६७ ॥
अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम् ।
रुरुन्धवधनार्थं तु तद्भूता चर्ममुण्डनी ॥ १ ॥
रुरुन्धवधनं कृत्वा तस्मास्वत्पङ्क्तिता मता ।
तदाहिंसोत्सुका देवा तदासुखनिवृत्तये ॥ २ ॥
तदा नृत्तं करिष्यामि सर्वलोकहिताय वै ।
देवानामार्तिनाशाय राजराष्ट्र विवृद्धये ॥ ३ ॥
नृत्तमष्टशतं भेदं तेषादौ नवमुच्यते ।
प्रागुक्तविधिना ग्राह्य बिम्बमानं द्विजोत्तम ! ॥ ४ ॥
उत्तमं दशतालेन सर्वाङ्गं परिकल्पयेत् ।
भानुरुद्रदशांशेन तुङ्गं नृत्तानतं भवेत् ॥ ५ ॥
उष्णीषमध्यमात्सव्ये ललाटान्मध्य दक्षिणे ।
नीत्वा शिवाङ्गुलं सव्ये नेत्रान्ते च पुटान्तके ॥ ६ ॥
हनोः सव्ये तु हिक्कायां मध्ये नाभेश्च मध्यमे ।
वामोर्वाभ्यन्तरे चैव स्थितां प्रौ (?) गुल्फमध्यमे ॥ ७ ॥
प्रभामण्डलमध्यात्तु पूर्वसूत्रं प्रलम्बयेत् ।
ललाटात्सूत्रनीव्रं तु युगांशं वार्धहीनकम् ॥ ८ ॥
गुल्फात्सूत्रान्तरं चैव तद्वदेव विधीयते ।
हिक्कामध्यात्तु सूत्रान्तं सार्धसप्ताष्टवाङ्गुलम् ॥ ९ ॥
मकुटो वक पक्षाग्रात् सार्धाष्टांशं तथैव च ।
ऊर्ध्वकुक्षी स्पृशेत्पूर्वसूत्रमेवं प्रकल्पयेत् ॥ १० ॥
तत्सूत्राद् डोलबाह्वग्रम् अर्धाधिक कलाङ्गुलम् ।
तस्मादपरबाह्वग्रं युगाङ्गुलमुदाहृतम् ॥ ११ ॥
तस्मादग्नि कराग्रान्तं साष्टत्रिंशाङ्गुलं तु वा ।
चत्वारिंशतिमात्रं वा तस्मादौ गुणमात्रकम् ॥ १२ ॥
हिक्कासूत्रसमोद्धृत्य तद्धस्त मध्यमाग्रकम् ।
तद्धस्ततलमध्ये वा मध्याङ्गुल्याग्र पर्वके ॥ १३ ॥
मध्ये पर्वेऽथवा धृत्वा त्वनलं पात्रसंयुतम् ।
पात्रं विनाथवा वह्निं पञ्चांशं विस्तृतान्वितम् ॥ १४ ॥
तुङ्गं सप्ताङ्गुलं वाष्टनवमात्रमथापि वा ।
त्रिपञ्च सप्तजिह्वायां कल्पयेत्तु यथोचितम् ॥ १५ ॥
अष्टाविंशति मात्रं वा त्रिंशदङ्गुलमेव वा ।
चत्वारिंशति मात्रं वा वामे सङ्ख्याः क्रमान्नयेत् ॥ १६ ॥
तद्धस्ते मणिबन्धोर्ध्वे हिक्कासूत्रसमं भवेत् ।
डमरुके मध्यपीठस्य सूचिकर्णान्तमुद्धृतम् ॥ १७ ॥
तर्जन्यग्रं तु सुचिः स्यात् तर्जनी ऋजुता भवेत् ।
अथवा चर्मसूत्रं तु पीड्यमध्याङ्गुलोपरि ॥ १८ ॥
अनामिकोपरिष्टात्तु डमरुकं परिकल्पयेत् ।
डमरुकदीर्घविस्तारं वसुपञ्चाङ्गुलं तथा ॥ १९ ॥
मध्यं गुणाङ्गुलं व्यासं पद्माकारं प्रकल्पयेत् ।
वलयद्वयसंयुक्तं वर्मसूत्रेण बन्धितम् ॥ २० ॥
