मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते ।
उमासरस्वतीदुर्गा उषा भूषिश्च मातरः ॥ १ ॥
लक्ष्मीं ज्येष्ठां च अनेन विधिना कुरु ।
ईशो ब्रह्मा तथा विष्णुशक्तिरित्यभिधीयते ॥ २ ॥
तेषामनुगुणं मानं तत्तच्छक्तेस्तु मानकम् ।
शम्भोर्नासाग्रसीमान्तं शक्त्युच्चं ह्युत्तमोत्तमम् ॥ ३ ॥
शम्भोर्वास्तनसीमान्तम् अधमाधममुच्यते ।
तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् ॥ ४ ॥
शम्भोर्हिक्कान्तमुत्कृष्टं स्तनान्तमधमाधमम् ।
तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् ॥ ५ ॥
एवमष्टादशोत्सेधं पादादुष्णीषसीमकम् ।
तस्माज्जात्यंशमायांशं योजयेत्क्रममिच्छताम् ॥ ६ ॥
त्रिभङ्गासनमूर्तीनाम् अन्याभिधानमूर्तिनाम् ।
देव्युच्चं समपादस्य स्थानकं स्यैव युक्तितः ॥ ७ ॥
दुर्गा ज्येष्ठा च लक्ष्मी च मातरश्च विशेषतः ।
मानकल्पे तु लिङ्गानां मानैः सङ्कल्प्य देशिकः ॥ ८ ॥
मूललिङ्गस्य गौरी तु लिङ्गमानेन कल्पयेत् ।
स विंशतिशतं भागं स्त्रीमाने तु विभाजिते ॥ ९ ॥
एकांशमङ्गुलं ख्यातं तदष्टांशं यवं भवेत् ।
तदङ्गुलैर्यवैश्चैव चाङ्गमानं प्रमीयते ॥ १० ॥
उमादीनां तु देवीनां * * मेवाङ्गुलं यवम् ।
उष्णीषोदयमेकांशं केशान्तं तु गुणाङ्गुलम् ॥ ११ ॥
केशान्तादक्षिसूत्रान्तं स त्रिपाद युगांशकम् ।
अक्षिसूत्रात्पुटान्तं तु सार्धवेदाङ्गुलं भवेत् ॥ १२ ॥
नासापुटात्तु हन्वन्तं स त्रिपादगुणाङ्गुलम् ।
तस्याधः कण्ठमानं तु चतुर्भागमुदाहृतम् ॥ १३ ॥
हिक्काच्च हृदयान्तं च हृदयान्नाभि सीमकम् ।
नाभ्याश्च योनिपर्यन्तं समं त्रयोदशाङ्गुलम् ॥ १४ ॥
ऊरुदीर्घं तु षड्विंशत् जानुमानं युगाङ्गुलम् ।
ऊरुदीर्घ समं जङ्घा दीर्घं पादतलं युगम् ॥ १५ ॥
कलांशं पादतलायामं पार्ष्ण्या गुष्ठाग्रसीमकम् ।
तर्जन्याङ्गुष्ठयोर्दीर्घं चतुर्भागमुदाहृतम् ॥ १६ ॥
सार्धत्रिभागमं मध्यं त्रिभागं तु दनामिकम् ।
सार्धद्विभागमानं तु कनिष्ठाङ्गुलिदीर्घकम् ॥ १७ ॥
द्विरष्टौ सार्धसप्तांशं पातालरसभिर्यवैः ।
अङ्गुष्ठादि कनिष्ठान्तं चरणाङ्गुलि विस्तृतम् ॥ १८ ॥
त्रिद्व्यंशं तु नखव्यासं पादोनायत वर्तुलम् ।
अङ्गुलीनां मुखोच्चं तु नखव्याससमं भवेत् ॥ १९ ॥
पादं तलाग्रविस्तारं षण्मात्रमिति विद्यते ।
मध्ये पञ्चाङ्गुलं पार्ष्णिः विस्तारं चतुरङ्गुलम् ॥ २० ॥
अक्षिगुल्फान्तविस्तारं पञ्चभागं विधीयते ।
नलकाततियेदांशं जङ्घामध्यं रसाङ्गुलम् ॥ २१ ॥
जानुव्यासं तु सप्तांशं भान्वंशं ह्यूरुमूलकम् ।
भानुद्विगुणभागं तु विस्तारं कटिसन्धयोः ॥ २२ ॥
योनिपीठविशालं तु सप्ताङ्गुलमुदाहृतम् ।
योनितारं चतुर्भागम् अधोगाश्वत्थपत्रवत् ॥ २३ ॥
विस्तारसदृशोत्सेधं योनिं कुर्यात्समांसलम् ।
श्रोणि स्थाने तु विस्तारं स यवं विंशदङ्गुलम् ॥ २४ ॥
