उत्तमं दशतालादि लक्षणं वक्ष्यतेऽधुना ।
मृण्मयं चेत्तु बिम्बं वै शूलस्थापनमाचरेत् ॥ १ ॥
शैलजा प्रतिमा चेत्तु शिलाग्रहणं लिङ्गवत् ।
लोहजं सकलं चेत्तु मधूच्छिष्ठेन निर्मितम् ॥ २ ॥
स्थण्डिलं शालिभिः कुर्यादालयाग्रे तु मण्टपे ।
कुशाशयं तु सङ्कल्प्य दर्भैः पुष्पैः परिस्तरेत् ॥ ३ ॥
तदूर्ध्वे फलकं न्यस्त्वा दारुजं प्राग्दिशाग्रकम् ।
आचार्यः शिल्पकर्ता च शुद्धमानं परिग्रहेत् ॥ ४ ॥
तन्मान सेविताङ्गानि त्वथ नैव तु कारयेत् ।
प्राक्शिरश्चोर्ध्व वक्त्रं तु फलकायां निधापयेत् ॥ ५ ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चाभ्यर्च्य देशिकः ।
तस्य दक्षिण पार्श्वे तु शिवाग्निं तु प्रकल्पयेत् ॥ ६ ॥
समिदाज्यैश्च चरुभिः हृदाचाष्टशताहुतिः ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥ ७ ॥
ध्यात्वा बिम्बा कृति त्वग्नि मध्ये मूलमुदाहरेत् ।
आत्मना निजतद्रूपं हृदयं मन्त्रमुच्चरन् ॥ ८ ॥
अङ्गुष्ठाग्रं तु पार्ष्ण्यन्ततलं सप्तदशाङ्गुलम् ॥ ९ ॥
हिक्कासूत्रादधो बाहुदीर्घम् ऋक्षाङ्गुलं भवेत् ।
कोर्परोच्चं द्विमात्रं स्यात् एकविंशत्प्रकोष्ठकम् ॥ १० ॥
सार्धत्रयोदशं तस्मात् मध्याङ्गुलाग्र सीमयुक् ।
ततो वै मुखविस्तारं सार्धभान्वङ्गुलं भवेत् ॥ ११ ॥
मुखान्तस्य तु विस्तारं सार्धत्रयोदशाङ्गुलम् ।
ग्रिवाग्रं सार्धनन्दांशं ग्रीवामूलं दशाङ्गुलम् ॥ १२ ॥
हिक्काधो बाहुसीमान्त चत्वारिंशच्छिवाधिकम् ।
सार्धद्वाविंशदंशं तु कक्षयोरन्तरस्ततम् ॥ १३ ॥
नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् ।
एकविंशति भागं स्यात् स्तनदेशे तु विस्तरम् ॥ १४ ॥
हृदयावधिविस्तारम् एकोनविंशदंशुलम् ।
कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् ॥ १५ ॥
एकोन विंशदंशं तु श्रोणी तारमुदाहृतम् ।
कटिरग्रविशालं तु त्रिनवाङ्गुलमुच्यते ॥ १६ ॥
तदधः कटिपार्श्वान्तं विस्तारार्धांश विंशतिः ।
पादोनमनुभागं तु ऊरुमूलविशालकम् ॥ १७ ॥
सपाद * * भागं तु ऊरुमध्यविशालकम् ।
पादोन धर्मभागं तु जातु व्यासमुदाहृतम् ॥ १८ ॥
स पादवसुभागं तु जङ्घामूलविशालकम् ।
पादोन सप्तभागं तु जङ्घामध्यविशालकम् ॥ १९ ॥
तयोर्मध्य ततं विप्रवस्सभागमुदाहृतम् ।
पादोन पक्षभागं तु नलकाविस्तृतं भवेत् ॥ २० ॥
