अथ वक्ष्ये विशेषेण त्रितलं शृणु सुव्रत ! ।
तस्य विस्तारतुङ्गं च पुरोक्तं हर्म्यमानवत् ॥ १ ॥
विन्याससूत्रयोरन्तः तदष्टांशविभाजिते ।
एकांशं कूटविस्तारं विशालायामं तु तद्द्वयम् ॥ २ ॥
समं त्रिपादमर्धं वा पञ्जरव्यासमुच्यते ।
शेषं हारान्तरं ख्यातं निष्क्रान्तादीनि पूर्ववत् ॥ ३ ॥
ऊर्ध्वभूमौ रसांशेंशं कूटव्यासमुदाहृतम् ।
शालायामद्विभागं तु शेषं हारान्तरं भवेत् ॥ ४ ॥
हारान्तरसमं वार्धत्रिपादं वाऽथ पञ्जरम् ।
ऊर्ध्वभूमिकभागैक मध्ये भद्रं विधीयते ॥ ५ ॥
दण्डं सार्धद्विदण्डं वा मध्यभद्रस्य नीव्रकम् ।
प्रासादस्योच्छ्रयं भानुद्विगुणांशं विभाजिते ॥ ६ ॥
द्विभागं धरातलोच्चं वै वेदांशं चरणोदयम् ।
मञ्चमानं द्विभागेन पादोन चतुरंशकैः ॥ ७ ॥
पादायामं च सार्धांशं प्रस्तरोच्चमुदाहृतम् ।
सार्धत्रिभागं पादोच्चं सपादांशं तु मञ्चकम् ॥ ८ ॥
अर्धांशं वेदिका मानं गलमानं शिवांशकम् ।
सार्धत्र्यंशं तु शिखरं स्तूप्युच्चं त्वेकभागया ॥ ९ ॥
एवं हि कल्पितं गेहं शान्तिकं त्विति विद्यते ।
चतुर्विंशद्विमानोच्चेतलोच्चं तु द्विभागया ॥ १० ॥
वेदांशं चरणायामं पक्षांशं मञ्च मानकम् ।
पादोन चतुरंशं तु तलीवोदयमिष्यते ॥ ११ ॥
सार्धांशं प्रस्तरोत्सेधं सार्धत्र्यंशाङ्घ्रिणोदयम् ।
अध्यर्धांशं तु मञ्चोच्चम् अर्धांशं वेदिकोदयम् ॥ १२ ॥
शिवांशं ग्रीवमानं तु गुणांशं शिखरोदयम् ।
सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् ॥ १३ ॥
सप्तविंशति भागं तु कृत्वा तु सदनोदयम् ।
द्विभागं धरातलोत्सेधं युगांशं चरणोदयम् ॥ १४ ॥
मञ्चमानं द्विभागेन वेदांशं चरणोदयम् ।
पादोनद्व्यंशमञ्चाश्च तलीपोच्चं तु तद्द्वयम् ॥ १५ ॥
सार्धांशं प्रस्तरोत्सेधम् एकांशं वेदिकोदयम् ।
द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् ॥ १६ ॥
शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम् ।
चत्वारिंशद्द्वयाधिक्यभागं कृत्वा गृहोच्चकम् ॥ १७ ॥
अधिष्ठानं त्रिभागार्धं सप्तांशं चरणोदयम् ।
तलोच्च सदृशं मञ्चतलिपं सार्धषट्ककम् ॥ १८ ॥
गुणांशं प्रस्तरोत्सेधम् ऊर्ध्वपादं षडंशकम् ।
सार्धद्व्यंशं तु मञ्चोच्चम् एकांशं वेदिकोदयम् ॥ १९ ॥
गलमानं द्विभागं स्यात् भूतांशं शिखरोदयम् ।
द्विभागं स्तूपि तुङ्गं तु प्रोक्तमद्भुतहर्म्यके ॥ २० ॥
प्रासादस्योच्चतुङ्गं तु षडष्टांशैर्विभाजिते ।
अधिष्ठानं युगांशं तु वस्वंशं चरणोदयम् ॥ २१ ॥
मञ्चमानं तु वेदांशं तलिपं सार्धसप्तकम् ।
सार्धत्रिभागमञ्चोच्चं सप्तांशं चरणोदयम् ॥ २२ ॥
प्रस्तरोच्चं गुणांशं तु शिवांशं वेदिकोदयम् ।
गलमानं द्विभागं स्यात् रसांशं शिखरं भवेत् ॥ २३ ॥
द्विभागं तु शिखामानम् एवं स्यात्सार्वकामिकम् ।
अष्टकूटाष्टशालाभं कलापञ्जरसंयुतम् ॥ २४ ॥
षण्णवत्यल्पनास्याढ्यं जन्मादग्रं युगाश्रकम् ।
नानाधिष्ठान संयुक्तं नानापादैरलं कृतम् ॥ २५ ॥
शिखरे भानुनास्याढ्यं महाल्पं चतुरष्टकम् ।
कूटकोष्ठोभतादीनि नागराद्युचितं भवेत् ॥ २६ ॥
