३१

अथ वक्ष्ये विशेषेण पञ्चभूमेस्तु लक्षणम् ।
विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके ॥ १ ॥

विस्तारं रुद्रधा भज्य गुणांशं गर्भगेहकम् ।
द्विभागं गृहपिण्डी स्यात् आलिन्दं चैकभागया ॥ २ ॥

हारा भागेन कर्तव्या अलीन्द्रं घनभित्ति वा ।
वर्षिकस्थलसंयुक्तं कल्पयेत्प्रस्तरोपरि ॥ ३ ॥

धरातले पादमञ्चोर्ध्वे द्वितीये वा त्रिभूमिके ।
देवतास्थापनं कुर्यात् तावद्देवर्चनी कृतम् ॥ ४ ॥

विन्याससूत्रयोरन्ते रुद्रभागविभाजिते ।
शिवांशं कर्णकूटं तु मध्ये कोष्ठं गुणांशकम् ॥ ५ ॥

तयोर्मध्यैक भागेन पञ्जरव्यासमुच्यते ।
हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः ॥ ६ ॥

तदूर्ध्वभूव्यसृतन्नन्द भागं कृत्वांश सौष्टिकम् ।
मध्ये कोष्ठाग्निभागं तु पञ्जरांशेन मानतः ॥ ७ ॥

हारं तारमथार्धांशं कल्पयेत्तु द्वितीयके ।
तदूर्ध्वे भुवने चाष्टभागांशं कर्णकूटकम् ॥ ८ ॥

द्विभागं कोष्ठदीर्घं स्यात् भागेन पञ्जरस्ततः ।
हारान्तरमथार्धांशं कृत्वा लक्षणसंयुतम् ॥ ९ ॥

ऊर्ध्वभूमौ रसांशे तु कूटव्यासमथांशकम् ।
शालादीर्घं द्विभागं स्यात् अर्धांशं पञ्जरस्य तु ॥ १० ॥

शेषं हारान्तरं ख्यातं लम्बपञ्जरमेव वा ।
तदूर्ध्वभूमिर्विसृताग्व्यंशं मध्ये दण्डेन निर्गतिः ॥ ११ ॥

गृहोच्चं तु षडष्टांशे पादोनाग्नि धरातलम् ।
सार्धपञ्चांशमङ्घ्र्युच्चं सार्धद्व्यंशं तु मञ्चकम् ॥ १२ ॥

सपादपञ्च भागं तु चरणोदयमीरितम् ।
मञ्चमानं तु द्व्यर्धांशं पञ्चांशं चरणायतम् ॥ १३ ॥

पादं द्विभागमञ्चं स्यात् पादं पादोनपञ्चकम् ।
द्विभागं प्रस्तरोत्सेधं सार्धवेदाङ्घ्रितुङ्गकम् ॥ १४ ॥

पादो द्व्यंशकमञ्चं तु शिवांशं वेदिकोदयम् ।
कर्णं पादोनपक्षांशं सार्धवेदं शिरोदयम् ॥ १५ ॥

द्विभागं स्थूपिमानं तु शान्तिकं भवनं भवेत् ।
सवेदचत्वारिंशत्तु भागं कृत्वा गृहोदयम् ॥ १६ ॥

गुणांशं तलतुङ्गं तु भूतांशं चरणायतम् ।
प्रस्तरं चाग्निभागं तु पादसार्धयुतं भवेत् ॥ १७ ॥

सपादद्विभागमञ्चं स्यात् ऊर्ध्वपादयुगं भवेत् ।
सपादद्विभागमञ्चं स्यात् तलिपं पादाधिकं युगम् ॥ १८ ॥

प्रस्तरोच्चद्विभागेन वेदांशं चरणोदयम् ।
पक्षांशं मञ्चमानं स्यात् पादसार्धगुणांशकम् ॥ १९ ॥

अध्यर्धं मञ्चमानं तु व्योमांशं वेदिकोदयम् ।
द्विभागं गलमानं तु सार्ध वेदांशशीर्षकम् ॥ २० ॥

अध्यर्धं तु शिखामानं पौष्टिकं भवनान्वितम् ।
सदनोच्चं तु षट्त्रिंशत् भागं कृत्वा द्विजोत्तम ! ॥ २१ ॥

अधिष्ठानं द्विभागेन वेदांशं चरणायतम् ।
प्रस्तरोच्च द्विभागेन चतुर्भिः पाददैर्घिकम् ॥ २२ ॥

स त्रिपादशिवांशेन मञ्चमानं प्रकल्पयेत् ।
सार्धाग्न्यंशं तु तलिपं तदर्धं मञ्चमानकम् ॥ २३ ॥

स पादाग्न्यंश पादं स्यात् मञ्चमध्यर्धभागया ।
गुणांशं पाददीर्घं तु सपादांशं तु प्रस्तरम् ॥ २४ ॥

एकांशं वेदिकामानं पादोन द्व्यंशकं गलम् ।
सपादाग्न्यंश शिखरं शेषं स्थूप्युदयं भवेत् ॥ २५ ॥