त्रियवाधिकपञ्चांशं गुल्फव्यासमुदाहृते ।
अक्षादातवतुङ्गं तु सार्धवेदाङ्गुलं भवेत् ॥ २१ ॥
पार्ष्णितारं चितत्तुल्यं पार्ष्ण्योरुच्चं तदेव हि ।
तलमध्यं षडंशं स्यात् यवद्वयसमायुतम् ॥ २२ ॥
दलाग्रविस्तृतं सप्तभागमित्यभिधीयते ।
द्वियवाधिकवेदांशं पादाङ्गुष्ठायतं भवेत् ॥ २३ ॥
यवोपेतद्वयांशं तु तस्य विस्तारमुच्यते ।
तारार्धघनविस्तारं पादोनायतवर्तुलम् ॥ २४ ॥
त्रयवोपेत वेदांशं तर्जन्यायाममुच्यते ।
पादोन वेदभागं तु मध्याङ्गुलायतं भवेत् ॥ २५ ॥
यवोपेताग्निभागं तु अनामिकायाममिष्यते ।
सार्धपक्षांशमानं तु कनिष्ठाङ्गुलि दीर्घकम् ॥ २६ ॥
प्रादेशिन्यादिक्रमात्तारं नवसप्तार्थ सप्तषट् ।
यवमानं स्वतारार्धं नखं पूर्वोक्तवद्विदुः ॥ २७ ॥
तत्तदङ्गुलि विस्तारं वेदांशं विभजेद्बुधः ।
त्रिभागमङ्गुलाग्रोच्चं शेषं स्यात्तु नखोदयम् ॥ २८ ॥
त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् ।
स पादसप्तभागं तु कोर्परव्यासमुच्यते ॥ २९ ॥
पादोन रसभागं तु प्रोकोष्ठं मध्यविस्तृतम् ।
पादोन चतुरंशं तु मणिबन्ध विशालकम् ॥ ३० ॥
सप्तांशं तु तलायामं सार्धषण्मध्यमाङ्गुलम् ।
स पादभूतभागस्यानामिकायामयुच्यते ॥ ३१ ॥
यवाधिकं तु पञ्चांशं तर्जन्यायाममुच्यते ।
स पादवेदभागं तु दीर्घाङ्गुष्ठ कनिष्ठयोः ॥ ३२ ॥
अङ्गुष्ठमूलविस्तारं रुद्रायवमुदाहृतम् ।
तर्जन्याष्ट यवा ख्यातं नवयवाख्यमध्यमम् ॥ ३३ ॥
अनामिकाष्टयवा ख्याता कनिष्ठा सप्तसङ्ख्यया ।
अङ्गुष्ठाद्यङ्गुलान्तं तु मूलविस्तारमेव हि ॥ ३४ ॥
तन्मूलं तु कलेशांशं हीनमग्रविशालकम् ।
अग्रतारं रसांशे तु पञ्चांशं नखविस्तृतम् ॥ ३५ ॥
पार्श्वयोर्मांसलं शेषं वृत्तायतनखाकृतिः ।
स पादनखतारं तु नखयाममुदाहृतम् ॥ ३६ ॥
नखायामद्वयं चाग्रपर्वदीर्घं प्रशस्यते ।
अङ्गुष्ठं मूलपर्वस्य दीर्घं सप्तदशायवम् ॥ ३७ ॥
तर्जनीमूलपर्वं तु अनामिकोच्चद्वयाङ्गुलम् ।
मध्यमामूलपर्वस्य दीर्घमष्टादशा यवाः ॥ ३८ ॥
कनिष्ठमूलपर्वस्य त्रयोदशयवाः स्मृताः ।
मूलाग्रपर्वयोर्मध्य दीर्घमध्यस्थ पर्वसु ॥ ३९ ॥
अङ्गुष्ठं तु द्विपर्वस्या शेषा त्रिपर्वसंयुतः ।
सार्धभूताङ्गुलं विप्रतलाग्रं विप्रलम्भवेत् ॥ ४० ॥
रसांशमध्यविस्तारं हस्तस्यैव तलस्य तु ।
