५१

अथ वक्ष्ये विशेषेण शिवलिङ्गस्य लक्षणम् ।
संहारे विषया भूतालयं गच्छन्त्यशेषतः ॥ १ ॥

यथा सृष्टिस्तथा तस्मिन् सृष्टिर्वा लिङ्गमुच्यते ।
संहारे निष्कलं शान्तं पण्यमानमुदीरितम् ॥ २ ॥

मुक्तित्वं सर्वजन्तूनां स्वात्मनः परमं विना ।
सर्वत्र व्यापिनं गुह्यं सर्वलोकैकनायकम् ॥ ३ ॥

तस्माद्वै सृष्टिकाले तु शान्तितत्वं समुद्भवेत् ।
तच्छान्तेः शक्तिसम्भूतं तस्मान्नादस्य सम्भवम् ॥ ४ ॥

तस्माद्बिन्दुस्समुत्पन्नं नादं सादाख्यमुच्यते ।
बिन्दोर्मनोन्मनी ख्याता तस्यामीश्वरसम्भवः ॥ ५ ॥

ईश्वरात्तु महेशस्य सृष्टिस्तस्मात्तु वैष्णवम् ।
तस्मात्प्रजेशस्सम्भूतः प्रजेशात्तु विशेषतः ॥ ६ ॥

त्रीणि चैव तु त्रिंशच्च त्रिशत त्रिसहस्रकम् ।
देवता ऋषयश्चैव दानवाप्सरयोनयः ॥ ७ ॥

सम्भवास्तुदिता विप्र तेष्वादौ त्रीणि निष्कलम् ।
बिन्द्वन्तं सकलं ख्यातं मिश्रं नादान्यबिन्दुकम् ॥ ८ ॥

नादं लिङ्गाकृतिर्ज्ञेया बिन्दुः पीठाङ्गमुच्यते ।
लिङ्गं शिवमयं ख्यातं पीठं तस्यात्मिकायतम् ॥ ९ ॥

तस्माच्छिवात्मिकाश्चैव शिवात्मी चानलोष्णवत् ।
जगदार्तिविनाशार्थं सर्वप्राणि हितावहम् ॥ १० ॥

देवादीनां हितार्थाय ध्यानपूजा निमित्तकम् ।
लिङ्गयोनि प्रकारेण सादाख्यं तत्वमुद्भवम् ॥ ११ ॥

सर्वेषामुदयार्थं तत् प्रोच्यते लिङ्गलक्षणम् ।
तल्लिङ्गं त्रिविधं प्रोक्तं चलं चैवाचलं तथा ॥ १२ ॥

चलाचलमिति ख्यातं क्रमेणैव विशेषतः ।
रत्नजं लोहजं वाथ लिङ्गं कृत्वा सयोनिकम् ॥ १३ ॥

लिङ्गद्रव्येतरं वाथ योनिं कृत्वा लक्षणम् ।
शिरसोद्वर्तनोपेतं लक्षणोद्धारवर्जितम् ॥ १४ ॥

वृत्ताकारमशेषं तु कृते लिङ्गोदयार्थकम् ।
उदयेनलैकभागं वा वेदांशैकमथापि वा ॥ १५ ॥

पीठं प्रवेशयेच्छेषं दृश्यमानसमन्वितम् ।
गमागमाक्षमं चैष्टदंशे न्यस्त्वोद्धृतक्षयम् ॥ १६ ॥

यत्तल्लिङ्गं चलं ख्यातम् अचलस्य त्रिभागिकम् ।
शैलजं बाणजलिङ्गं वा गर्भगेहे तु विष्ठरे ॥ १७ ॥

स्थापयेच्चलवत्पीठे चैवं दृश्यं चलाचलम् ।
अमजं सूत्रसंयुक्तं बाणलिङ्गं तु तद्विना ॥ १८ ॥

तेष्वादौ चललिङ्गं तु लक्षणं वक्ष्यतेऽधुना ।
सुमासतिथिनक्षत्रे लग्ने वारे शिलां ग्रहेत् ॥ १९ ॥

आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमारभेत् ।
दिव्यन्तरिक्षभौमादिनिमित्तान्युपलक्षयेत् ॥ २० ॥

वायसे दक्षिणे वामाद् आगतश्च तथैव च ।
एवं वै दक्षिणे वामे हस्तिमांसेन संयुतम् ॥ २१ ॥

कन्यागोदर्शनं चैव गायस्त्वा वाहनं तथा ।
दध्ना च पूर्णकुम्भं च क्षीरकुम्भ तथैव च ॥ २२ ॥