यद्द्रव्येण कृतं बिम्बं तद्द्रव्येण समाचरेत् ।
सूच्यग्रात्कर्णसीमान्तं चत्वारिंशति मात्रकम् ॥ २१ ॥
स पञ्च चत्वारिंशच्च अष्टाविंशत्त्रयस्तथा ।
पार्श्वसूत्रसमं सूचिं चाग्निस्ते मध्यमाङ्गुलम् ॥ २२ ॥
दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् ।
प्राक्सूत्रादभये हस्ते मध्यं भानुद्वयाङ्गुलम् ॥ २३ ॥
तन्मध्यमाङ्गुलाग्रं तु हिक्कासूत्रसमोद्धृतम् ।
सूत्रान्तात्कोर्परं नीव्रं चत्वारिंशति मात्रकम् ॥ २४ ॥
अभये प्रकोष्ठमध्ये तु भुजङ्गवलयं न्यसेत् ।
प्रकोष्ठमध्यनाहस्य पादं तस्य तु देशिकः ॥ २५ ॥
तदेतदुपरि ख्यातं फणं पञ्चाङ्गुलं भवेत् ।
सप्ताङ्गुलविशालं तु घनमेकाङ्गुलं भवेत् ॥ २६ ॥
पुरस्थितान्मोक्ष्यं तु जीह्वा नीव्रसमन्वितम् ।
भुजङ्गवलयं ह्येवं कल्पयेत्कल्पवित्तमः ॥ २७ ॥
सूत्रात्कक्षान्तरं सव्यपार्श्वे द्वादशमात्रकम् ।
सूत्रान्मध्योदरं वामे नवाङ्गुलमुदाहृतम् ॥ २८ ॥
वामे स्फिक् पिण्डनीव्रं तु सूत्रादष्टादशाङ्गुलम् ।
सूत्रात्कुञ्चितजान्वोऽस्तु त्वन्तरं तु दशाङ्गुलम् ॥ २९ ॥
नवाङ्गुलं चाष्टमात्रं च जानुनीव्रं यथाक्रमम् ।
भानुरुद्रदशाङ्गुल्यं नतमानेन कल्पयेत् ॥ ३० ॥
स्थिताङ्घ्रि जान्वोर्वामाङ्घ्री जानुनीव्रं प्रकल्पयेत् ।
कलाङ्गुलं त्रिपञ्चमनुमात्रं वा जङ्घोस्तुद्वन्तरं त्रिधा ॥ ३१ ॥
स्थिताङ्घ्रि नलका मध्याद्वामपार्ष्ण्यन्तरं बुधः ।
स वेद चत्वारिंशांशत्यङ्गुलं तु विधीयते ॥ ३२ ॥
स सप्त षट्चत्वारिंशदङ्गुलं वाथ तद्भवेत् ।
स्थित जान्वोद्धृतं पार्ष्ण्योः चतुर्विंशति मात्रकम् ॥ ३३ ॥
त्रयस्त्रिंशति मात्रं वा जान्वोः पार्ष्ण्यन्तरं द्विधा ।
उद्धृताङ्घ्रितलान्तं च स्थितजानूर्ध्व तत्समम् ॥ ३४ ॥
उद्धृताङ्घ्रेस्तु जानूर्ध्वं नाभिसूत्रसमं भवेत् ।
कोर्पराड्डोलहस्तस्य नाभि सूत्राद्दशाङ्गुलम् ॥ ८५ ॥
एकादशाङ्गुलं वाथ कल्पयेत्कोर्परान्तकम् ।
तद्धस्तो मणिबन्धाच्च वामजान्वोऽस्तु व्यन्तरम् ॥ ३६ ॥
दशाङ्गुलं वाथ कर्तव्यं नवाङ्गुलमथापि वा ।
डोलहस्ते तु मध्यस्थादङ्गुलाग्रं विशेषतः ॥ ३७ ॥
वामपादे तु जङ्घान्तम् अन्तरं धर्ममात्रकम् ।
नवाङ्गुलान्तरं वापि रुद्राङ्गुलमथापि वा ॥ ३८ ॥
डोलहस्तो भयान्तं तु द्व्यन्तरं तु दशाङ्गुलम् ।
अन्यान्युक्तानि नीव्राणि यथा सौन्दर्यमाचरेत् ॥ ३९ ॥
