५२

अथातो नागरादीनां लिङ्गानां पीठलक्षणम् ।
आदौ तु वक्ष्यते विप्र सकलानां ततो विदुः ॥ १ ॥

शैलजे तु शिलापीठं सुधयेष्टकयापि वा ।
दारुजे दारुजं वाथ इष्टकामयमेव वा ॥ २ ॥

रत्नलोहादि लिङ्गानां स्वयोनिं लोहजं तु वा ।
लिङ्गोत्सेधसमं पीठ विस्तारं चोत्तमं भवेत् ॥ ३ ॥

पूजांशोच्च समं पीठं तारं कन्यसमुच्यते ।
तयोर्मध्येऽष्टभागे तु उत्तमादि त्रयं त्रयम् ॥ ४ ॥

पीठव्यासं त्रिधाभज्य द्विभागं चोत्तमोन्नतम् ।
व्यासार्धमधमोत्तुङ्गं तयोर्मध्येष्टभाजिते ॥ ५ ॥

नवधापीठतुङ्गं तु उत्तमादि त्रयं त्रयम् ।
क्रमेण कथिता विप्र नागरा ह्येव मुच्यते ॥ ६ ॥

लिङ्गस्योच्च समं व्यासं श्रेष्ठं तन्नवभाजिते ।
सप्तांशं कन्यसं व्यासं तयोर्मध्येऽष्टभाजिते ॥ ७ ॥

नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि ।
उदयं वसुधा भज्य द्विभागं वानलांशके ॥ ८ ॥

एकांशं वा विशेषेण स्थलांशे तु निवेशयेत् ।
शेषं पीठोदयं ख्यातम् एवं द्राविडमाचरेत् ॥ ९ ॥

पूजांशपरिणाहेन समं श्रेष्ठविशालकम् ।
परिणाहे कलांशे तु भान्वंशमधमन्ततीः ॥ १० ॥

तयोर्मध्येष्टभागे तु नवधा पीठविस्तृतम् ।
विष्णुभागसमोच्चं तु पीठं कन्यसमुच्यते ॥ ११ ॥

सपादं श्रेष्ठमाख्यातं तयोर्मध्येऽष्टभाजिते ।
नवधा पिण्डिकोत्तुङ्गं वेसरे ह्येवमाचरेत् ॥ १२ ॥

अथवा लिङ्गविष्कम्भं त्रिगुणं पीठविस्तृतम् ।
अथवा लिङ्गविष्कम्भं चतुरश्रीकृते सती ॥ १३ ॥

तत्कर्णद्विगुणं वाथ सार्धद्विगुणमेव वा ।
त्रिगुणं वा विशालं तु पीठानां तु विशेषतः ॥ १४ ॥

गर्भगेह त्रिभागैकं चतुर्भागैकमेव वा ।
पीठव्यासं समाख्यातं विष्णुभागसमोन्नतम् ॥ १५ ॥

सामान्यं नागरादीनां लिङ्गानां पिण्डिका इमाः ।
उपानबाह्यविस्तारं सर्वेषां तु विशेषतः ॥ १६ ॥

तदष्टा नवदशांशेन हीनमग्रविशालकम् ।
विष्णुभागसमोत्तुङ्गं सपादं सार्धमेव वा ॥ १७ ॥

सामान्यपिण्डिकानां तु नागरादि समुन्नतम् ।
लिङ्गानां सकलानां च सामान्यं पीठलक्षणम् ॥ १८ ॥

सकलोदये नवांशे तु व्योमांशं कन्यसोदयम् ।
गुणांशं श्रेष्ठमानं तु तयोर्मध्येऽष्टभाजिते ॥ १९ ॥

नवधा पीठतुङ्गं तु तस्य विस्तारमुच्यते ।
पीठतुङ्गसमव्यासम् अधमं पीठमुच्यते ॥ २० ॥

द्विगुणांशोत्तमव्यासं तयोर्मध्येऽष्टभाजिते ।
नवधा विस्तृतं ख्यातं सकलानां विशेषतः ॥ २१ ॥

पिण्डिका गोमुखोपेता लिङ्गानां तु विधीयते ।
गोमुखारहितं पीठं सकलानां विशेषतः ॥ २२ ॥

समाश्रं समवृत्तं वा लिङ्गानां तु विधीयते ।
सायताश्राय वृत्तं वा प्रतिमानासनं तु वा ॥ २३ ॥

पद्मपीठं भद्रपीठं वेदिका परिमण्डलम् ।
पीठं चतुर्विधं ख्यातम् अलङ्कारं द्विजोत्तम ! ॥ २४ ॥

कलांशं विभजेत्तुङ्गम् उपानोच्चं द्विभागया ।
भूतांशोच्चमधः पद्मं कण्ठं पादुकसादृशम् ॥ २५ ॥

ऊर्ध्वपद्मं तु वेदांशं द्विभागं पट्टिकोदयम् ।
शिवांशं घृतवार्युच्चं षोडशं दलसंयुतम् ॥ २६ ॥

क्षुद्रं दलं तयोर्मध्येऽप्यष्टौ वाथ महादलम् ।
अर्धाङ्गुलं दलाग्रोच्चं मानाङ्गुलेन सुव्रत ! ॥ २७ ॥