पुष्पं पुष्पधृतो विप्र सुता भर्तृवती स्त्रियः ।
अन्नं च मांसहारं च शिवभक्तिपरायणः ॥ २३ ॥

ज्वालानलं च दीपं च जलैः पूर्णघटं वृषम् ।
वराहं च गजं चैव वेश्या चात्यन्तसुन्दरी ॥ २४ ॥

शुभान्येतानि दिव्यानि अशुभं विपरीतकम् ।
उल्कापातं दिशादाहं न्वहाकथ (?) प्रवर्तनम् ॥ २५ ॥

अशुभान्यन्तरिस्थं भौमान्द्या शोभनोच्यते ।
मुक्तकेशशिराश्चैव विकीर्णाकेशसंयुताः ॥ २६ ॥

तैलाभ्यङ्गं च नग्नं च काषाय वसनान्वितम् ।
दर्शनेन च मृद्भाण्डैः तैलपात्रं तथैव च ॥ २७ ॥

छिन्ननासिकमर्त्याश्च हीनाङ्गास्त्वधिकाङ्गकाः ।
अभावपुत्रनारी च विधवा च तथैव च ॥ २८ ॥

तथैव बहुभक्षश्च भौमान्येतानि वर्जयेत् ।
शुभं चेद्गमनं कुर्यात् अशुभेषु निवर्तयेत् ॥ २९ ॥

शुभेषु गच्छेदाचार्यः शिल्पिना गमनं चरेत् ।
पर्वते सागरे तीर्थे क्षेत्रे चैव वने तथा ॥ ३० ॥

क्षीरवृक्षसमीपे च देवहर्म्यसमीपके ।
नदी तटाकतीरे वा शिलां सङ्गृह्य देशिकः ॥ ३१ ॥

अन्य स्थानेन गृह्यात्तां गृहीते कर्तृनाशनम् ।
श्वेतारक्ता च पीता च कृष्णा चैव चतुर्विधा ॥ ३२ ॥

गोक्षीरशङ्खकुन्देन्दु मुक्ता स्फटिकसन्निभा ।
मल्लिकाकुसुमाभा च श्वेतायां सप्तधा स्मृताः ॥ ३३ ॥

जपालिंशुकपुष्पाभा इन्द्रगोपसमप्रभा ।
दाडिमी पुष्पसङ्काशा बन्धूककुसुमप्रभा ॥ ३४ ॥

जातिलिङ्गसमाकारा शशरत्नसमप्रभा ।
रक्ता सप्तविधा ख्याता एवमेव द्विजोत्तम ! ॥ ३५ ॥

सुवर्णसदृशाकारा सर्षपपुष्पसन्निभा ।
आसनापुष्पसङ्काशा हरिद्रस्य च चूर्णवत् ॥ ३६ ॥

कूष्माण्डकुसुमप्रख्या हेरण्डकुसुमप्रभा ।
आरग्वधस्य पुष्पाभा पीतशैलाद्विसप्तधा ॥ ३७ ॥

महिषाक्षाञ्जनाभासा नीलोत्पलसमप्रभा ।
भृङ्गमायूरकर्णाभा महिषस्य च नासिवत् ॥ ३८ ॥

राजावर्त निभाकारा कृष्णमुद्गसमप्रभा ।
ह्रस्वमुद्गसमाकारा कृष्णशैला दश स्मृता ॥ ८९ ॥

श्वेता रक्ता च पीता च कृष्णा विप्रादिषु क्रमात् ।
सर्वकामार्थ मोक्षं च दद्यात्सततमेव च ॥ ४० ॥

परेषां वा परे श्रेष्ठं परेषां परमं विना ।
प्रतिलोमानुलोमाभ्यां बीजयोग्यं तु गृह्यताम् ॥ ४१ ॥

आचार्यः शिल्पिभिश्चैव सितवस्त्रधरावुभौ ।
शुक्लमाल्यानु लिप्ताङ्गौ पञ्चाङ्गभूषणान्वितौ ॥ ४२ ॥

कुठारादीनि सङ्ग्राह्य शिलां गच्छेत्समाहितौ ।
यस्मिन्देशे शिलांशं तु तां कृत्वा तु प्रदक्षिणम् ॥ ४३ ॥

दोषादोषां शिलां दृष्ट्वा परिच्छेद्य विशेषतः ।
वातातपाग्नि दग्धां च सङ्कीर्णं क्षीरवारिणा ॥ ४४ ॥

