गङ्गाधरमहं वक्ष्ये सङ्क्षेपाच्छृणु सुव्रत ! ।
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥ १ ॥
ललाटमध्यमात्सव्ये नीत्वा नवयवान्तकम् ।
दक्षिणेऽप्यक्षिसीमान्ते सव्यनासापुटान्तके ॥ २ ॥
हिक्कामध्ये समालम्ब्य नाभेस्सव्ये द्वयाङ्गुलम् ।
दक्षिणे मेढ्रमूलस्य मध्यमाद् द्व्यङ्गुलान्तके ॥ ३ ॥
पार्ष्ण्योश्च मध्यमे चैव ब्रह्मसूत्रं प्रलम्बयेत् ।
युगांशं नतमानं तु पादाङ्गुष्ठ द्वयोन्नतम् ॥ ४ ॥
अष्टादशाङ्गुलं प्रोक्तं त्र्यंशं पार्ष्णिद्वयोत्तरम् ।
विश्लीषं स्याज्जटाबन्धं वामेत्वीषन्नताननम् ॥ ५ ॥
दक्षिणे पूर्वहस्तं तु वरदेव्याननाश्रितम् ।
वामे तु पूर्वहस्तेन देवीमालिङ्गनं कुरु ॥ ६ ॥
दक्षिणे परहस्तं तु जटाजाह्नविसंयुतम् ।
उष्णीषान्तं समुद्धृत्य वामे कृष्णमृगं धृतम् ॥ ७ ॥
देवस्य वामपार्श्वे तु गौरीर हिताननम् ।
सुस्थितं वामपादं तु कुञ्चितं दक्षिणे भवेत् ॥ ८ ॥
आभङ्गेन नतं सूत्रं कल्पयेत्कल्पवित्तमः ।
प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृत् ॥ ९ ॥
अथवा दक्षिणं हस्तं प्रकोष्ठं तिर्यग गतम् ।
श्रोण्यधस्तात्तलम्बं स्याद्वस्त्रद्धृतमिवाकृतिः ॥ १० ॥
सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् ।
गम्भीरं दक्षिणे पार्श्वे ऋषिभिः प्रार्थितेश्वरः ॥ ११ ॥
गङ्गाधरहरं देवं ततो वै त्रिपुरान्तकम् ।
इत्यंशुमान्काश्यपे गङ्गाधरमूर्तिलक्षणपटलः (एकोनसप्ततितमः) ॥ ६९