तुङ्गे पञ्चाशदंशे तु एकांशं चाङ्गुलं भवेत् ।
चत्वारिंशाङ्गुलायामं गलात्पृष्ठावसानकम् ॥ १ ॥
मूर्ध्निस्वगलपर्यन्तं धर्ममात्रमुदाहृतम् ।
तस्माद्ग्रीवोच्चमष्टांशम् उरोऽन्तं षोडशाङ्गुलम् ॥ २ ॥
ऊरुदीर्घं तु तस्माद्वै षण्मात्रं परिकीर्तितम् ।
जानुमानं द्विमात्रं स्यात् जङ्घमानं षडङ्गुलम् ॥ ३ ॥
खुरमानं द्विमात्रं स्यात्तुङ्गमेवं प्रकल्पयेत् ।
शृङ्गारं तु वस्वंशं शृङ्गोच्चं चतुरङ्गुलम् ॥ ४ ॥
शृङ्गमूलविशालं तु चतुरङ्गुलमुच्यते ।
अर्धाङ्गुलं तदग्रं स्यात् अग्रं मूलात्क्रमात्कृशम् ॥ ५ ॥
किञ्चिद् द्व्यश्रसमायुक्तं शृङ्गं वाऽभ्यन्तरं बुधैः ।
ललाट व्यासनन्दांशं मुखव्यासं शराम्मुलम् ॥ ६ ॥
घनं च तत्समं ख्यातं नेत्रायामं द्वयाङ्गुलम् ।
अध्यर्धाङ्गुलमुत्सेधं शफराकृतिवत्कृतम् ॥ ७ ॥
नेत्रमध्यान्मुखायामं वस्वङ्गुलमुदाहृतम् ।
तस्माद्वै पृष्ठग्रीवान्तं षण्मात्रं परिकीर्तितम् ॥ ८ ॥
नेत्रात्कण्ठान्तरं तद्वत् पञ्चांशं कर्णदैर्घ्यकम् ।
कर्णमूलविशालं तु द्विमात्रमिति विद्यते ॥ ९ ॥
मध्यवासं चतुर्मात्रम् अग्रमङ्गुलविस्तृतम् ।
घनमर्धाङ्गुलं ख्यातं घ्राणं सार्धाङ्गुलायतम् ॥ १० ॥
व्यासमेकाङ्गुलं ख्यातं गाढं तत्सममुच्यते ।
अङ्गुलं नासिकादूर्ध्वं तुङ्गमित्यभिधीयते ॥ ११ ॥
आस्यं पञ्चाङ्गुलायामम् अधरोच्चं द्विमात्रकम् ।
त्रिमात्रं चोत्तरोष्ठं च युक्तितः कल्पयेत्क्रमात् ॥ १२ ॥
जिह्वायामविशालोच्चं त्रिद्व्येकाङ्गुलमुच्यते ।
ग्रीवव्यासं दशांशंस्यातन्मूलं द्वादशाङ्गुलम् ॥ १३ ॥
पृष्ठग्रीवस्य मूलस्य व्यासमष्टाङ्गुलं भवेत् ।
पृष्ठग्रीवाग्रविस्तारं षडङ्गुलमुदाहृतम् ॥ १४ ॥
ककुदुच्चं चतुर्मात्रं तस्य व्यासं षडङ्गुलम् ।
ग्रीवस्याग्रघनं चापि अध्यर्धाङ्गुलमुच्यते ॥ १५ ॥
ककुदस्तु शरिरोच्चं द्विर्नवाङ्गुलमुच्यते ।
शरीरमध्यमे व्यासं चतुर्दशाङ्गुलं भवेत् ॥ १६ ॥
अपरव्यासभान्वंशं युक्तियुक्त्या समाचरेत् ।
पूर्वपादोरुमूलस्य व्यासं पञ्चाङ्गुलं भवेत् ॥ १७ ॥
तदूर्वाग्रं चतुर्मात्रं जानुमूलं च तत्समम् ।
जङ्घाग्रं गुणमात्रं स्यात् सार्धाग्न्यंशं खुरस्ततम् ॥ १८ ॥
अपरे चोरुमूलस्य व्यासं वै दशमात्रकम् ।
शेषं पूर्वोरुवत्कार्यं पुच्छं जङ्घाग्रसीमकम् ॥ १९ ॥
पुच्छाग्रं केशसहितं व्यासं वेदाङ्गुलं भवेत् ॥ २० ॥
मूलाग्रे त्वर्धमात्रं स्यात् केशदीर्घं युगाङ्गुलम् ।
बीजायामविशालं तु चतुरग्न्यङ्गुलं भवेत् ॥ २१ ॥
द्विमात्रं घनमित्युक्तं मुष्कायामं युगाङ्गुलम् ।
उदरात्प्यङ्गुलं शेषघनमित्यभिधीयते ॥ २२ ॥
स्थितं वा शयनं वापि पद्मे वा भद्रपीठके ।
सुधया इष्टिकागर्भं शिलालोहजमेव वा ॥ २३ ॥
घनं वाप्यघनं वापि लोहजं वृषभं कुरु ।
किञ्चिन्यूनाधिके विप्र मानोन्मान प्रमाणके ॥ २४ ॥
तथा कर्तुं न कर्तव्यं तस्मात्तल्लक्षणान्वितम् ।
कर्तव्यं विपरीतं चेत् विपरीतफलप्रदम् ॥ २५ ॥
वृषलक्षणमाख्यातं शृणुष्वानललक्षणम् ।
इत्यंशुमान्काश्यपे वृषलक्षणपटलः (षट्चत्वारिंशः) ॥ ४६ ॥