दुर्देशस्थां तटस्थां च कर्मान्ते तु सुयोजिताम् ।
शर्कराढ्यां तथैवान्यैः झर्झरां रुक्षसन्निभाम् ॥ ४५ ॥

रेखाबिन्दुकलङ्कादि संयुक्तां परिवर्जयेत् ।
सूत्रपातवदाकारा वीररश्मि समायुता ॥ ४६ ॥

वर्षपातवदाकारा रेखा वै त्रिविधा स्मृता ।
जम्बूफलसमाकारा स्तनाक्षसदृशोपमा ॥ ४७ ॥

अन्यद्वावृत्तसाकारा त्रिविधो बिन्दुरेव हि ।
कृष्णलोहनिभाकारा कृष्णभृङ्गस्य सन्निभा ॥ ४८ ॥

शिखिपिञ्छनिभाकारा कलङ्का च चतुर्विधा ।
खर्जूर पत्र साकारा दूर्वास्तम्भ निभा तथा ॥ ४९ ॥

वेण्वङ्कुरवदाकारा लूतपादवदाय च ।
इक्षोरग्रसमाकारा हरीका पञ्चधा स्मृता ॥ ५० ॥

शङ्खाभं हेमसदृशं कांसलोहसमप्रभम् ।
दरिरूपं त्रिधा ख्यातं सर्वदोषभयावहम् ॥ ५१ ॥

कृष्णाश्वनि सिता रेखा सर्वसम्पत्समृद्धिदा ।
कृष्णे कृष्णा तु नाशाय श्वेते कृष्णा तथैव च ॥ ५२ ॥

तस्मात्सर्वप्रयत्नेन इतरा परिगृह्यताम् ।
हरिका कृष्णशैले तु सितवर्णं विशेषतः ॥ ५३ ॥

खर्जूरपत्रसदृशा दूर्वास्तम्बाकृतिः शुभा ।
अन्या कृत्याशुभा ख्याता गोधान्यधननाशनम् ॥ ५४ ॥

कलङ्कं रोगदं ज्ञेयं त्रासं राष्ट्र विनाशनम् ।
बिन्दुः पुत्रविनाशं स्यात् दरी सर्वविनाशनम् ॥ ५५ ॥

एवं परीक्ष्य बहुधा कारयेल्लक्षणान्विताम् ।
बाला युवतिर्वृद्धा च पुंस्त्रीनपुंसकं तथा ॥ ५६ ॥

सुरैराकृतिभेदैश्च परिच्छेदविधिं शृणु ।
घनकम्बुध्वनी ह्रस्वा शिला बाला इति स्मृता ॥ ५७ ॥

घण्टाध्वनिसमा दीर्घा यौवना सा प्रकीर्तिता ।
विवृतध्वनिसंयुक्ता या सा वृद्धा प्रकीर्तिता ॥ ५८ ॥

घण्टाध्वनि समादान्ता दीर्घा सा पुंशिला युवा ।
तालध्वनिसमाकारा दीर्घा या सा शिला स्त्रियः ॥ ५९ ॥

अस्निग्धा वाथ रुक्षा वा स्वरहीना नपुंसका ।
सुरैरेव समाख्याताम् आकृत्या भेदमुच्यते ॥ ६० ॥

चतुरश्रा च वस्वश्रा स्त्रीशिलेति प्रकीर्तिता ।
आयताश्रा च वृत्ता च दशद्वादशकोणका ॥ ६१ ॥

पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ।
दशाश्रां द्वादशाश्रां च बालां वृद्धां च वर्जयेत् ॥ ६२ ॥

पुंशिला गृहितं लिङ्गं स्त्रीशिलाभिस्तु पिण्डिका ।
नपुंसकशिलायां तु पादाधारशिलायद् ॥ ६३ ॥

कर्तव्यं विपरीतं यत् तदा कर्तुर्विनाशनम् ।
प्रागग्रां वोदगग्रां वा शिलां सङ्ग्राह्य शिल्पिकः ॥ ६४ ॥

प्रागग्रे पश्चिमे मूलेप्युदगग्रे च दक्षिणे ।
अधोभागे मुखं ख्यातम् ऊर्ध्वगता भवेत् ॥ ६५ ॥

एवं परीक्ष्यसङ्ग्राह्या गव्यैः क्षाल्यो हृदा बुधः ।
सद्यमन्त्रेण संस्नाप्य गन्धपुष्पादिभिर्यजेत् ॥ ६६ ॥

