अथ षोडशभूमेस्तु लक्षणं वक्ष्यतेऽधुना ।
एवं क्रमेण सङ्कल्प्य पञ्चालीन्दसमन्वितम् ॥ १ ॥
पञ्चहारसमायुक्तं गृहपिण्डिस्तु बाह्यकम् ।
गर्भगेहं रसांशं च वेदांशं गृहपिण्डिका ॥ २ ॥
शेषं पूर्ववदुद्दिष्टम् अलिन्दादि द्विजोत्तम ! ।
एकद्वित्रिचतुष्पञ्च भूमौ वाथ धरातले ॥ ३ ॥
देवतास्थापनं कुर्यात् षोडशस्थलहर्म्यके ।
देवस्थापनभूम्यन्तं यावत्तावद्घनं कुरु ॥ ४ ॥
बाह्ये तु चित्रालङ्कारं घनभूम्यन्तरं कुरु ।
अलिन्दं लजपादं वा छादितं वा तुलादिभिः ॥ ५ ॥
प्रस्तरान्तं घनं वाथ हारान्तं वाथ तद्घनम् ।
व्यासे स वेदित्रिंशांशे कर्णकूटं शिवांशकम् ॥ ६ ॥
हर्म्यमध्ये तु वेदांशं शालायाममुदाहृतम् ।
तयोर्मध्ये द्विभागेन शालादीर्घमुदाहृतम् ॥ ७ ॥
तयोर्मध्ये च शालां तु पक्षांशेनैव कल्पयेत् ।
तयोर्मध्ये विधांशेन पञ्जरं कर्णकूटवत् ॥ ८ ॥
हारान्तरं तयोर्मध्ये अर्धांशेनैव कल्पयेत् ।
एवं हि कल्पयेदादिभूमिशालाष्टविंशतिः ॥ ९ ॥
कर्णकूटं तु वेदाः स्युः द्वात्रिंशत्पञ्जरं भवेत् ।
सवेदषष्टि सङ्ख्याः स्युः हारान्तरं द्विजोत्तम ! ॥ १० ॥
एवमादितलं ख्यातं द्वितीयं द्वात्रिंशदंशके ।
द्विभागं मध्यशाला स्यात् शेषं पूर्ववदेव हि ॥ ११ ॥
द्वितीया ह्येवमाख्यातं तृतीयमधुनोच्यते ।
त्रिंशदंशविभागं तु कृत्वा तृतीयभूतलम् ॥ १२ ॥
कर्णकूटस्थ पार्श्वस्थं पञ्जरं चार्धभागया ।
हारान्तरं तदर्धं स्यात् शेषं द्वितीय भूमिवत् ॥ १३ ॥
चतुर्थभू विशालं तु साष्टविंशति भाजिते ।
कर्णकूटसमं पिण्डीशालायास्तु द्विपार्श्वयोः ॥ १४ ॥
पञ्जरव्यासमर्धांशं शेषं प्रागिव कल्पितम् ।
पञ्चमे तल विस्तारे षड्विंशत्यंश भाजिते ॥ १५ ॥
मध्यशाला तु वेदांशं व्योमांशं कर्णकूटकम् ।
तयोर्मध्यस्थशाला च तयोर्मध्ये च कोष्ठकम् ॥ १६ ॥
प्रत्येकं द्विद्विभागेन कल्पयेत्कल्पवित्तमः ।
तयोर्मध्येऽर्धभागेनपञ्जरं कर्णकूटवत् ॥ १७ ॥
हारान्तरं तदर्धेन तेषां सङ्ख्यादिभूमिवत् ।
षष्ठं च भूमिविस्तारं चतुर्विंशति भाजिते ॥ १८ ॥
मध्ये कोष्ठद्विभागेन शेषं पूर्ववदेव हि ।
सप्तमं भूमिविस्तारं द्वाविंशत्यंशकं भजेत् ॥ १९ ॥
शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया ।
तयोर्मध्ये शिवांशेन क्षुद्रं कोष्ठं प्रकल्पयेत् ॥ २० ॥
तयोर्मध्ये द्विभागेन शालां कुर्याद्विशेषतः ।
अध्यर्धं पञ्जरव्यासं तदर्धं हारयोन्तरम् ॥ २१ ॥
पञ्जरं कूटकोष्ठं च सङ्ख्या वै प्रागिवैव तु ।
अष्टमं भूमि विस्तारं विंशत्यंशविभाजिते ॥ २२ ॥
व्योमांशं कर्णकूटं स्यात् मध्ये कोष्ठद्विभागया ।
तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् ॥ २३ ॥
तयोर्मध्ये शिवांशेन क्षुद्रकोष्ठं प्रकल्पयेत् ।