तलमूलविशालं तु सार्धषड्भागमुच्यते ॥ ४१ ॥
अङ्गुष्ठमूलमारभ्य तर्जनीमूलमन्तकम् ।
अङ्गुष्ठमूलमारभ्य मणिबन्धावसानकम् ॥ ४२ ॥
दीर्घं वेदाङ्गुलं प्रोक्तं तदर्धांशं घनं भवेत् ।
पार्ष्णिहस्तवनाग्न्यंशम् अग्रमङ्गुष्ठवत्क्षयम् ॥ ४३ ॥
अङ्गुल्यानामधस्तात्तु सार्धांशं मांसलं ततम् ।
द्विभागं पार्ष्णिहस्तस्य शुकोदरविशालकम् ॥ ४४ ॥
शेषमध्यतलं निम्नं भूतवेदाग्नि वा * *? ।
सूक्ष्मरेखां लिखेत्तस्मिन्शङ्खं वा चक्रशूलकम् ॥ ४५ ॥
पद्माभं वा तलं रेखां * * * * प्रकल्पयेत् ।
यवाकैकर्तुनिम्नं स्यात् रेखानां तु द्विजोत्तम ! ॥ ४६ ॥
वृत्ता पेक्षिताङ्गेषु व्यासं पञ्चविभाजिते ।
एकांशं तु परिग्राह्य विस्तारं द्विगुणायतम् ॥ ४७ ॥
यत्ततोहमिदं ख्यातं नाहं तेनैव कल्पितम् ।
कर्णोर्ध्वे शिरसा नाहं सास्त्रिंशाङ्गुलं भवेत् ॥ ४८ ॥
कर्णोर्ध्वे त्वपरे भागे द्वादशं चाङ्गुलं भवेत् ।
कर्णोर्ध्वे पूर्वभागं तु द्वाविंशाङ्गुलकं भवेत् ॥ ४९ ॥
कर्णयोः पृष्ठनाहं तु भान्वङ्गुलमुदाहृतम् ।
तयोर्मध्यस्थ भागं तु कर्णयोरन्तरस्थितिः ॥ ५० ॥
शिरसो मध्यमान्मूर्ध्नि मण्डलं चतुरङ्गुलम् ।
गुडाग्रकेशान्तं सार्धनवाङ्गुलमुदाहृतम् ॥ ५१ ॥
तदेव मण्डलात्कण्ठकेशान्तं च नवाङ्गुलम् ।
मण्डलात्पृष्ठकेशान्तं सार्धधर्माङ्गुलं भवेत् ॥ ५२ ॥
ललाटे तिर्यजानां तु नवाङ्गुल मुदाहृतम् ।
केशान्ता दक्षिसूत्रं स्यात् द्वयोर्मध्ये भ्रुवः स्थितिः ॥ ५३ ॥
भ्रुवाग्रौ तून्नतौ चैव चापाकारं यथा कुरु ।
द्व्यन्तरं तु भ्रुवोर्विप्र सार्धवेदयवं भवेत् ॥ ५४ ॥
पञ्चाङ्गुलं भ्रुवायामं मध्यतारं यवद्वयम् ।
बालचन्द्राग्रवत्क्षीणं भ्रुवाग्रौ तस्य मध्यमम् ॥ ५५ ॥
कनीनिकायामविस्तारं यवमानमुदाहृतम् ।
कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत् ॥ ५६ ॥
सितान्तं तत्समं व्यासं कृष्णमण्डलपार्श्वयोः ।
शबराकृतिकं वापि धनुराकृतिरेव वा ॥ ५७ ॥
अर्धचन्द्राकृतिर्वाथ नेत्राकारं प्रकल्पयेत् ।
तदाकारानुकूलोच्चं सितमण्डलयोर्द्विज ! ॥ ५८ ॥
नेत्रान्तेऽर्धयवं रक्तं मण्डलं तु सितांशकम् ।
तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् ।
तत्सार्धयवमानं तु ऊर्ध्ववर्मततं भवेत् ॥ ६० ॥
अधोवर्म च तत्तुल्यं दीर्घमष्टादशा यवम् ।