तस्यास्तु शाङ्करे देशे शान्तिहोमं च कारयेत् ।
अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ॥ ६७ ॥

समिधं हृदयेनैव मूलेनाज्यं तु होमयेत् ।
चरुहोममघोरेण पुरुषेणैव तण्डुलम् ॥ ६८ ॥

तिलमीशानमन्त्रेण सर्षपं कवचेन तु ।
शतमर्धं तदर्धं वा प्रत्येकं तु शताहुतिः ॥ ६९ ॥

स्विष्टमग्नेतिमन्त्रेण पूर्णाहुतिमथाचरेत् ।
ततो वह्निं समुद्वास्य पूजोद्वासादिकं न्यसेत् ॥ ७० ॥

शिलां छेद्य हृदा विद्वान् शस्त्रमन्त्रेण पूजयेत् ।
कवचं तु समुच्चार्य शिलाच्छेदनमाचरेत् ॥ ७१ ॥

तदूर्ध्वं शिल्पिकार्यं तु स्थपत्यादि समाचरेत् ।
गर्भगेहप्रमाणं च द्वारमानं तथैव च ॥ ७२ ॥

स्तम्भं च तालमानं च हस्तमानाङ्गुलं तथा ।
लिङ्गमानोद्धृतं सप्त तेषां प्रत्येकनैकधा ॥ ७३ ॥

गर्भगेहं तु पञ्चांशं गुणांशं श्रेष्ठमुच्यते ।
श्रेष्ठोत्तमादिनवधा प्रोच्यते द्विजसत्तम ! ॥ ७४ ॥

प्रासादे त्वादिभूमौ तु स्तम्भदीर्घसमं हि तत् ।
तदुत्तममितिख्यातं तस्यार्धं मध्यमं भवेत् ॥ ७५ ॥

तयोर्मध्येष्टभागे तु नन्दभेदं द्विजोत्तम ! ।
स्तम्भयामततैवे तु नवभागं विभाजिते ॥ ७६ ॥

नवधा लिङ्गमानं तु स्तम्भमानं द्विजोत्तम ! ।
अधिष्ठानोदये विप्र स्तम्भमानवदाचरेत् ॥ ७७ ॥

एकहस्तं समारभ्य साष्टांशं च विवर्धनात् ।
नवहस्तविधिर्यावत् सङ्ख्या षष्टि स पञ्चकम् ॥ ७८ ॥

पञ्चहस्तविमानादि हर्म्यं हस्तावसान्वितम् ।
पञ्चहस्तादधो हर्म्यं लिङ्गं स्तम्भवशं विना ॥ ७९ ॥

हस्तादि गुणहस्तान्तं विकल्पाभास हर्म्ययोः ।
त्रिहस्तं षट्करान्तं तु लिङ्गं छन्द विमानके ॥ ८० ॥

षट्करादि नवान्तं तु लिङ्गं जाति ग्रहोचितम् ।
एवं हस्तं समाख्यातं तालमानमथोच्यते ॥ ८१ ॥

तालादि नवतालान्तम् एकतालविवर्धनात् ।
सा लिङ्गो नवसङ्ख्या स्युः कल्प्यजातिरथो भवेत् ॥ ८२ ॥

त्रयोदशाङ्गुलमारभ्य यावन्नन्दशताङ्गुलम् ।
तदेकानैकभागं च लिङ्गमानाङ्गुलेन तु ॥ ८३ ॥

त्रिभागसहितं लिङ्गं हस्तक्षीणं न कारयेत् ।
हस्तमानात्क्षयं लिङ्गं वृत्ताकारं विशेषतः ॥ ८४ ॥

वेदानलोदयोवांशं विष्ठरे योजयेद्बुधः ।
शेषं तु दृश्यमानं स्यात् विकल्पाभास हर्म्यके ॥ ८५ ॥

विष्ठरे वेशलिङ्गं तु विकल्पो परिगृहे विना ।
एकाङ्गुलं समारभ्य यावद्रुद्राङ्गुलावधि ॥ ८६ ॥

लोहजं रत्नजं वत्यूर्ध्वे शैलजमुच्यते ।
त्रयोदशाङ्गुलाधस्तात् शैलजं तु न कारयेत् ॥ ८७ ॥

एवं त्वनेकभेदेन प्रोच्यते लिङ्गमानकम् ।
नागरं द्राविडं लिङ्गं वेसरं च वदाम्यहम् ॥ ८८ ॥

