अथ वक्ष्ये विशेषेण सप्ततालविधिं परम् ।
पिशाचप्रतिमोत्सेधम् अष्टाशीत्यंशकं भवेत् ॥ १ ॥
उष्णीषमर्धभागेन केशान्तं शशिभागया ।
सार्धद्व्यंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् ॥ २ ॥
चिबुकान्तं च तत्तुल्यं वेदांशं तु गलोदयम् ।
स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् ॥ ३ ॥
तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम् ।
जानुमानं द्विभागेन जङ्घा चोरुसमा भवेत् ॥ ४ ॥
चरणोच्चं द्विभागेन मन्वंशं तु तलायतम् ।
ऊरुदीर्घसमं बाहुप्रकोष्ठदीर्घं त्रिपञ्चकम् ॥ ५ ॥
तलायामं तु वेदांशं भूतांशं तस्य विस्तृतम् ।
तलायामसदृशं मध्यमाङ्गुलि दीर्घकम् ॥ ६ ॥
शेषं प्रागुदितोक्तेन व्यासं कुर्याद्धीकृतम् ।
सप्ततालं समाख्यातं शेषं प्रागपरोदितम् ॥ ७ ॥
इत्यंशुमान्काश्यपे सप्ततालविधिपटलः (त्रिषष्ठितमः) ॥ ६३ ॥