अथ वक्ष्ये विशेषेण वसुभूमिविधिं परम् ।
प्रासादमानविधिना सङ्ग्राह्यं विसृतोदयम् ॥ १ ॥
त्रयोदशविभागं तु कृत्वा प्रासादविस्तृतम् ।
भूतांशं गर्भगेहं तु द्विभागं गृहपिण्डिका ॥ २ ॥
अलिन्दं चैकभागेन हारा भागेन कल्पयेत् ।
अथवा नवभागेन गर्भगेहं विधीयते ॥ ३ ॥
भागेन गृहपिण्डी स्यात् अलिन्दं चैकभागया ।
कुड्यमेकेन कर्तव्यम् अलिन्दं तु शिवांशकम् ॥ ४ ॥
शशिभागेन हारा स्यात् कल्प्यैवं द्विजसत्तम ! ।
विन्याससूत्रयोरन्ते त्रयोदश विभाजिते ॥ ५ ॥
कूटमेकांशमित्युक्तं कोष्ठदीर्घं द्विभागया ।
त्रिभागं मध्यकोष्ठं स्यात् शेषं हारान्तरं भवेत् ॥ ६ ॥
तदर्धं पञ्जरव्यासं भद्रं वाऽभद्र एव वा ।
भानुकोष्ठं चतुष्कूटं कलापञ्जरसंयुतम् ॥ ७ ॥
हारान्तरं तु द्वात्रिंशत्कल्पयेदादिभूतले ।
वर्षस्थलमलीन्दं स्यात् प्रस्तरान्तं घनीकृतम् ॥ ८ ॥
तदूर्ध्वभूमिविस्तारं त्रयोदशविभाजिते ।
कूटकोष्ठादि सर्वाङ्गम् आदिभूमिमिवैव तु ॥ ९ ॥
तस्योर्ध्व भू विशालं तु भानुभागविभाजिते ।
कर्णकूटं तदेकांशं शालादीर्घं द्विभागया ॥ १० ॥
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् ।
पञ्जरं कूटकोष्ठं च सङ्ख्यावादितलोक्तवत् ॥ ११ ॥
तदूर्ध्वभूविशालं च भानुभागविभाजिते ।
कूटकोष्ठादिसर्वाङ्गं मानसङ्ख्यैव पूर्ववत् ॥ १२ ॥
तदूर्ध्व भूदशांशे तु कूटकोष्ठं च पूर्ववत् ।
हारान्तरमथार्धांशं लम्बपञ्जरसंयुतम् ॥ १३ ॥
तदूर्ध्वे भूविशालं तु वसुभागविभाजिते ।
कर्णकूटं तदेकांशं मध्येशाला द्विभागया ॥ १४ ॥
पञ्जरव्यासमेकांशम् अर्धांशं हारयोन्तरम् ।
चतुष्कूटं चतुश्शाला वसुपञ्जरसंयुतम् ॥ १५ ॥
हारान्तरं कला प्रोक्तं कल्प्येवं षट्तलं भवेत् ।
तदूर्ध्वे भूविशालं तु षड्भागं विभजेत्समम् ॥ १६ ॥
कूटमेकांशमित्युक्तं मध्ये कोष्ठं द्विभागया ।
अर्धांशं पञ्जरव्यासं शेषं हारान्तं भवेत् ॥ १७ ॥
तदूर्ध्वे भूविशालार्धं मध्ये दण्डेन निर्गतिः ।
कूटात्कोष्ठस्तु नीव्रा वा मध्यशाला तु नीव्रकम् ॥ १८ ॥
कूटकोष्ठविशेषं तु समसूत्रकमेव वा ।
सप्तसप्त त्रिभागेन कृत्वा गेह समुच्छ्रयम् ॥ १९ ॥
सार्धाग्यंशमधिष्ठानं सप्तांशं चरणोदयम् ।
प्रस्तरं तु स पादाग्निसार्धषट्काङ्घ्रि तुङ्गकम् ॥ २० ॥
मञ्चमानं गुणांशं तु षड्भागं चरणोदयम् ।
पादोनाग्न्यंश मञ्चं स्यात् सार्धभूताङ्घ्रितुङ्गकम् ॥ २१ ॥
सार्धद्विभागमञ्चोच्चं कल्पयेत्तु विशेषतः ।
स पादं पञ्चभागं तु चरणोदयमीरितम् ॥ २२ ॥
प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम् ।
स पादद्विभागमञ्चं स्यात् पादं पादोन पञ्चकम् ॥ २३ ॥
मञ्चमानं द्विभागं तु पादं सार्धयुगांशकम् ।
स त्रिपादांशमञ्चोच्चं व्योमांशं वेदिकोदयम् ॥ २४ ॥
कण्ठं पादोन पक्षांशं सार्धवेदांश शीर्षकम् ।
कण्ठमानसमं स्थूपी तुङ्गमित्येव मुच्यते ॥ २५ ॥
स्थूप्यन्तं तदुपानादि वेदाश्रं परिकल्पयेत् ।
सौष्ठ्यग्रं च युगाश्रं स्यात् स्तम्भं प्रत्यल्पनासिकाः ॥ २६ ॥
शिखरे तु चतुर्नासी युक्त्यास्ते तु महत्तरः ।
एकाकारतलं स्तम्भं शिवच्छन्दमुदाहृतम् ॥ २७ ॥
तदेव नतशालाः स्युः समञ्चो सौष्टिकेन ताः ।
वागीशमिति विख्यातं सर्वदेवार्हकं परम् ॥ २८ ॥
तदेव नतकूटं च कोष्ठोन्नताः समञ्चकाः ।
यागवन्तमिति ख्यातं सर्वदेव प्रियावहम् ॥ २९ ॥
चतुरश्राष्टवृत्ताभसौष्टिकोष्ठं पुनः पुनः ।
विमानशिखरं कण्ठम् अष्टाश्रं परिकल्पयेत् ॥ ३० ॥
तदष्टाङ्गमिति ख्यातं मम प्रीतिकरं परम् ।
तदेव कूटकोष्ठं च समञ्चं वा विमञ्चकम् ॥ ३१ ॥
समोन्नतं तथा नीव्रं नानाधिष्ठान काङ्घ्रियः ।
नानाचित्रैर्विचित्रं तु पार्वतीमिति विद्यते ॥ ३२ ॥
तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत् ।
नाम्ना कैलासमित्युक्तं मम प्रीतिकरं परम् ॥ ३३ ॥
एवमष्टतलं ख्यातं नवभौममथोपरि ।
इत्यंशुमान्काश्यपे वसुभूमिविधानपटलः (चतुस्त्रिंशः) ॥ ३४ ॥