नाभेश्च निम्नविस्तारं षड्यवं परिकीर्तितम् ।
मध्यमस्य विशालं तु रुद्राङ्गुलमुदाहृतम् ॥ २५ ॥
स्तनाधस्तात्तु विस्तारं सार्धत्रयोदशाङ्गुलम् ।
स्तनतारं नवांशं स्यात् गुणांशं स्तन चूचुकम् ॥ २६ ॥
स्तनोच्चं सार्धवेदांशम् अक्षं मध्याङ्गुलोन्नतम् ।
स्तनाक्षं च स्तनं चैव वृत्तं कृत्वाति सुन्दरम् ॥ २७ ॥
स्तनान्तरं यवाष्टांशं छन्नवीरं तु तत्र वै ।
कक्षयोरन्तरं विप्र सप्तादशाङ्गुलं स्मृतम् ॥ २८ ॥
बाहुपर्यन्तविस्तारम् एकत्रिंशाङ्गुलं भवेत् ।
हिक्कासूत्रादधो बाहुदीर्घं षड्विंशदङ्गुलम् ॥ २९ ॥
कोर्परोच्चं द्विभागं स्यात् प्रकोष्ठं द्विनवाङ्गुलम् ।
मणिबन्धात्तलायामं सप्ताङ्गुलमुदाहृतम् ॥ ३० ॥
तस्मान्मध्याङ्गुलं षड्भिः पञ्चांशे तर्जनी भवेत् ।
अनामिका तर्जनीतुल्यं भागाङ्गुष्ठकनिष्ठयोः ॥ ३१ ॥
अङ्गुलीनां तु दैर्घ्यं वा हस्तयोरुभयोरपि ।
नवसप्ताष्टसप्तं तु यवाङ्गुष्ठादि विस्तृतम् ॥ ३२ ॥
तत्षडंशे चतुर्भागं नखतारमिहोच्यते ।
यवद्वयाधिकं तारात् नखायामं तु तीक्षणवत् ॥ ३३ ॥
हस्तस्य तलविस्तारं पञ्चाङ्गुलं विधीयते ।
मणिबन्धविशालाग्नि भूतांशं कोर्परस्य तु ॥ ३४ ॥
षडंशं बाहुमध्ये तु सप्तांशं बाहुमूलके ।
तस्मात्तन्मणिबन्धान्तं तरुणं वेणुवत्कृशम् ॥ ३५ ॥
हस्तविस्तारमेवं स्यात् सप्तांशं ग्रीवविस्तृतम् ।
अग्रे मूले तु विस्तारं षडंशं स्याद्यवाधिकम् ॥ ३६ ॥
रुद्रांशं मुखविस्तारं कुक्कुटाण्डसमाकृतिः ।
भ्रूकेशान्तयोर्मध्यं सार्धद्व्यङ्गुलकं भवेत् ॥ ३७ ॥
भ्रूमध्यान्ते तु तत्रान्तं स पादद्व्यङ्गुलं भवेत् ।
पुटदास्यावसाअं तु स यवैकाङ्गुलं भवेत् ॥ ३८ ॥
तदर्धं गोजिदीर्घं तु तस्यार्धं तस्य विस्तृतम् ।
अधरं स यवाङ्गुल्यं शेषं हन्वन्तमानकम् ॥ ३९ ॥
कर्णवेशं तु चिबुकात् सार्धत्र्यङ्गुलकं भवेत् ।
द्विभागं कर्णविस्तारं स पादं चतुरंशकम् ॥ ४० ॥
कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् ।
द्विभागं कर्णविस्तारं स पादं चतुरंशकम् ॥ ४१ ॥
कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् ।
नालालम्बं तु पञ्चांशं कर्णबन्धनसंयुतम् ॥ ४२ ॥
हस्तिहस्तोपमं पादं हस्तं गोपुच्छवत्कृतम् ।
शेषमुत्तमतालोक्तमार्गेणैव समाचरेत् ॥ ४३ ॥
स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु ।
गौरी वै द्विभुजा शान्ता प्रसन्नवदनाम्बुजा ॥ ४४ ॥
करण्डमुकुटा वाथ करीटमुकुटान्विता ।
मकुटं केशबन्धं वा तेषु तत्सुन्दरं कुरु ॥ ४५ ॥
केशान्तान्मकुटोत्तुङ्गम् अष्टादशाङ्गुलाधमम् ।
एकविंशाङ्गुलं मध्यं श्रेष्ठं भानुद्वयाङ्गुलम् ॥ ४६ ॥
शिरोनाहाद्यवाधिक्यं मकुटं मूलविशालकम् ।
मूलं सप्ताष्टधा भज्य भागोनाग्रविशालकम् ॥ ४७ ॥
किरीटमकुटे चैव केशबन्धमथाचरेत् ।