नेत्रयोरन्तरं विप्र ! स पादद्व्यङ्गुलं भवेत् ॥ ६१ ॥
अधोवर्मस्थितिर्विप्र ! नेत्रस्य तु विधीयते ।
कर्तुर्नाशमथोदृष्टिः ऊर्ध्वदृष्टिर्विपत्करम् ॥ ६२ ॥
बन्धुनाशो भवेत्पार्श्व दृष्टिश्चेद् ग्रामवासिनाम् ।
तस्मात्सर्व प्रयत्नेन सममेव निरीक्षणम् ॥ ६३ ॥
नेत्रमेवं समाख्यातं नासिका लक्षणं पुनः ।
नासिकापुट बाह्ये तु तारमष्टा दशायवम् ॥ ६४ ॥
तदर्धमग्रविस्तारं तस्यार्धं मूलविस्तृतम् ।
गोजिमूलात्तु नास्यग्रं तुङ्गं तद्द्व्यङ्गुलं भवेत् ॥ ६५ ॥
पुटयोर्मध्यभित्तिस्तु पुष्करं चेति विद्यते ।
अध्यर्धयवमालम्ब्य नासाग्रं पुटसूत्रतः ॥ ६६ ॥
सार्धवेदयवं गोजिदीर्घं तस्यार्धविस्तृतम् ।
उत्तरोष्ठस्योर्ध्वनिम्न गोजिनाम्ना प्रशंसितम् ॥ ६७ ॥
यवमानं ततं गोजि कृत्वैव नासिकां द्विज ! ।
स पाद चतुरंशं तु आस्यादीर्घं तिर्यग्विदुः ॥ ६८ ॥
उत्तरोष्ठायतं चास्यादीर्घं तुलमुदाहृतम् ।
उत्तरोष्ठस्य मध्ये तु तारं सार्धत्रयं यवम् ॥ ६९ ॥
आवृष्ठ्या कृतशान्तारम् आस्य सीमावसानकम् ।
यवमानघनं पली उत्तरोष्ठस्य चोपरि ॥ ७० ॥
त्रिवक्रे चोत्तरा पाली ततोष्ठ सदृशायताः ।
अष्टादशयवा प्रोक्ता अधरोष्ठस्य दीर्घकम् ॥ ७१ ॥
यवाधिकाङ्गुलं तस्य विस्तारं द्विजसत्तम ! ।
अधरं पालिका सार्ध यवमानमथोच्यते ॥ ७२ ॥
चिबुकादधरोच्चं तु सार्धषड्यवमुच्यते ।
किञ्चित्प्रहसिताकारम् आस्य युक्तानुकारयेत् ॥ ७३ ॥
अधराच्चिबुकालम्बं सार्धपक्षाङ्गुलं भवेत् ।
चिबुकात्तु हनोर्वंशं सार्धाष्टयवमुच्यते ॥ ७४ ॥
सार्धद्व्यङ्गुलकां तस्य तारमायतवृत्तवत् ।
हनोः सन्ध्यैकर्णबन्धान्तं त्वन्तरं द्वादशाङ्गुलम् ॥ ७५ ॥
हरोर्बाह्यं समारभ्य पादोन युगमात्रकम् ।
कर्णवेशमिति ख्यातं ततः कर्णं वदामिते ॥ ७६ ॥
नेत्रान्तात्कर्णबाह्यान्तं द्व्यन्तरं सप्तमात्रकम् ।
कर्णस्य तु विशालं तु अष्टादश यवाः स्मृताः ॥ ७७ ॥
अक्षिसूत्रोर्ध्वतः कर्णतुङ्गं चाष्टादशं यवम् ।
तदर्धं चोर्ध्वबन्धा तु शेषं वृत्तममूर्ध्वतः ॥ ७८ ॥
नेत्रसूत्रादधः कर्णबन्धं सप्तदशा यवा ।
सार्धवेदाङ्गुलं तस्मात् तस्य नालं प्रलम्बयेत् ॥ ७९ ॥
पूर्वाल ततं व्योमभागं सार्धांशका परम् ।
नालयोर्व्यासमाख्यातं घनमर्धाङ्गुलं तयोः ॥ ८० ॥
नालान्तरं त्रिपादं च वेदांशं व्रततायतम् ।