लिङ्गभेदाङ्गुलार्धं वा दलाग्रस्य समुच्छ्रयम् ।
पीठतार त्रिभागैकं गोमुखादीर्घमुच्यते ॥ २८ ॥

तद्दीर्घसदृशं तस्य मूलव्यासमुदाहृतम् ।
मूलतारत्रिभागैकं तस्याग्रं विस्तृतं भवेत् ॥ २९ ॥

मूलादग्रं क्रमात्क्षीणं तद्घनं व्याससादृशम् ।
त्रिपादं वार्धवा नीव्र त्रिभागैकांशमेव वा ॥ ३० ॥

व्यासत्रिभागभागं तु जलमार्गविशालकम् ।
पट्टिकोर्ध्वसमं निम्नं तस्यादीषं ततं तु वा ॥ ३१ ॥

उपानाद्यङ्गवेशं च नीव्रं सौन्दर्यमाचरेत् ।
अधिष्ठानाङ्गवद्वेश नीव्रं वा परिकल्पयेत् ॥ ३२ ॥

पद्मपीठं समाख्यातं भद्रपीठमथोच्यते ।
कृत्वा तु षोडशोत्सेधं भागेनोपानमुच्यते ॥ ३३ ॥

जगत्युच्चं तु वेदांशं गुणांशं कुमुदोदयम् ।
शिवांशं पट्टिकामानं कण्ठमानं गुणांशकम् ॥ ३४ ॥

तदूर्ध्वकम्पमेकांशं द्विभागा पट्टिका भवेत् ।
शश्यंशं घृतवारि स्यात् एतत्तु भद्रमुच्यते ॥ ३५ ॥

पीठोच्चे तु कलांशे तु द्विभागं पादुकोदयम् ।
गुणांशं जगती मानं कुमुदोच्चं तु तत्समम् ॥ ३६ ॥

व्योमांशं कम्पमानं तु कण्ठमानं द्विभागया ।
तस्योर्ध्वकम्पमेकांशं गुणांशा पट्टिका भवेत् ॥ ३७ ॥

एकांशं घृतवारि स्याद् एतद्भद्रकमुच्यते ।
भद्रमेव तथा ख्यातं वेदिपीठमथोपरि ॥ ३८ ॥

त्रयोदशांशे पीठोच्चं द्विभागं पादुकोदयम् ।
तदूर्ध्वपद्मतत्तुल्यं कम्पमंशेन कारयेत् ॥ ३९ ॥

द्विभागं कण्ठमानं तु ऊर्ध्वकम्पं शिवांशकम् ।
तदूर्ध्वे पद्ममक्षांशं पट्टिका चैव तत्समम् ॥ ४० ॥

घृतवार्युदयं व्योमभागेन परिकल्पयेत् ।
अथवोदयं तु वस्वंशे उपानोच्चं शिवांशकम् ॥ ४१ ॥

एकांशं घृतवारि स्यात् शेषं वेदीयुगाश्रकम् ।
वेदिका पीठमाख्यातं तदेवाक्षांशपट्टिका ॥ ४२ ॥

कर्तव्यं च त्रिधैकं हि वेदिका पीठमुच्यते ।
पद्मं वा भद्रपीठं वा वृत्तं तत्परिमण्डलम् ॥ ४३ ॥

अधिष्ठानाङ्गवद्वाथ पीठाङ्गं परिकल्पयेत् ।
उपपीठाङ्गवद्वाथ तत्तन्नाम्ना प्रकीर्तिताः ॥ ४४ ॥

जयदं चतुरश्रं स्यात् योन्याकारं प्रकल्पयेत् ।
शान्तिः स्याद्धनुषाकारं गुणाश्रं रिपुनाशनम् ॥ ४५ ॥

वर्धनाहे तु वृत्तं स्यात् पञ्चाश्रं पुष्टिदं भवेत् ।
रोगनाशकरं चाष्टकोणमेवं क्रमाद्विदुः ॥ ४६ ॥

एष्वाकारेषु पीठाङ्गान् प्रागुक्त विधिना कुरु ।
द्रव्योत्कृष्टैर्नवा वाथ जीर्णोद्धारे द्विजोत्तम ! ॥ ४७ ॥

पूर्वाकृतिर्यथा कार्यं तथा कुर्यात्पुनः पुनः ।
पश्चादन्या कृतिर्विप्र गुणं वा गदायतम् ॥ ४८ ॥

आर्जवं मुखभद्रं वा भद्रं चेत्समभद्रवत् ।
लिङ्गानां सायतं पीठं न कुर्यात्तु कदाचन ॥ ४९ ॥

समाश्रं समवृत्तं वा सायताश्रं तथान्यकम् ।
सर्वं च सकलानां तु कर्तव्यं सम्पदां पदम् ॥ ५० ॥

पिण्डिका लक्षणं प्रोक्तं पादशैलादिकं शृणु ।

इत्यंशुमान्काश्यपे पिण्डिका लक्षण पटलः (द्विपञ्चाशः) ॥ ५२ ॥