लिङ्गोदये तु वेदांशम् एकांशं कन्यसं ततो ।
तुङ्गे त्र्यंशं शिवांशं तु विस्तारं श्रेष्ठमुच्यते ॥ ८९ ॥

तयोर्मध्येऽष्ट भागे तु नवधा तारमुच्यते ।
अधोदये कलांशे तु पञ्चांशं शान्तिकं भवेत् ॥ ९० ॥

वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् ।
आभिचारं द्विभागं स्याद् व्यासमेवं चतुर्विधम् ॥ ९१ ॥

एवं त्रयोदशव्यासं नागरे तु विधीयते ।
लिङ्गोच्चे द्विन्नवांशे तु रसभूतयुगांशके ॥ ९२ ॥

गुणांशे शान्तिकादि स्याद्राविडे तु चतुर्विधम् ।
वेसरं च चतुर्भेदं हर्म्यलिङ्गस्य पिण्डिका ॥ ९३ ॥

वेसरे लिङ्ग तुङ्गे तु विंशत्यंशं विभाजिते ।
अष्टांशं सप्तषट्पञ्च भागैर्व्यासं प्रकल्पितम् ॥ ९४ ॥

शान्तिकं पौष्टिकं चैव जयदात् भुदकं भवेत् ।
वेसरं च चतुर्भेदं हर्म्यं लिङ्गस्य पिण्डिका ॥ ९५ ॥

पादाधारशिलाश्चैव एकजाति स्वयं करम् ।
यत्रैव कल्पितं लिङ्गं वर्धहेतु मुदाहृतम् ॥ ९६ ॥

अन्योन्यसङ्करश्चेत्तु राज्ञो मुख भयावहम् ।
तस्मात् सर्वप्रयत्नेन सङ्करं न समाचरेत् ॥ ९७ ॥

लिङ्गानां नागराद्येवं ख्यातमायादि तच्छृणु ।
लिङ्गस्योत्सेधमानं तु मानाङ्गुलेन भाजयेत् ॥ ९८ ॥

मात्राच्छेदं प्रवृद्ध्या वा हान्या वा परिपूरयेत् ।
श्रेष्ठान्तराधमर्मार्वामात्रपूर्णं परिग्रहेत् ॥ ९९ ॥

उत्सेधमात्रमष्टाभिर्वृद्धितम् ऋक्षसङ्ख्यया ।
हृत्वा ते दिनसङ्ख्या तु अश्विन्यादि द्विजोत्तम ! ॥ १०० ॥

नवभिर्गुणिने सप्ता हृत्वात्वर्कादि वारके ।
अनले गुणिते चाष्ट हृते योनिमुदाहृतम् ॥ १०१ ॥

अष्टाभिर्वृद्धिते भानु हृते त्वायमुदाहृतम् ।
नवभिर्गुणिते नाडि हृते शेषं व्ययं भवेत् ॥ १०२ ॥

युगवृद्ध्या हृते त्वंशं नवमं तस्करादिभिः ।
आयाधिक्यं व्ययं हीनं सम्पदामास्पदं सदा ॥ १०३ ॥

ध्वजं सिंअहवृषे हस्ती शुभयोनिमुदाहृतम् ।
सितसौम्यशशी जीवो सप्तवारे शुभाशुभम् ॥ १०४ ॥

नृपकर्तुश्च जन्मर्क्षात् लिङ्ग-ऋक्षावसानकम् ।
जन्मत्रयं च वेदाष्टा ऋतु नन्दाभ्यवर्जितम् ॥ १०५ ॥

शुभावहदिनान्येते शेषकास्त्वशुभावहाः ।
भानुवारादि संयुक्तं विशाखादिश्चतुश्चतुः ॥ १०६ ॥

रिपुत्वामरणं नाशम् अपमृत्युर्यथा क्रमम् ।
शेषं योगं परिग्राह्य शुभमानं तु सङ्गृहेत् ॥ १०७ ॥

समलिङ्गं वर्धमानं शैवाधिक्यं च स्वस्तिकम् ।
सर्वतो भद्रलिङ्गं च सार्वदेशिकमेव च ॥ १०८ ॥

धारालिङ्गं मुखं लिङ्गं लिङ्गमष्टविधं भवेत् ।
समलिङ्गं तु विप्राणां नृपाणां वर्धमानकम् ॥ १०९ ॥

शैवाधिक्यं तु वैश्यानां शूद्राणां स्वस्तिकं भवेत् ।
सर्वेषामितरं लिङ्गं सर्वकामफलप्रदम् ॥ ११० ॥