कर्णतुङ्गमशेषं तु यवैकोन नवाङ्गुलम् ॥ ८१ ॥
पिप्पली घनमर्धांशं दिगुणं हिततायतम् ।
उत्सेधं सार्धमात्रं स्यात् मूलादग्रं क्षयानुगम् ॥ ८२ ॥
द्विभागं पिबुषी दीर्घं द्वियवार्धांश विस्तृतम् ।
अक्षसूत्रादयः कर्णद्वारमर्धाङ्गुलं भवेत् ॥ ८३ ॥
कर्णद्वारन्तती निम्नं सममेव हि वर्तुलम् ।
कर्णपालीघनं सार्धयवनीवं चतुर्यवम् ॥ ८४ ॥
पृष्ठकर्णस्य विस्तारम् अध्यर्धाङ्गुलमुदाहृतम् ।
केशान्तात् पृष्ठकर्णं तु द्व्यन्तं द्व्यर्धमात्रकम् ॥ ८५ ॥
पृष्ठकेशावसाने तु कृकार्धांशकं नतम् ।
तस्याधः पृष्ठदीर्घोच्चं युगांशं त्रियवाधिकम् ॥ ८६ ॥
कृकाटिकादयः पृष्ठग्रिवाग्रं तु नवाङ्गुलम् ।
पृष्ठग्रीवस्य मूलस्य तारं सार्धदशाङ्गुलम् ॥ ८७ ॥
मूलादग्रं क्रमात्क्षीणं ग्रीवं वृत्ताङ्गमुच्यते ।
हिक्कासूत्रोपरि स्कन्धसन्धीतुङ्गं युगाङ्गुलम् ॥ ८८ ॥
कर्णबन्धादयस्सार्ध षण्मात्रं स्कन्धसीमकम् ।
सप्ताङ्गुलघनं स्कन्धं हिक्कावधि क्रमात्क्षयम् ॥ ८९ ॥
पृष्ठग्रीवादधस्तात्तु ककुन्मानं दशाङ्गुलम् ।
तस्मादा कटिसन्धान्त वशमृक्षांशमायतम् ॥ ९० ॥
तद्वशं नत विस्तारं सार्धषोडशकं यवम् ।
वंशमानादधस्तात्तु वंशमूलं गुणाङ्गुलम् ॥ ९१ ॥
अपरे तुङ्गमेवं स्यात् तस्मिन्व्यासं वदामि ते ।
सार्ध ऋक्षाङ्गुलं प्रोक्तं कक्षयोरन्तरं द्विज ! ॥ ९२ ॥
कक्षाधोहंसफलकातुङ्गं सप्ताङ्गुलं भवेत् ।
कक्षोर्ध्वे बाहुसीमान्तं सप्ताङ्गुलमुदाहृतम् ॥ ९३ ॥
सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ।
नाभिसूत्रे तु विस्तारं सार्धविंशाङ्गुलं भवेत् ॥ ९४ ॥
कटिसन्धौ तु विस्तारं त्रिषडंशमुदाहृतम् ।
पादोन धर्मभागं तु स्फिक् पिण्डं प्रतिविस्तृतम् ॥ ९५ ॥
सुत्तौ तौ समाख्यातौ तयोर्मध्ये चतुर्यवम् ।
अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ॥ ९६ ॥
कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् ।
स पादषोडशमात्रं स्यात् स्तन सूत्रे तु विस्तृतम् ॥ ९७ ॥
स वेदद्वादशांशं तु मध्यपार्श्वघनं भवेत् ।
श्रोणी मध्यघनं पार्श्वे सप्तदशाङ्गुलं भवेत् ॥ ९८ ॥
ततः श्रोण्युदयं विप्र ! सप्तमात्रमुदाहृतम् ।
नाभिसूत्रादधश्चोर्ध्वे चतुर्थं त्र्यङ्गुलं हि तत् ॥ ९९ ॥
श्रोण्यधस्तात् कटेरुच्चं सार्धभूताङ्गुलं भवेत् ।
