४८

अथ वक्ष्ये विशेषेण विघ्नराजस्य लक्षणम् ।
पादादुष्णीषपर्यन्तं चतुष्षष्ट्यंशभाजितम् ॥ १ ॥

मूर्ध्ना मस्तकनिम्नान्तम् अङ्गुलद्वयमुच्यते ।
तस्माद्वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् ॥ २ ॥

नेत्रसूत्राच्च हन्वन्तं भागमष्टाङ्गुलं भवेत् ।
तस्माच्च कर्णमानं स्यात् द्वयङ्गुलमुदाहृतम् ॥ ३ ॥

मेढ्रादुदरनिष्क्रान्तं वसुमात्रमिति स्मृतम् ।
ऊरुः षडंशमानः स्यात् जानुदीर्घं गुणाङ्गुलम् ॥ ४ ॥

जङ्घा चोरुसमं दीर्घं गुणं पादतलोन्नतम् ।
सप्ताङ्गुलसमायामम् अङ्गुष्ठादि वसानकम् ॥ ५ ॥

स पादाङ्गुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका ।
तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु यवोनकम् ॥ ६ ॥

त्रयोदशाङ्गुलं बाहु प्रकोष्ठायां नवाङ्गुलम् ।
चतुर्मात्रं तलायामम् अग्न्यंशं मध्यमाङ्गुलम् ॥ ७ ॥

तर्जन्या नामिका द्वौ च एकविंशद्यवं पदम् ।
कनिष्ठाङ्गुष्ठयोश्चैव दीर्घं सप्तदशा यवम् ॥ ८ ॥

द्वादशाष्टौ नवाष्टौ च सप्तसङ्ख्या यवं क्रमात् ।
अङ्गुष्ठादि कनिष्ठान्तं व्यासमित्यभिधीयते ॥ ९ ॥

तद्व्यासं स त्रिपादं स्याद् नखव्यासमुदाहृतम् ।
नखव्यासं त्रिपादं स्याद् नखदीर्घाय वृत्तवत् ॥ १० ॥

वेदं करतलव्यासं मणिबन्धं त्रयर्धकम् ।
प्रकोष्ठान्तं युगाङ्गुल्यं बाहुव्यासं षडर्धकम् ॥ ११ ॥

बाहुमूलं तु वस्वंशं मस्तकोष्टांशकं ततम् ।
सप्ताङ्गुलं नतं निम्नो मुखमध्ये दशाङ्गुलम् ॥ १२ ॥

हस्तमूले षडङ्गुल्यं नाभ्यन्तं तस्य दीर्घकम् ।
तदङ्गुलाग्रविस्तारं सार्धमात्रं द्विजोत्तम ! ॥ १३ ॥

क्रमेण कृशतां हस्तमध्ये तु सुषिरद्वयम् ।
वामदन्तायतद्भवेत् वेदमात्रमित्यभिधीयते ॥ १४ ॥

दक्षिणे दन्तमूलस्य द्व्ययोच्चं समतलं भवेत् ।
अधरस्य तु निष्क्रान्ताल्लम्बनं द्व्यङ्गुलं भवेत् ॥ १५ ॥

नेत्रायामविशालं च षड्यवं परिकीर्तितम् ।
कर्णभूताङ्गुल व्यासम् उत्सेधं चैव तत्समम् ॥ १६ ॥

अर्धाङ्गुलं घनं चैव कर्णमूलं द्वियं गुलम् ।
यद्वद्गजाननं तद्वत् कर्तव्यं तु मुखं द्विज ॥ १७ ॥

बाहुपर्यन्तविस्तारं द्वात्रिंशदङ्गुलं भवेत् ।
एकोनविंशदङ्गुल्यं कक्षान्तरमुदाहृतम् ॥ ११८ ॥

स्तनान्तरं दशाङ्गुल्यं हिक्कायस्तनद्वदेव हि ।
स्तनाक्षं स यवव्यासं द्व्यङ्गुलं स्तनमण्डलम् ॥ १९ ॥

स्तनतारविशालं तु त्रिःपञ्चाङ्गुलमुच्यते ।
द्वाविंशदङ्गुलं ख्यातं मध्योदरविशालकम् ॥ २० ॥

नाभिनिम्नविशालं तु अध्यर्धाङ्गुलमुच्यते ।
लिङ्गायामं गुणाङ्गुल्यं तस्यार्धं तस्य विस्तृतम् ॥ २१ ॥

मुष्लायामं विशालं तु गुणाङ्गुलमुदाहृतम् ।
ऊरुमूलं द्वादशाङ्गुल्यम् ऊरुमध्यं षडर्धकम् ॥ २२ ॥

जानुभागं तताङ्गुल्यं जङ्घातारं समाङ्गुलम् ।
नलकातारयुगांशं स्या पञ्चांशं पादविस्तृतम् ॥ २३ ॥

द्वादशाष्टौ षडर्धं च षट्पञ्चकयवं क्रमात् ।
अङ्गुष्ठादिकनिष्ठान्तं पादाङ्गुलि विशालकम् ॥ २४ ॥

तत्त्रिपादनखव्यासं तदर्धायतमण्डनम् ।
स्थानकं त्वासनं वापि पद्मपीठे विशेषतः ॥ २५ ॥

स्वदन्तं दक्षिणे हस्ते वामहस्ते कपित्थकम् ।
मोदकं गजहस्ते तु अङ्कुशं दक्षिणे करे ॥ २६ ॥

वामहस्ते तु पाशं वा नागं वा अक्षमालिकाम् ।
त्रिणेत्रं हेमसङ्काशं दुकूलवसनच्छदम् ॥ २७ ॥

आभङ्गं समभङ्गं वा स्थानके तु प्रकल्पयेत् ।
आसने त्वासनं चेतु वामपादं तु शाययेत् ॥ २८ ॥

वामेतरोरुमूर्ध्वस्थ पादेनोकुटिकासनम् ।
ईषद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः ॥ २९ ॥

व्यालयज्ञोपवीतं तु किरीटमकुटान्वितम् ।
सर्वाभरणसंयुक्तं महाकायं महोदरम् ॥ ३० ॥

एवं विनायक ख्यातं शृणु षण्मुखलक्षणम् ।

इत्यंशुमान्काश्यपे विनायकलक्षणपटलः (अष्टचत्वारिंशः) ॥ ४८ ॥