एवमेव महादेवो लिङ्गं भेदं नृणां हितम् ।
इष्टायामविशाले तु चतुर श्रीकरं पुरा ॥ १११ ॥

पश्चाद् भागत्रयं कल्प्य अनेन विधिना बुधः ।
चतुरश्रमधोभागं ब्रह्मभागमथोच्यते ॥ ११२ ॥

मध्ये तु वसुकोणं स्यात् विष्ण्वंशं तत्प्रकीर्तितम् ।
ऊर्ध्वभागे तु वृत्तस्य तच्छिवांशेति विद्यते ॥ ११३ ॥

अंशं प्रत्यविधानेन त्वशेषं तु शिवात्मकम् ।
वृक्षस्य मूलमध्याग्रं शाखापुष्पसमन्वितम् ॥ ११४ ॥

शब्दः स्पर्शश्च रूपं च रसगन्धौ तथैव च ।
चर्म चा रुद्रमेकस्य एकैकांशः प्रकीर्तितः ॥ ११५ ॥

तथाप्यंशभेदयुक्तस्य प्रमाणभेदं न विद्यते ।
तथैव शिवलिङ्गस्य भागं प्रत्यविभिभेदिना ॥ ११६ ॥

लिङ्गतारं युगाश्रं तु कृत्वा कर्णार्धकं क्रमात् ।
कोणात्कोणं तु सङ्कल्प्य तेन मानेन देशिकः ॥ ११७ ॥

तद्बाह्ये च्छेदयेद्विद्वान् अष्टाश्रं तद्भवेदिह ।
अथवा लिङ्गतारं तु सप्तभागं विभाजिते ॥ ११८ ॥

गुणांशं मध्यपट्टं स्याद् छेदयेत्तु बहिर्बुधः ।
अथवा वसुभागे तु मध्यपट्टं रसांशकम् ॥ ११९ ॥

छेदयेत्तु विशेषं तु वस्वश्रत्रिविधा वहि ।
अष्टाश्रं पट्टविस्तारे चतुरश्रीकृते सति ॥ १२० ॥

तत्कोणार्धं तु वस्वश्रं कोणात्कोणं तु लाञ्छयेत् ।
तद्बाह्यं तु परिच्छेद्य कलाश्रं तद्भवेदिह ॥ १२१ ॥

कलाश्राश्रे तु सञ्छेद्य वृत्ताकारं तु तद्भवेत् ।
अष्टाश्रादीनि विन्यासं चतुरश्रं तु लभ्यते ॥ १२२ ॥

लिङ्गायामे त्रिभागे तु एकांशं चतुरश्रकम् ।
मध्ये वोमं तु वस्वश्रम् अग्रे वृत्तं शिवांशकम् ॥ १२३ ॥

समलिङ्गमिति ख्यातं विप्रादीनां तु वृद्धिदम् ।
भानुद्व्यंशे ततायामे सप्तांशं चतुरश्रकम् ॥ १२४ ॥

अष्टांशेनाष्टकोणं तु नवांशं वृत्तमुच्यते ।
षट्सप्तवसुभागं वा पञ्च षट्सप्त एव वा ॥ १२५ ॥

चतुष्पञ्चषडंशं वा वर्धमानं चतुर्विधम् ।
लिङ्गायामे दशांशे तु गुणांशं चतुरश्रकम् ॥ १२६ ॥

वस्वश्रं चैव तत्तुल्यं युगांशं स्याच्छिवांशकम् ।
शिवाधिकमिति ख्यातम् अथवान्यप्रकारतः ॥ १२७ ॥

वेदवेदशरं वापि पञ्च पञ्च षडंशकम् ।
षट्षट्सप्तांशकैर्वापि शैवाधिक्यं चतुर्विधम् ॥ १२८ ॥

लिङ्गायामे नवांशे तु चतुरश्रं द्विभागया ।
वस्वश्रं तु गुणांशेन वेदाश्रं वृत्तमुच्यते ॥ १२९ ॥

स्वस्तिकं ह्येवमाख्यातं सर्वतो भद्रमुच्यते ।
मूलादग्रं सुवृत्तं तु लिङ्गोत्तुङ्गं त्रिभागिके ॥ १३० ॥

तलवेशं तदेकांशं व्योमांशं योनिबन्धनम् ।
पूजाभागं तदेकांशं सर्वतो भद्रमेव हि ॥ १३१ ॥