स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज ! ।
चतुर्महानासिकोपेतम् अल्पाष्टकविवर्जितम् ॥ २७ ॥
स्वस्तिभद्रमिदं ख्यातं सर्वदेव प्रियावहम् ।
तदेव वृत्तशिखरं गलं वै वेदिका तथा ॥ २८ ॥
रुद्रकान्तमिदं नाम्ना मम प्रीतिकरं भवेत् ।
तदेव शीर्षकोणेषु अल्पनासीद्वयं भवेत् ॥ २९ ॥
कल्पितं शिवकान्तं स्यात् शिवप्रियकरं गृहम् ।
तदेव वेदिकाकण्ठं शीर्षकं च घटं तथा ॥ ३० ॥
वस्वश्रं कल्पितं यत्तद् विष्णुकान्तमिदं परम् ।
विन्याससूत्रयोरन्तः नवभाग विभाजिते ॥ ३१ ॥
एकांशं कूटविस्तारं द्विभागं कोष्ठदीर्घकम् ।
कोष्ठं प्रति द्विकोष्ठं स्यात् अर्धांशं पञ्जरस्ततम् ॥ ३२ ॥
शेषं हारान्तरं ख्यातं कल्पयेत् कल्पवित्तमः ।
चतुष्कूटाष्टशाला च भानुपञ्जरसंयुतम् ॥ ३३ ॥
हारान्तरं चतुर्विंशत् आदिभूमेवमाचरेत् ।
सप्तांशं विभजेद्भागम् एकांशं कूटविस्तरम् ॥ ३४ ॥
कोष्ठायतं द्विभागं स्यात् धाममध्ये प्रकल्पयेत् ।
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् ॥ ३५ ॥
चतुष्कूटं चतुश्शाला पञ्जराष्टक संयुतम् ।
कल्प्यहारान्तरोपेतं द्वितीयं भूतलं कुरु ॥ ३६ ॥
तदूर्ध्वभूमिविस्तारं त्र्यंशैकं मध्यभद्रकम् ।
अष्टकूटा च शाला च विंशत्पञ्जरसंयुतम् ॥ ३७ ॥
शताष्टनासिकोपेतं वस्वश्रं शीर्षकं गलम् ।
महानास्यष्टकोपेतं शिखरन्तु द्विजोत्तम ! ॥ ३८ ॥
नाम्ना शुद्धविमानं तु मम प्रीतिकरं भवेत् ।
तदेवाष्टाश्र वेदी च वृत्ताभं शिखरं गलम् ॥ ३९ ॥
विमलाकृतिनाम्ना तु सर्वदेवहितं भवेत् ।
तदेव शिखरं कण्ठं युगाश्रं ब्रह्मकान्तकम् ॥ ४० ॥
तदेव सायताश्रं तु सपादं सार्ध त्रिभागिकम् ।
वसुभागं तु विस्तारम् आयामं दशधा भवेत् ॥ ४१ ॥
एकांशं कूटविस्तारं शालान्तं द्विगुणायतम् ।
शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् ॥ ४२ ॥
षडष्टभागविस्तारम् आयामं चोर्ध्वभूमिके ।
एकैकांशेन कूटं स्यात् कोष्ठदीर्घं द्वयांशकम् ॥ ४३ ॥
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् ।
ऊर्ध्वभूविस्तृतं चाग्निभागैकं मध्यभद्रकम् ॥ ४४ ॥
द्व्यश्र वृत्तं च वेदी च कण्ठं च शीर्षकं तथा ।
चतुष्कूटाष्टशाला च भानुपञ्जरसंयुतम् ॥ ४५ ॥
हारान्तरं चतुर्विंशत् कल्पयेदादिभूतले ।
चतुष्कूटं चतुश्शाला पञ्जराष्टकसंयुतम् ॥ ४६ ॥
षोडशान्तरसंयुक्तं शतसङ्ख्याल्पनासिका ।
ललाटनासिका वक्त्रं पार्श्वयोर्भद्रनासिकाः ॥ ४७ ॥
तथैवं नासिका प्रष्ठो शीर्षकं चैव माचरेत् ।
नानाधिष्ठानसंयुक्तं नानाचाङ्घ्रिसमन्वितम् ॥ ४८ ॥
सर्वालङ्कारसंयुक्तं हारान्तरमिदं भवेत् ।
मानसूत्रान्तं नवनवधा तु विभाजिते ॥ ४९ ॥
गुणांशं गर्भगेहं तु शिवांशं कुड्यविस्तृतम् ।
परितोऽलिन्दमेकांशं हाराव्यासं शिवांशकम् ॥ ५० ॥
एवं हि कल्पितं तेषु कर्णकूटं शिवांशकम् ।
मध्ये कोष्ठं गुणांशं स्यात् एकांशं पञ्जरस्तथा ॥ ५१ ॥
हारान्तरं तथार्धांशं कल्प्येवं प्रथमे भुवि ।
अथवा पञ्जराणां तु षडंशं वा विधीयते ॥ ५२ ॥
