६१

अधमं नवतालस्य लक्षणं वक्ष्यतेऽधुना ।
विद्याधरगणाश्चैव त्वसुराश्च तथैव च ॥ १ ॥

पितरस्सिद्धगन्धर्वा नवतालाधमेन तु ।
स वेदशतभागं तु कौतुकोच्चं विभाजिते ॥ २ ॥

उष्णीषोच्चं त्रिपादं स्यात्केशं सार्धत्रिभागया ।
।* * * * * * * * * * हृदयान्तकम् ॥ ३ ॥

तस्मान्नाभ्यन्तकं तद्वत् मेढ्रमूलान्तकं तथा ।
ऊरुदीर्घं त्रयोविंशत् यवोनं तु विधीयते ॥ ४ ॥

ग्रीवं पादतलं जानुतुल्यं जङ्घोरुसादृशम् ।
बाहुचोरुसमं दीर्घं प्रकोष्ठं षोडशाङ्गुलम् ॥ ५ ॥

तलदीर्घं तु भूतांशं तत्समं मध्यमाङ्गुलम् ।
शेषं युक्त्या तु कर्तव्यं सर्वाङ्गं तु विधीयते ॥ ६ ॥

इत्यंशुमान्काश्यपे अधमनवतालविधिपटलः (एकषष्टितमः) ॥ ६१ ॥