सार्वदेशिकलिङ्गे तु वृत्ताकारमशेषकम् ।
भूतवेदगुणांशं वा लिङ्गोच्चे तु विभाजिते ॥ १३२ ॥

पीठे तु वेशमेकांशं शेषं पूजांशमुच्यते ।
सार्वदेशिकलिङ्गं तु एवमेव प्रकल्पयेत् ॥ १३३ ॥

समलिङ्गोच्छ्रयं नन्दभागं कृत्वा विशेषतः ।
षडंशैर्वर्तुलैर्नाहं सप्तांशैर्मध्यनाहकम् ॥ १३४ ॥

वसुभागमधोनाहं यत्तत्त्रैराशिकं भवेत् ।
सर्वजात्यार्हकं चैव त्रैराशिकमिदं परम् ॥ १३५ ॥

मूलादग्रं युगाश्रं तु धारालिङ्गं तु तच्च वै ।
समत्वमूलवेदाश्रं शेषं वस्वश्रमेव वा ॥ १३६ ॥

चतुरश्रम् अधोभागम् अष्टाश्रं मध्यमं भवेत् ।
पूजाभागं कलाश्रं तु धारालिङ्गं त्रिधाभवेत् ॥ १३७ ॥

तदाश्रमूर्ध्निपर्यन्तं यवार्धं वा यवान्नतम् ।
समलिङ्गस्य धारस्य सर्वप्राणि हितावहम् ॥ १३८ ॥

धारालिङ्गं समाख्यातं मुखलिङ्गमथोच्यते ।
पूजाभागं त्रिधाकृत्वा ऊर्ध्वभागे मुखं भवेत् ॥ १३९ ॥

पञ्चमूर्ध्नि चतुर्वक्त्रं ग्रीवा चैकसमायुतम् ।
कर्णाष्टौ द्वादशाक्षं च सर्वलक्षणसंयुतम् ॥ १४० ॥

लिङ्गाकारमधस्तस्य तस्याधः पिण्डिकान्वितम् ।
अत ऊर्ध्वस्य भागं तु चतुर्विंशच्छतांशकैः ॥ १४१ ॥

त्रयवाधिकचन्द्रांशम् उष्णीषोच्चमुदाहृतम् ।
केशान्तं निम्नभागं स्यात् मुक्तादामलकाकृतिः ॥ १४२ ॥

केशान्ताद्दक्ष सूत्रान्तं युगांशं त्रयबाधिकम् ।
नेत्रसूत्रात्पुटान्तं च पुटान्ताद् हनुमानकम् ॥ १४३ ॥

प्रत्येकं त्र्ययबाधिक्यं युगांशं परिकीर्तितम् ।
हन्वादिगलमानं तु चतुर्यवमुदाहृतम् ॥ १४४ ॥

यवैकोनयुगांशं तु कर्णोच्चमिति विद्यते ।
शेषं लिङ्गाकृतिख्यातं कल्पयेल्लक्षणान्वितम् ॥ १४५ ॥

चतुर्वक्त्रं चैकवक्त्रं वा चतुर्बाहु द्विबाहुकः ।
स्तनसूत्रोपरीबिम्बं लक्षणेन समन्वितम् ॥ १४६ ॥

हिक्कासूत्रोपरिष्टाद्वा शेषं लिङ्गाकृतिर्भवेत् ।
मुखलिङ्गमिदं ख्यातं नृपाणामभिवृद्धये ॥ १४७ ॥

विष्कम्भमष्टधा कृत्वा मूले मध्ये तदग्रके ।
भागहीनं तु सङ्कल्प्य स्थूलमूलमुदाहृतम् ॥ १४८ ॥

ह्रासयेच्छिवभागादि शिरःस्थूलं तदुच्यते ।
एवमार्षकमाख्यातम् ऋषिभिः पूजितं वरम् ॥ १४९ ॥

गुणाश्रं पञ्चकोणं च षट्सप्तद्वादशाश्रकम् ।
दशनवाश्रकं चैव अग्रे तारमनोपमम् ॥ १५० ॥

फलका दर्पणाकारम् एकरेखमरेखकम् ।
शिरसोद्वर्तनं हीनमानोन्मानेनन्वितम् ॥ १५१ ॥

दिव्यं स्वायम्भुवं चेति ख्यातं देवैः सुपूजितम् ।
बाणेन पूजितं भोगे बाणलिङ्गमुदाहृतम् ॥ १५२ ॥

स्थूलं सूक्ष्मं शिरोमूलं क्रमेण परिपठ्यते ।
उन्नतं तु मुखं ख्यातं स्पर्शने त्वतिशीतलम् ॥ १५३ ॥