तत्कटेस्तु घनं धीमान् सार्धभान्वङ्गुलं भवेत् ॥ १०० ॥
स्फिक् पिण्डं चोरुमूलात्तु नीव्रं सार्धयुगाङ्गुलम् ।
तत्पिण्डालम्बनं चार्ध सूत्रान्दाधोगाङ्गुलम् ॥ १०१ ॥
श्रोण्यधस्तात्कटे रुच्चं सार्धसूत्रादधोयुगाङ्गुलम् ।
कक्षाग्रधरनिम्नं तु सार्धद्व्यङ्गुलकं भवेत् ॥ १०२ ॥
ग्रीवा सुवृत्ति नाहं तु रेखा द्वौ परिवेष्टितम् ।
कर्णमूलेन तत्तारं तुङ्गं चैव चतुर्यवम् ॥ १०३ ॥
हिक्काया स्वाक्षमात्रं तु जर्तृसूत्रमुदाहृतम् ।
हिक्कामध्यात्तु कक्षान्तं भान्वंशात्पादहीनकम् ॥ १०४ ॥
हिक्कादास्तनसूत्रान्तं स्तनान्तरसमं भवेत् ।
हृदायस्तनयोर्मध्ये निम्नमध्यर्धमात्रकम् ॥ १०५ ॥
तिलं वै कर्णमध्ये तु यवत्रयप्रमाणकम् ।
तस्यार्धं वा समावृत्तं कल्पयेत्तु त्रिपुण्ड्यवत् ॥ १०६ ॥
कर्णमूले नतं हिक्कासूत्राधस्तात्प्रकल्पयेत् ।
हिक्कासूत्रोपरिष्ठात्तु नीलकर्णं प्रकल्पयेत् ॥ १०७ ॥
हृदयास्तन पीठोच्चं द्व्यङ्गुलं समुदाहृतम् ।
सप्तादशयवा ख्यातं स्तनमण्डलविस्तृतम् ॥ १०८ ॥
तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् ।
नाभेस्तु नतविस्तारं व्योमांशं द्वियवाधिकम् ॥ १०९ ॥
तन्नाभिदक्षिणावर्तं मूलतारं यवद्वयम् ।
तन्नाभ्यवटमध्यस्थं नाभिसूत्रं द्विजोत्तम ! ॥ ११० ॥
नाभेरथ पादेन श्रोण्युच्चं पञ्चमात्रकम् ।
तदधस्तात्कटिश्रोणी सार्धत्र्यङ्गुलकं भवेत् ॥ १११ ॥
तस्मादामेढ्रमूलान्तं मेढ्रपीठं युगाङ्गुलम् ।
स पादपञ्चमात्रं तु लिङ्गदीर्घमुदाहृतम् ॥ ११२ ॥
लिङ्गमूलविशालं तु सप्तादशयवा तता ।
लिङ्गायामत्रिभागैकमग्र मण्ड्या यवं भवेत् ॥ ११३ ॥
तदग्रग्रन्थि(गण्डि ?)मूलं तु यवमानं बृहत्तरम् ।
रक्तोत्पलमुकुलाभम् अग्रमण्ड्याग्रमुच्यते ॥ ११४ ॥
मुष्कायामविशालं तु सार्धवेदाङ्गुलं भवेत् ।
घनं सार्धगुणांशं तु तन्मूलोर्ध्वोऽग्रबन्धनम् ॥ ११५ ॥
मेढ्रपीठसमूलस्य व्यासं सप्तार्धमात्रकम् ।
मेढ्रपीठस्य मूलान्तम् ऊरुमूलस्य मांसलम् ॥ ११६ ॥
जानुमण्डलविस्तारं स पादं चतुरङ्गुलम् ।
सार्धत्र्यङ्गुलकं प्रोक्तं जानुमण्डलनीव्रकम् ॥ ११७ ॥
सार्धद्व्यङ्गुलकं प्रोक्तं पृष्ठजान्वोन्नतं भवेत् ।
मध्ये तु पाश्वयोः शेषं यथा सौन्दर्यमाचरेत् ॥ ११८ ॥
इत्यंशुमान्काश्यपे उत्तमदशतालविधिपटलः (षट्पञ्चाशः) ॥ ५६ ॥