केशान्ताद्बकपक्षस्य तुङ्गमष्टादशाङ्गुलम् ।
सप्तादशाङ्गुलं वाथ षोडशाङ्गुलमेव वा ॥ ४० ॥
तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि ।
सुविकीर्ण जटाभारं पञ्चसप्त च नन्दकम् ॥ ४१ ॥
रुद्रसङ्ख्याथवा विप्र उभयोः पार्श्वयोस्तथा ।
द्वात्रिंशाङ्गुलमारभ्य सैकषष्ठ्यङ्गुलान्तकम् ॥ ४२ ॥
अङ्गुलाङ्गुल वृद्ध्या तु जटादीर्घमुदाहृतम् ।
अधो जटादीर्घमेवं हि तस्मादूर्ध्वोर्ध्वमूर्धनि ॥ ४३ ॥
कनिष्ठाङ्गुलि परीणाहं जटानाहमुदाहृतम् ।
जटान्तरं पुष्पमालाभिः अलङ्कृत्य विशेषतः ॥ ४४ ॥
नागं चैवार्क पुष्पं च धुर्धूरकुसुमं तथा ।
हसितं शीर्षकं चैव करोटी रत्नबन्धनम् ॥ ४५ ॥
भूषयित्वा तु मरुदे दक्षिणेऽर्धेन्दुशेखरम् ।
सिन्दूरालं कृतस्कन्दम् अक्षमाल्यैरलङ्कृतम् ॥ ४६ ॥
भस्मोद्धूलित दिव्याङ्गं किञ्चित्प्रहसिताननाम् ।
यज्ञोपवीतसंयुक्तम् उरुसूत्रसमन्वितम् ॥ ४७ ॥
देवाङ्गे वोदरे मध्ये बाह्या वामेऽर्धनिर्गती ।
प्रभामण्डलमाश्रित्योदरबन्धाग्रकं द्विज ! ॥ ४८ ॥
व्याघ्रचर्माम्बरोपेतम् ऊरुत्र्यंशावसानकम् ।
डोलबाहूर्ध्वतो बध्वा व्याघ्रचर्म द्विजोत्तम ! ॥ ४९ ॥
लम्बनं बाहुमूलं तु भानु वा मनुमात्रकम् ।
तदर्धं वा त्रिपादं वा विस्तारं तद्विजोत्तम ! ॥ ५० ॥
पादौ नूपुरसंयुक्तौ सर्वाभरणभूषितम् ।
हस्तपादाङ्गुलीः सर्वाः रत्नहेमाङ्गुलीयकाः ॥ ५१ ॥
मध्यमाङ्गुलि वर्ज्या तु शेषा वै मुद्रिकाकान्विता ।
दक्षिणं कुञ्चितं पादम् अपरोपरि स्थितम् ॥ ५२ ॥
तिर्यक् पादतलं न्यस्त्वा नृत्तं कुर्यान्महेश्वरम् ।
वामपादतलोद्धृत्य तिर्यग्दोर्दक्षिणानुगम् ॥ ५३ ॥
डोलहस्तमथार्त्य अपस्मारमथोच्यते ।
त्रिचतुष्पञ्च वक्त्रं वा अपस्मारस्य दैर्घ्यकम् ॥ ५४ ॥
अष्टाचत्वारिंशांशं वा अपस्मारोदयं कुरु ।
उष्णीषमेकभागेन केशान्तं च तथा भवेत् ॥ ५५ ॥
वस्वङ्गुलं मुखायामं गलमर्धाङ्गुलं भवेत् ।
अध्यर्धाङ्गुलमायामं कर्णव्यासं तु शेषतः ॥ ५६ ॥
हिक्कादि हृदयान्तं तु रसाङ्गुलमुदाहृतम् ।
हृदादि नाभि पर्यन्तं तत्समं परिकीर्तितम् ॥ ५७ ॥
नाभ्यादि मेढ्रमूलान्तं मानं षण्मात्रमुच्यते ।
ऊरुदीर्घं तु सप्तांशं जानुदीर्घं द्वयाङ्गुलम् ॥ ५८ ॥
जङ्घा दीर्घोरुतुल्यं स्यात् द्वयांशं चरणोदयम् ।
मन्वंशं तु करं हिक्का मध्याङ्गुलाग्रसीमकम् ॥ ५९ ॥
शेषं युक्त्या तु कर्तव्यं शयेत्तु तदधोमुखम् ।