मूलादग्रं क्रमात्क्षीणं करण्डमकुटस्य तु ॥ ४८ ॥
पद्मस्य मुकुलाकारं मकुटाग्रं प्रकल्पयेत् ।
त्रिपञ्चसप्तनन्दैर्वा करण्डैस्तु विराजितम् ॥ ४९ ॥
चतुष्पूरिमसंयुक्तं नानापुष्पोभशोभितम् ।
ललाटपट्टसंयुक्तं मुक्तादामलकाकृतिः ॥ ५० ॥
कर्णे कुण्डलसंयुक्तं चतुर्मात्रोन्नतायतौ ।
मकरं कुण्डलं वाथ वृत्तकुण्डलमेव वा ॥ ५१ ॥
कटकैः कटिसूत्रैश्च हारोपग्रीवसंयुतम् ।
बाहुपूरिमसंयुक्तं छन्नवीरसमन्वितम् ॥ ५२ ॥
यज्ञोपवीतयुक्तं वा केयूराढ्य सुशोभिता ।
दुकूलवसना देवी श्यामवर्णाङ्गसुन्दरी ॥ ५३ ॥
दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् ।
आभङ्गे तु गुणांशं तु वेदांशं समभङ्गके ॥ ५४ ॥
नतमानमिति ख्यातं सूत्रं वक्ष्ये यथाक्रमम् ।
ललाटमध्याद्वामे तु नेत्रान्ते च पुटान्तके ॥ ५५ ॥
हनोर्वामे समालम्ब्य * नयोरन्तरे तथा ।
नाभेर्दक्षिणपार्श्वे तु वामोरुर्दक्षिणं स्पृशेत् ॥ ५६ ॥
अवामचरणे पार्ष्णि वामपार्श्वे तु लम्बयेत् ।
पादाङ्गुष्ठद्वयोश्चैव द्वन्तरं षोडशाङ्गुलम् ॥ ५७ ॥
तत्त्रिभागैकभागं तु पार्ष्ण्यन्तरमुदाहृतम् ।
एवमाभङ्गमाख्यातं समभङ्गमथ शृणु ॥ ५८ ॥
ललाटमध्यान्नासाग्रात् पादपार्ष्ण्योश्च मध्यमे ।
प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु वदाम्यहम् ॥ ५९ ॥
सूत्रास्तनयोर्मध्ये वामे स्यात्तु गुणाङ्गुलम् ।
तत्सूत्राद्दक्षिणे नाभे नीव्रकं द्व्यङ्गुलं भवेत् ॥ ६० ॥
तत्सूत्राद्दक्षिणे योनिमूलमध्यं युगाङ्गुलम् ।
तत्सूत्राद्वामतो जानु नीव्रं गुणाङ्गुलं भवेत् ॥ ६१ ॥
पादाङ्गुष्ठद्वयोश्चैव द्वन्तरं द्विनवाङ्गुलम् ।
तत्त्रिभागैकभागं तु पाष्ण्यौ द्वन्तरमिष्यते ॥ ६२ ॥
उत्पलोद्धृतहस्तोर्ध्व स्तनक्षस्य समं भवेत् ।
नाभेस्तु मणिबन्धान्तं सार्धत्रयोदशाङ्गुलम् ॥ ६३ ॥
पार्श्वमध्यमबाह्योश्च द्वन्तरं सप्तमात्रकम् ।
कटिसन्धैस्तु वेदां(शं) लम्बहस्तस्य कोर्परम् ॥ ६४ ॥
ऊर्वोस्तु मणिबन्धान्तं द्वन्तरं मनुमात्रकम् ।
ऊर्वाग्रात्तत्कराग्रान्तं दशाङ्गुलमुदाहृतम् ॥ ६५ ॥
एवं सङ्कल्पयेद्गौरीमिदमन्यच्च वक्ष्यते ।
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ६६ ॥
ललाटमध्यनासाग्रात् पादयोः पार्ष्णिमध्यमे ।
प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु प्रमीयते ॥ ६७ ॥
तत्सूत्रात्स्तनयोर्मध्ये दक्षिणे तु गुणाङ्गुलम् ।
तत्सूत्राद्वामतो नाभि नीव्रं द्व्यङ्गुलकं भवेत् ॥ ६८ ॥
तत्सूत्राद्वामतो योनिमुलमध्यं गुणाङ्गुलम् ।
तत्सूत्राद्दक्षिणे जानु नीव्रं गुणाङ्गुलं भवेत् ॥ ६९ ॥
शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि ।
सरस्वत्यादि शक्तीनां प्रागेव प्रोच्यतेऽथवा ॥ ७० ॥
इत्यंशुमान्काश्यपे मध्यमदशतालस्त्रीमानपटलः (सप्तपञ्चाशः) ॥