६७

वृषवाहनमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
आभङ्गं समभङ्गं वा कल्पयेत्कल्पवित्तमः ॥ १ ॥

दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् ।
उष्णीषमध्यमाद्वामे ललाटाद्वामके तथा ॥ २ ॥

वामनेत्रावसाने च वामनासापुटान्तके ।
दक्षिणे स्तनपीठस्य वामे नाभेश्च मध्यमे ॥ ३ ॥

वामोरुमध्यमे पार्ष्ण्योः मध्ये सूत्रं प्रलम्बयेत् ।
एवं तु समभङ्गं स्यात् न त मानं युगाङ्गुलम् ॥ ४ ॥

मुखे पूर्ववदुद्दिष्टे दक्षिणे तु स्तनौ तथा ।
नाभेर्वामे गुणांशे तु वामोरोर्मध्यमे तथा ॥ ५ ॥

सु स्थिताङ्घ्रौ तु गुल्फस्य ब्रह्मसूत्रं प्रलम्बयेत् ।
अति भङ्गमिदं ख्यातं न तं पञ्चाङ्गुलं भवेत् ॥ ६ ॥

वृषस्य मस्तकोर्ध्वे तु न्यसेद्वै वामकोर्परम् ।
हिक्कासूत्रादधो विप्र ! कला वा द्विनवाङ्गुलम् ॥ ७ ॥

वामकोर्परलम्बं स्यात् तस्मादासनसीमकम् ।
वृषभस्योदयं ख्यातं वृषं लक्षणवत्कृतम् ॥ ८ ॥

वृषमूर्ध्नि तु हस्तेस्तु मध्याङ्गुलाग्रसीमकम् ।
नाभिसूत्रसमं कुर्यादङ्गुलं वा नतोन्नतम् ॥ ९ ॥

तदहस्ततलं मध्यात् पूर्वसूत्रं यमद्वयम् ।
अधोमुखं प्रकर्तव्यं तद्धस्तं तु प्रसारयेत् ॥ १० ॥

दक्षिणे पूर्वहस्ते तु पार्ष्णिनाभेरधो बुधः ।
पक्षषोडशमात्रं वा नतं तत्सिंहकर्णवत् ॥ ११ ॥

वक्रदण्डायुधं तस्मिन् कल्पयेत्तु चलाचलम् ।
स्थिताङ्घ्रिजानूर्ध्व सीमान्तं हिक्कासूत्रान्तमुन्नतम् ॥ १२ ॥

कनिष्ठाङ्गुलि परीणाहम् अग्रे वक्रान्वितं भवेत् ।
लोहजं दारुजं वाथ वक्रदण्डं तु कारयेत् ॥ १३ ॥

तद्धस्त मणिबन्धात्तु ऊरुमूलान्तदन्तरम् ।
पञ्चषट्सप्तमात्रं वा वसुनन्दाङ्गुलं तु वा ॥ १४ ॥

परहस्त द्वयोश्चैव टङ्कं कृष्णमृगं धरेत् ।
टङ्कं दक्षिणहस्ते तु वामहस्ते मृगं भवेत् ॥ १५ ॥

परहस्तद्वयोरग्रं हिक्कासूत्रसमं भवेत् ।
एकद्वित्रिचतुष्पञ्चमात्रं वाथ नतं तु वा ॥ १६ ॥

जटामकुटयुक्तं वा जटाभारं तु लालितम् ।
जटाबन्धधरो वापि कर्तुरिच्छावशान्नयेत् ॥ १७ ॥

सर्वाभरणसंयुक्तं रक्ताभं रक्तवासभृत् ।
वामपार्श्वे ह्युमादेवी दक्षिणे वा विशेषतः ॥ १८ ॥

सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
उत्पलं दक्षिणं हस्तं वामहस्ते प्रसारितम् ॥ १९ ॥

स्त्रीमानोक्तविधानेन उमादेवीं तु कारयेत् ।
वृषवाहनमाख्यातं नृत्तमूर्तिरथोच्यते ॥ २० ॥

इत्यंशुमान्काश्यपे वृषभवाहनमूर्तिलक्षणपटलः (सप्तषष्टितमः) ॥