शम्भोः सव्ये शिरः स्थाप्य वामे पादौ विकीर्णितौ ॥ ६० ॥
अपस्मारोदरोच्चं तु धर्मनन्दाष्टमात्रकाः ।
तन्मुखं तु समुद्धृत्य व्याललीलामुदान्वितम् ॥ ६१ ॥
व्यालं वै वामहस्ते तु दक्षिणं तस्य मुद्रिकाम् ।
सस्य श्याम निभाकारम् अपस्मारं द्विजोत्तम ! ॥ ६२ ॥
कलांशं पद्मपीठोच्चं विस्तारं तच्चतुर्गुणम् ।
स पादं सार्धपादोन द्विगुणं वा तदायतम् ॥ ६३ ॥
ऊर्ध्वपद्ममधः पद्मपिण्डिका लक्षणोक्तवत् ।
प्रभामण्डलसंयुक्तम् अनेन विधिना कृतम् ॥ ६४ ॥
गुणाङ्गुलं समारभ्य यावच्छताङ्गुलावधि ।
तावदेकाङ्गुलार्द्ध्या तु साष्ठनदिथोदयम् ॥ ६५ ॥
एकाङ्गुलं समारभ्य एकाङ्गुलविवर्धनात् ।
प्राग्वत् सङ्ख्याघनं ख्यातं दण्डस्य प्रथमस्य तु ॥ ६६ ॥
तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्वक्रमशः कृशम् ।
एकद्वित्रिचतुष्पञ्च षट्सप्ताष्टनवं दश ॥ ६७ ॥
पुनः पुनस्तथा सङ्ख्या उपर्युपरि कल्पयेत् ।
कर्तरीश्चावशात्तेषु दण्डसङ्ख्या तु तत्कुरु ॥ ६८ ॥
नानादललताभिश्च नानापुष्पोपशोभितम् ।
तस्योपरिष्टादनलं हस्ते त्वग्निरिवाकृतिः ॥ ६९ ॥
कर्तव्यं परितो विप्र ! तत्समं व्यन्तरानतम् ।
भानुमण्डलबद्धीमान् प्रभामण्डलवर्तिनम् ॥ ७० ॥
तस्य वामेऽप्युमादेवीं प्रागुक्त विधिना कुरु ।
एतत्स्यात्प्रथमं नृत्तं सर्वलोकहितावहम् ॥ ७१ ॥
तदेव दक्षिणे पार्श्वे जटाग्रे जाह्नवी भवेत् ।
शम्भोर्देहाङ्गुलेनैव षोडशाङ्गुलमुन्नतम् ॥ ७२ ॥
स्त्रीमानोक्ताङ्गसम्पन्ना हृदयाञ्जलि संयुता ।
एवं जाह्नवीसंयुक्तं नृत्तं चैव द्वितीयकम् ॥ ७३ ॥
तदेव वामपादं तु अपस्मारोपरि स्थितम् ।
उद्धृतं दक्षिणं पादं वामहस्तं प्रसारितम् ॥ ७४ ॥
ललाटमध्याद्वामे तु वामनासापुटान्तकम् ।
लम्बयेद् ब्रह्मसूत्रं तु स्थितं पादस्य गुल्फके ॥ ७५ ॥
शेषं प्रागिवकर्तव्यं नृत्तं चैव तृतीयकम् ।
सुविकीर्ण जटाभारं जटामकुटसंयुतम् ॥ ७६ ॥
जटामण्डलसंयुक्तं शेषं प्रथमनृत्तवत् ।
चतुर्थं नृत्तमेतद्धि सर्वप्राणि हितावहम् ॥ ७७ ॥
उष्णीषोर्ध्वेऽर्कमात्रान्तं सव्यपादं समुद्धरेत् ।
स्ववक्रं वामपादं तु अपस्मारोपरि स्थितम् ॥ ७८ ॥
भुजाष्टकसमायुक्तम् एतत्पञ्चकमुच्यते ।
अभयं शूलपाशं च डमरुं दक्षिणे करे ॥ ७९ ॥
कपालमग्नि पात्रं च घण्टां हस्तिकरोपमम् ।
गजहस्तोपमं हस्तं प्रसार्यं दक्षिणानुगम् ॥ ८० ॥