शेषं प्रागिव कर्तव्यं तेषां सङ्ख्या तु पूर्ववत् ॥ २४ ॥
नवभूमि विशाल्ं तु त्रिष्षडंश विभाजिते ।
शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया ॥ २५ ॥
तयोर्मध्येऽर्धभागेन पञ्जरं परिकल्पयेत् ।
तस्यार्धेनैव तत्पार्श्वेदयो हारान्तरं भवेत् ॥ २६ ॥
तत्पार्श्वयोर्द्विभागं स्यात् कोष्ठं कुर्याद्विशेषतः ।
कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा ॥ २७ ॥
पञ्जरं कल्पयेद्धीमान् अर्धांशेनैव सुव्रत ! ।
हारान्तरं तदर्धांशं कल्पयेत्कल्पवित्तमः ॥ २८ ॥
विंशत्कोष्ठं च तत्कूटं पञ्जरं भानुभिर्द्वयम् ।
कल्प्येवं नवमे भूमौ दशभूमेस्तु विस्तरम् ॥ २९ ॥
दशभूमेस्तु विस्तारं षोडशांशविभाजिते ।
कर्णकूटं शिवांशं स्यात् तत्समं पञ्जरस्ततम् ॥ ३० ॥
शालायामं द्विभागेन त्वर्धांशं हारयोन्तरम् ।
भानुशाला चतुष्कूटं कलापञ्जरसंयुतम् ॥ ३१ ॥
हारान्तरं तु द्वात्रिंशत् कल्पयेद्दशमे तले ।
एकादशतलव्यासं मनुभाग विभाजिते ॥ ३२ ॥
शिवांशं कर्णकूटं तु मध्ये शाला द्विभागया ।
तयोर्मध्ये स्थलांशानां गुणांशं परिकल्पयेत् ॥ ३३ ॥
अर्धांशं पञ्जरव्यासं तस्यार्धं हारयोन्तरम् ।
चतुष्कूटा तु शाला च पञ्जरं षोडशान्वितम् ॥ ३४ ॥
हारान्तरं तु द्वात्रिंशत् कल्प्यं रुद्रतलेऽपि च ।
भानुभूमिविशालं तु भानुभागविभाजिते ॥ ३५ ॥
पञ्जरं कूटकोष्ठं च सङ्ख्या रुद्रतलोक्तवत् ।
सर्वेषामपि कोष्ठानां पञ्चांशं प्रविधीयते ॥ ३६ ॥
त्रयोदशतलव्यासं दशभागविभाजिते ।
कर्णकूटं शिवांशेन मध्ये शाला द्विभागया ॥ ३७ ॥
तयोमध्यैकभागेन शालाकारं प्रकल्पयेत् ।
तयोर्मध्ये विभागेन पञ्जरं कर्णकूटवत् ॥ ३८ ॥
हारान्तरस्य तस्यार्धं सङ्ख्या द्वादशभूमिवत् ।
चतुर्दशतलव्यासं वसुभागविभाजिते ॥ ३९ ॥
कर्णकूटं शिवांशेन मध्ये शाला द्विभागया ।
अर्धांशं पञ्जरव्यासं तस्यार्धं हारयोन्तरम् ॥ ४० ॥
चतुष्कूटं चतुश्शाला पञ्जरं षोडशान्वितम् ।
हारान्तरं चतुर्विंशत् कल्प्यमेवमनुक्रमात् ॥ ४१ ॥
त्रिपञ्चभूमिविस्तारं षड्भागं विभजेत्समम् ।
कर्णकूटं तु व्योमांशं मध्येशाला द्विभागया ॥ ४२ ॥
हारान्तरं तु शश्यंशं युगपञ्जरसंयुतम् ।
अशेषोर्ध्वतलं व्यासं वेदभागविभाजिते ॥ ४३ ॥
द्विभागं विस्तृतं दण्डमाननीव्रं तु मध्यमे ।
कृत्वा प्रासादतुङ्गं तु द्विभागेन शतद्वयम् ॥ ४४ ॥
धरातलं तु सप्तांशं चरणोच्चं त्रयोदश ।
सार्धषट्कं तु मञ्चोच्चं पादोच्चं भानुसङ्ख्यया ॥ ४५ ॥
प्रस्तरोच्चं तु षड्भागं रुद्रांशं चरणोदयम् ।
सार्धभूतांशमञ्चं स्यात् दशांशं चरणोदयम् ॥ ४६ ॥
सार्धवेदांश मञ्चोच्चं कल्पयेत्कल्पवित्तमः ।
पादोच्चं सार्धवस्वंशं मञ्चमानं युगांशकम् ॥ ४७ ॥
वस्वंशं चरणोच्चं तु मञ्चं पादोनकं युगम् ।
