अथ वक्ष्ये विशेषेण त्रयोदशतलं शृणु ।
तस्य विस्तार तुङ्गं च प्रासादमानवद्गृहम् ॥ १ ॥
एकोनविंशदंशं तु कर्तव्यं सदनस्ततम् ।
गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका ॥ २ ॥
अलिन्दं तच्छिवांशं स्याद्धारा भागेन कल्पयेत् ।
तद्बाह्येऽलिन्दमेकांशं हाराभागेन देशिक ! ॥ ३ ॥
व्योम भागमलिन्दं स्यात् हारव्यासं च तत्समम् ।
विन्याससूत्रयोरन्तः एकोनविंशदंशकैः ॥ ४ ॥
शिवांशं कर्णकूटं स्यात् मध्ये शालाऽग्निभागया ।
पक्षशाला च तत्तुल्यम् एकांशं पञ्जरस्य तु ॥ ५ ॥
हारान्तरं तदर्धांशं क्षुद्रपञ्जरसंयुतम् ।
पञ्जरं कर्णकूटाभं तस्याभं क्षुद्रपञ्जरम् ॥ ६ ॥
एवमादितलं प्रोक्तम् ऊर्ध्वभानुतलोक्तवत् ।
चत्वारिंशद्द्वयाधिक्य शतांशे सदनोदयम् ॥ ७ ॥
पञ्चांशं तदधिष्ठानं दशांशं चरणोदयम् ।
भूतांशं मञ्चमानं स्यात् शेषं द्वादशभूमिवत् ॥ ८ ॥
त्रयोदशतलं ह्येवं कलाभूमिमथोपरि ।
इत्यंशुमान्काश्यपे त्रयोदशभूमिविधिपटलः (एकोनचत्वारिंशः) ॥ ३९ ॥