यद्वत्प्रथमनृत्तस्य पूर्वसूत्रं प्रसारयेत् ।
चिह्नं पञ्चमनृत्तस्य एवमेवेति विद्यते ॥ ८१ ॥
दोर्भिः षोडशभिर्युक्तं वामे गौरी समन्वितम् ।
स्कन्दधृत् * * * * * वामहस्ते धृताञ्जलिः ॥ ८२ ॥
तदञ्जलि करो मध्यं न्वन्त हिक्कावसानकम् ।
स्कन्दो भयकराभ्यां तु हनुस्तनं धृगादरात् ॥ ८३ ॥
एवं गौरीं समीक्ष्येशमित्यादिस्ते द्विहस्तया ।
अभयं डमरुकं चैव वज्रं शूलं तथैव च ॥ ८४ ॥
पाशं दक्षिणां तथा दण्डं नागं वै दक्षिणे तथा ।
सव्यानुगकरण्डैर्वा वेतालं वामानुभङ्गजापमम् ॥ ८५ ॥
अनलं मीयरं चैव वलयं केतुरेव च ।
घण्टां चैव कपालं च वामपार्श्वेऽष्टहस्तके ॥ ८६ ॥
पादेन पञ्चमं नृत्तस्य यत्तत्तद्वद् विधीयते ।
षष्ठमेवं समाख्यातं सप्तमं शृणु सुव्रत ! ॥ ८७ ॥
त्रिणेत्रं चाष्टहस्तं च सुविकीर्ण जटायुतम् ।
कुञ्चितं वामपादं तु अपस्मारोपरि स्थितम् ॥ ८८ ॥
वामभागे शिरस्तस्य सुविकीर्णाङ्घ्रि दक्षिणे ।
उद्धृतं दक्षिणं पादम् अङ्गुष्ठ जङ्घाग्रसीमकम् ॥ ८९ ॥
पूर्वसूत्रात्तदङ्गं तु नीव्रं भान्वङ्गुलं भवेत् ।
अभयं शूलपाशं च डमरुं दक्षिणे करे ॥ ९० ॥
कपालं चाग्निपात्रं च तथा विस्मयहस्तकम् ।
गजहस्तोपमं वामे चतुर्थो ह्येवमेव हि ॥ ९१ ॥
गजहस्तोपमं हस्तं सव्यासव्यानुगं तु वा ।
ललाटस्य तु मध्यात्तु वामे तु स्तनमध्यमे ॥ ९२ ॥
वामाङ्घ्रि नलका मध्ये लम्बयेद् ब्रह्मसूत्रकम् ।
तत्सूत्राद्वामजान्वोऽस्तु नीव्रं नवाङ्गुलं भवेत् ॥ ९३ ॥
नतमानं दशांशं स्यात् वामे गौरी समायुतम् ।
सप्तमं नृत्तमाख्यातं जगदार्तिविनाशनम् ॥ ९४ ॥
तदेव षड्भुजोपेतम् अभयं डमरुं तथा ।
शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ॥ ९५ ॥
गजहस्तोपमं वामे सूत्रं प्रागुक्तदष्टकम् ।
पञ्चमस्य च नृत्तस्य षष्टमं शृणु सुव्रत ! ॥ ९६ ॥
नेत्रद्वयोऽपि विख्यातो शेषास्तु त्रीणि नेत्रकम् ।
चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् ॥ ९७ ॥
अभयं डमरुं सव्ये वामेऽग्निगजहस्तवत् ।
अपस्मारं विना पीठे वामाङ्घ्रिः कुञ्चितं स्थितम् ॥ ९८ ॥
तत्तत्पुरः स्थितं पीठे सव्यपादकनिष्ठिकाम् ।
तत्पादं कुञ्चितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् ॥ ९९ ॥
नवमं नृत्तमाख्यातं गङ्गाधरमतः परम् ।
इत्यंशुमान्काश्यपे नृत्तमूर्तिलक्षणपटलः (अष्टषष्टितमः) ॥ ६८ ॥