शेषं हारान्तराख्यातं परितः स्यैव माचरेत् ।
कोष्ठमध्यत्रिदण्डेन महानासी विनिर्गतम् ॥ ५३ ॥
ऊर्ध्वभूमौ षडंशेंशं कूटकोष्ठाय तद्भवेत् ।
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् ॥ ५४ ॥
ऊर्ध्वभूविस्तृतान्तं तु मध्ये दण्डेन निर्गतिः ।
चतुरश्रमधिष्ठानं वस्वश्रं शीर्षकं गलम् ॥ ५५ ॥
आदौ तले चतुष्कर्णे कूटं वेदाश्रशीर्षकम् ।
अष्टाश्रशीर्षकं मध्यात् ऊर्ध्वभूमौ प्रकल्पयेत् ॥ ५६ ॥
अष्टकूटाष्टकोष्ठादि कलापञ्जरसंयुतम् ।
शताल्पनासिकोपेतं शिखरेऽष्टं महत्तरम् ॥ ५७ ॥
भद्रकोष्ठःमिदं नाम्ना सर्वदेवार्हकं परम् ।
तदेव कर्णकूटानां शीर्षकं वर्तुलाकृति ॥ ५८ ॥
प्रासादशिखरं कण्ठं वृत्ताकारं प्रकल्पयेत् ।
शिखरे तु चतुर्दिक्षु भद्रनासी समन्वितम् ॥ ५९ ॥
विदिक्षु ह्यल्पनासाढ्यं वृत्तकूटमिदं परम् ।
तदेव शिखरं कोणे क्षुद्रनास्यष्टकान्वितम् ॥ ६० ॥
युगाश्रं कर्णकूटानां शीर्षकं वर्तुलाकृतिः ।
शेषं प्रागिव कर्तव्यं श्रीकण्ठं तदुदाहृतम् ॥ ६१ ॥
तदेवाष्टांशमाधिक्यम् आयामं चतुरश्रकम् ।
शालामध्ये महानासी भद्रं विना प्रकल्पयेत् ॥ ६२ ॥
शालाभमस्तकं कण्ठं वृत्तायतमथापि वा ।
स्तूपि त्रयसमायुक्तम् एतन्नाम्ना सुमङ्गलम् ॥ ६८ ॥
मानसूत्रान्तरं धर्मभागं कृत्वा द्विजोत्तम ! ।
गर्भगेहं तु वेदांशं गृहपिण्ड्यंशमावृतम् ॥ ६४ ॥
परितोऽलिन्दमेकांशं हाराभागेन कल्पयेत् ।
तेष्वेककूटविस्तारं मध्ये कोष्ठायतं द्वयम् ॥ ६५ ॥
तयोर्मध्यैकभागेन पञ्जरव्यासमुच्यते ।
हारान्तरमथांशेन पञ्जरस्य तु पार्श्वयोः ॥ ६६ ॥
अष्टांशं चोर्ध्वभूमिस्तु कृत्वांशं कूटविस्तृतम् ।
शाला तद्द्विगुणायामं तयोर्मध्ये तु पञ्जरम् ॥ ६७ ॥
एकांशेनैव कर्तव्यं शेषं हारान्तरं भवेत् ।
ऊर्ध्व(भूम)मञ्चं चतुर्भागं द्विभागं मध्यभद्रकम् ॥ ६८ ॥
दण्डं वाध्यर्धदण्डं वा द्विदण्डं वाथ निर्गमम् ।
वेदाश्रं च मधिष्ठानं तद्वत्कर्णं च शीर्षकम् ॥ ६९ ॥
अष्टशालाष्टकूटं च पञ्जरं षोडशान्वितम् ।
शताल्पनासिकोपेतं वृषस्थलसमन्वितम् ॥ ७० ॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ।
उन्नतौ कूटकोष्ठौ द्वौ चान्तरप्रस्तरान्वितौ ॥ ७१ ॥
गान्धारमिति विख्यातम् अष्टाश्रं च गलं शिरः ।
श्रीविशालमितिख्यातं वर्तुलं वेदिकागलम् ॥ ७२ ॥
शीर्षकं चैव कर्तव्यं शेषं पूर्ववदाचरेत् ।
श्रीभोगमिति विख्यातं सर्वदेवार्हकं परम् ॥ ७३ ॥
वृत्तायते द्वयाश्र वृताष्टाश्रे च षडश्रके ।
कूटकोष्ठादि सर्वाङ्गं प्रागिवैव प्रकल्पयेत् ॥ ७४ ॥
वृषस्थलं मण्टपं च त्यजेत्कर्णं च शीर्षकम् ।
वर्षस्थलविहीनानां कर्णं शीर्षक संयुतम् ॥ ७५ ॥
कूटकोष्ठादि सर्वाङ्गाद्युचितं नागरादिकम् ।
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम् ॥ ७६ ॥
गर्भगेहविशालं च गृहपिण्ड्याग्रमण्टपम् ।
एकभूमि विधानोक्तं द्वितलं तु विशेषतः ॥ ७७ ॥
त्रितलं ह्येवमाख्यातं चतुर्भूमिमथोच्यते ।
इत्यंशुमान्काश्यपे त्रितलविधानपटलः (अष्टाविंशः) ॥ २८ ॥