बाणलिङ्गमिदं ख्यातं मधुवर्णसमानवत् ।
विष्ठरे तु प्रवेशांशं सार्वदेशिकलिङ्गवत् ॥ १५४ ॥

लोहजं रजतं चैव सार्वदेशिकवत्कुरु ।
लिङ्गभेदं समाख्यातं शिरसोद्वर्तनं शृणु ॥ १५५ ॥

लिङ्गमूर्तादि केशान्तं शिरसोद्वर्तनं भवेत् ।
तस्माल्लिङ्गोदये चोर्ध्वे शिरसोद्वर्तनं द्विज ! ॥ १५६ ॥

छत्राकारं भवेत्पूर्वं कुक्कुटाण्डं द्वितीयकम् ।
तृतीयं त्रिपुषाकारम् अर्धचन्द्रं चतुर्थकम् ॥ १५७ ॥

यस्य लिङ्गस्य विष्कम्भम् अष्टधा भाजयेद्बुधः ।
ऊर्ध्वादर्धांशमालम्ब्य प्रथमं छत्रशीर्षकम् ॥ १५८ ॥

द्वात्रिंश द्विभजेत्तारम् ऊर्ध्वभूतांशं लम्बितम् ।
छत्राभं तु द्वितीयं स्यात् सप्तांशं तु तृतीयकम् ॥ १५९ ॥

चतुर्थं तु नवांशं तु छत्राभं तु चतुर्विधम् ।
द्विजानां च नृपाणां च छत्राभं सर्वकामदम् ॥ १६० ॥

सर्वेषामपि लिङ्गानां प्रशस्तं छत्रशीर्षकम् ।
व्यासे द्वात्रिंशदंशे तु मनुपक्षकलांशकैः ॥ १६१ ॥

सप्तादशांशकं चैव कुक्कुटाण्डं चतुर्विधम् ।
वर्धमाने तु लिङ्गे तु प्रशस्तं क्षत्रियार्हकम् ॥ १६२ ॥

द्वाविंशांशे शिरस्तारे धर्मरुद्रांशकैस्तथा ।
भानुत्रयोदशांशैस्तु त्रिपुषाभं चतुर्विधम् ॥ १६३ ॥

शिवाधिके प्रशस्तं वा वैश्यार्हं सर्वकामदम् ।
त्रिंशत्यंशे विशालेऽस्मिन्द्वाविंशत्येक विंशतिः ॥ १६४ ॥

विंशदेकोनविंशांशम् अर्धचन्द्रं चतुर्विधम् ।
स्वस्तिकाख्येषु लिङ्गेषु कर्तव्यं शूद्रवृद्धिदम् ॥ १६५ ॥

सार्वदेशिकलिङ्गानाम् अन्येषां च विशेषतः ।
छत्रादिशीर्षकाकारो कर्तृजातिवशान्नयेत् ॥ १६६ ॥

दैविकार्षकलिङ्गानाम् अष्टांशं शीर्षकं भवेत् ।
शिरसोद्वर्तनोत्सेधं गुण एकविभाजिते ॥ १६७ ॥

युञ्ज्यादंशं तु लिङ्गोच्चात् शिरसो वर्तनान्वितम् ।
उष्णीषमनमाख्यातं शिरोमानं तदुच्यते ॥ १६८ ॥

मूर्ध्नि मध्यात्तदंशान्तं परितोद्वर्तयेत्क्रमात् ।
यावल्लम्बांशसीमान्तं मूर्ध्नि मध्यात् नतम् ॥ १६९ ॥

छत्रशीर्षकलिङ्गानां मूर्ध्नि मध्यात् नतं यवम् ।
वक्त्रत्रयसमायुक्तं कर्तव्यं छत्रशीर्षकम् ॥ १७० ॥

शीर्षकाच्छीर्षकात्सर्वम् एवं क्रमेणोच्यते ।
शीर्षके लिङ्गतारोच्चम् उक्तादन्यं न कारयेत् ॥ १७१ ॥

उक्तादन्यं कृतं चेत्तु राजराष्ट्रभयावहम् ।
तस्मात् सर्वप्रयत्नेन उक्तमार्गेण कारयेत् ।
लिङ्गलक्षणमाख्यातं पिण्डिकालक्षणं शृणु ॥ १७२ ॥

इत्यंशुमान्काश्यपे लिङ्गलक्षणपटलः (एकपञ्चाशः) ॥ ५१ ॥