानुरुद्राङ्गुलं वाथ अन्तरं षड्विधं भवेत् ।
तत्करे कोर्परं नीव्रं श्रोणिपार्श्वे तथा भवेत् ॥ ८२ ॥
कक्षाद्धनुर्धरे हस्ते मणिबन्धान्तरं तथा ।
तत्करे कोर्परोद्धृत्यं हृदयान्तमुदाहृतम् ॥ ३३ ॥
एकद्वित्रिचतुष्पञ्चमात्रं तस्मात्तदन्तु वा ।
सर्वेषामपि सामान्यप्यन्तरं कथितं मया ॥ ३४ ॥
तदेव पूर्वहस्तौ द्वौ कटको हृदि सीमके ।
वामदक्षिणहस्तं च क्रमादूर्ध्वमधोमुखम् ॥ ३५ ॥
बाणमूलधृतं सव्यं वामबाणासनोद्धृतम् ।
परहस्ते दक्षिणे टङ्कं धनुश्चैव तु वामके ॥ ३६ ॥
तद्धस्ते तु मृगं वाथ वामे गौरीसमन्वितम् ।
अपस्मारं विना पादं नतं सूत्रं च प्रागिव ॥ ३७ ॥
एवं चतुर्भुजोपेतं मूर्तं पञ्चविधं भवेत् ।
अतिभङ्गसमोपेतम् अष्टहस्तसमन्वितम् ॥ ३८ ॥
बाणं च परशुं खड्गम् अभयं दक्षिणे करे ।
धनुर्विस्मयहस्तं च खेटकं कटकं तथा ॥ ३९ ॥
वामहस्ते समाख्यातं पूर्वसूत्रात् करान्तकम् ।
यथा शोभनतुङ्गं वा कल्पयेद्गौरिसंयुतम् ॥ ४० ॥
षष्ठमेवं समाख्यातं सप्तमं दशदोर्युतम् ।
बाणं चक्रं तथा शूलं टङ्कं वज्रं च दक्षिणे ॥ ४ ॥
धनुश्शङ्खं तथा सूचिविस्मयं खेटकं तथा ।
वामे पञ्चकरे ख्यातम् अतिभङ्गमथोपरि ॥ ४२ ॥
तदेव दक्षिणं जानुं रथस्याधो निधापयेत् ।
तत्पूर्वे वामपादं तु तलं न्यस्त्वा रन्थोपरि ॥ ४३ ॥
रथं तु मुकुलोपेतं मुकुलं रज्जुना वृतम् ।
मुकुलाभ्यन्तरे ब्रह्मा चतुर्वक्त्रश्चतुर्भुजः ॥ ४४ ॥
तस्य दक्षिण हस्तौ द्वौ वेणुदण्डकमण्डलुम् ।
कुण्डिकं पद्मपाशं च वामहस्तद्वये धृतम् ॥ ४५ ॥
रथस्य मुकुला धस्ताद् वृषभं श्वेतवर्णकम् ।
रथं त्वापन्नमार्गेण कल्पयेत्कल्पवित्तमः ॥ ४६ ॥
त्रिपुरान्तकमाख्यातम् अष्टभेदं द्विजोत्तम ! ।
प्रवालसदृशं वर्णं सत्वराजसमाश्रितम् ॥ ४७ ॥
सर्वाभरणसंयुक्तम् एकवक्त्रं त्रिणेत्रकम् ।
तस्य वामेऽप्युमा देवीं प्रागुक्तविधिना कुरु ॥ ४८ ॥
इत्यंशुमान्काश्यपे त्रिपुरान्तकमूर्तिलक्षणपटलः (सप्ततितमः) ॥ ७० ॥