चरणं सार्धसप्तांशं प्रस्तरं सार्धत्रिभागिकम् ॥ ४८ ॥
सप्तांशं पाददीर्घं वा पादाधिकाग्निमञ्चकम् ।
अर्धाधिकषडंशं तु पादोच्चमग्निमञ्चकम् ॥ ४९ ॥
षडंशं पादमानं तु पादोन त्र्यंशमञ्चकम् ।
अर्धाधिकं तु भूतांशं पाददीर्घमुदाहृतम् ॥ ५० ॥
अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ।
सपादं पञ्चभागं तु पाददीर्घमुदाहृतम् ॥ ५१ ॥
सार्धपक्षांश मञ्चोच्चं भूतांशं चरणोदयम् ।
सपादं पक्षभागं तु मञ्चदीर्घमुदीरितम् ॥ ५२ ॥
पादोन पक्षभागं तु चरणोदयमीरितम् ।
मञ्चमानं द्विभागं स्यात् सार्धवेदांशमङ्घ्रिकम् ॥ ५३ ॥
स त्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयम् ।
शश्यंशं वेदिकामानं कण्ठोच्चं तु द्विभागया ॥ ५४ ॥
अर्धाधिक युगांशं तु शिखरोदयमीरितम् ।
सपादांशं शिखामानं कल्पयेत्तु क्रमेण तु ॥ ५५ ॥
होमादिस्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ।
शिखरे तु चतुर्दिक्षु महानासी समन्वितम् ॥ ५६ ॥
पादं प्रत्यल्पनास्याढ्यं ब्रह्मकान्तमुदाहृतम् ।
तदेव सान्तरं मञ्चं सौष्टिकं नत कोष्ठकम् ॥ ५७ ॥
सारस्वतमिदं ख्यातं शिवप्रियकरं गृहम् ।
तदेव नतकूटं च कोष्ठोन्नत स मञ्चकाः ॥ ५८ ॥
प्रादेशमिति विख्यातं सर्वेषामृद्धिकारणम् ।
तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ॥ ५९ ॥
शिखरेऽष्टमहानासी युक्तं तच्छ्रीकरं भवेत् ।
तदेव मध्यभद्राढ्यं कूटकोष्ठसमन्वितम् ॥ ५० ॥
समञ्चो वा विमञ्चो वा कूटशाला द्विजोत्तम ! ।
पार्वतीकमिदं ख्यातम् उपप्रतिकरं भवेत् ॥ ५१ ॥
तदेव शिखरं कण्ठं वृत्तं वाष्टाश्रवेदिका ।
वेदिकोर्ध्वे तयावैव वृत्ताकार समन्वितम् ॥ ५२ ॥
सुशाम्भवमिदं ख्यातं शङ्करस्य प्रियं हितम् ।
पञ्जरं कूटकोष्ठं च शिखरं च घटं तथा ॥ ५३ ॥
एवमादीनि सर्वाणि नागराद्युचितं कुरु ।
अनेनैवाथवा कुर्यात् एकाद्यानेकभूमिकम् ॥ ५४ ॥
-
- थ तलं ह्येष कर्तव्यं तस्यादिमञ्चकम् ।
तत्तद्युचितविस्तारं तुङ्गकुड्यं च गर्भकम् ॥ ५५ ॥
- थ तलं ह्येष कर्तव्यं तस्यादिमञ्चकम् ।
कर्तव्यं विधिनानेन गं च लङ्कारसंयुतम् ।
सालिन्दसदनानां तु सोपानारोहणं यथा ॥ ५६ ॥
तत्र तत्रोचितं कुर्यात् शिलाभिर्वेष्टकाद्रुमैः ।
तस्याग्रं मण्डलं कुर्यात् एकानेकतलं तु वा ॥ ५७ ॥
प्रागुक्त विधिना कुर्यात् सर्वालङ्कारसंयुतम् ।
करालमुद्गीगुल्माष कल्कचिक्कणकर्मवान् ॥ ५८ ।
नानावर्णैर्विचित्रं तु कर्तव्यं विधि चोदितम् ।
एवं यः कुरुते हर्म्यम् अशक्यापेक्षितं तु वा ॥ ५९ ॥
इहैव धनवान् श्रीमान् पुत्रपौत्रकलत्रवान् ।
दासीदासादिभिश्चान्यै स्वच्छावशमुदा स्वभिः ॥ ६० ॥
सोऽन्ते कुलैकविंशच्च धावयेत्तु मुदानुमम् ।
इत्यंशुमान्काश्यपे षोडशभूमिविधिपटलः (चत्वारिंशः) ॥ ४० ॥