जयदं भवनं ह्येवं कल्पयेत्कल्पवित्तमः ।
विमानोत्सेधं विभजेत् त्रयस्त्रिंशति भागया ॥ २६ ॥

द्विभागं धरणीमानं वेदांशं चरणायतम् ।
प्रस्तरोच्चं द्विभागेन सार्धवह्न्यंशकाङ्घ्रियम् ॥ २७ ॥

प्रस्तरं पादरहितं द्विभागेन विधीयते ।
त्रिभागं चरणायामं तदूर्ध्वं मञ्चमानकम् ॥ २८ ॥

सार्धद्विभागं पादोच्चं सपादांशेन मञ्चकम् ।
स्तम्भं पादाधिकं द्व्यंशं मञ्चमानं सपादकम् ॥ २९ ॥

व्योमांशं वेदिकामानं द्वियंशं गलमानकम् ।
सार्धत्रिपादशिखरं द्विभागं स्थूपि मानकम् ॥ ३० ॥

अद्भुतं सदनं ह्येवं कल्पयेद्देव तार्हकम् ।
चतुर्विंशति भागं तु कृत्वा तु सदनोदयम् ॥ ३१ ॥

अध्यर्धांशं तलोत्सेधं गुणांशं पादमानकम् ।
तदर्धं मञ्चमानं तु पादं पादोनकं गुणम् ॥ ३२ ॥

तस्यार्धं प्रस्तरोत्सेधं द्व्यर्धं पादोदयं भवेत् ।
प्रस्तरं तु सपादांशं स्तम्भं पादाधिकद्वयम् ॥ ३३ ॥

तदर्धं मञ्चमानं तु सपादद्व्यंशमङ्घ्रिकम् ।
एकांशं प्रस्तरोत्सेधम् अर्धांशं वेदिकोदयम् ॥ ३४ ॥

त्रिपादं गलमानं तु पादोनद्व्यंशकं शिरः ।
अष्टांशरहितं व्योमभागं स्थूप्युदयं भवेत् ॥ ३५ ॥

सार्वकामिकमेवं तु कर्तव्यं सदनं द्विज ! ।
होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् ॥ ८६ ॥

कलाशाला कला सौष्टि पञ्जरं चतुरष्टकम् ।
पादं प्रत्यल्पनास्याढ्यं हारं तन्नासिका द्वयम् ॥ ३७ ॥

भद्रनासी चतुष्कं तु शिखरे तु प्रकल्पयेत् ।
क्षुद्रनासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् ॥ ३८ ॥

कूटेष्वन्तरमञ्चाढ्यं प्राजापत्यमुदाहृतम् ।
तदेव न त कूटं तु कोष्ठोन्नतसमञ्चकम् ॥ ३९ ॥

स्वायम्भुवमिदं गेहं सर्वदेवार्हकं परम् ।
तदेव वेदिका कण्ठं शीर्षकं वसुकोणकम् ॥ ४० ॥

भद्रनासी चतुष्कं तु शिखरे तु प्रकल्पयेत् ।
क्षुद्रनासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् ॥ ४१ ॥

कूटास्वन्तरमञ्चाढ्यं प्राजापत्यमुदाहृतम् ।
तदेव नतकूटं तु कोष्ठोन्नतसमञ्चकम् ॥ ४२ ॥

स्वायम्भुवमिदं गेहं सर्वदेवार्हकं परम् ।
तदेव वेदिकाकण्ठं शीर्षकं वसुकोणकम् ॥ ४३ ॥

शालामध्येंशमानेन दण्डमानेन निर्गतिः ।
भद्रकान्तमिति ख्यातं कूटकोष्ठौ द्वयौ समौ ॥ ४४ ॥

समञ्चं वा विमञ्चं वा जनार्दनगृहं भवेत् ।
तदेव कोष्ठमध्ये तु भद्रहीनमथापि वा ॥ ४५ ॥

मध्यभद्रयुतं वापि मण्डलं शीर्षकं गलम् ।
अति भद्रमिति ख्यातं सर्वदेवार्हकं परम् ॥ ४६ ॥

तदेव कूटकोष्ठं च पञ्जरं च समञ्चकम् ।
सोन्नतं सर्वतोभद्रं मम प्रीतिकरं भवेत् ॥ ४७ ॥

विमानं कूटकोष्ठं च पञ्जरं समसूत्रकम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ४८ ॥

नानालङ्कारसंयुक्तं युग्मपञ्जरसंयुतम् ।
शिखरेष्टाल्पनास्याढ्यं महानासी चतुष्टयम् ॥ ४९ ॥

विभद्रमिति विख्यातं सर्वदेवप्रियावहम् ।
तदेवाष्टकशालाढ्यम् आदिभूमौ द्विभागया ॥ ५० ॥

भानुपञ्जरसंयुक्तं शेषं प्रागिव कल्पयेत् ।
प्रागुक्त नाममाख्यातं तास्विष्टं परिकल्पयेत् ॥ ५१ ॥

पञ्चभूमिः समाख्याता षट्तलं चाधुना शृणु ।

इत्यंशुमान्काश्यपे पञ्चतलविधि पटलः (एकत्रिंशः) ॥ ३१ ॥