अथ वक्ष्ये विशेषेण गर्भन्यासविधिं परम् ।
प्रासादं देहमित्युक्तं तस्य प्राणस्तु गर्भकम् ॥ १ ॥
गर्भहीने गृहे विप्र सकुत्कालवन्नवास्यकम् ।
अहमन्ये च देवाश्च न वासे पुन्नगर्भके ॥ २ ॥
तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत् ।
श्रीप्रदं प्राणिनां गर्भम् इतरे श्रीकरं भवेत् ॥ ३ ॥
गर्भन्यासं न कर्तव्यं कर्तव्यं कर्तृनाशनम् ।
अधिष्ठाने प्रतेरूर्ध्वे भूसुराणां हिताय वै ॥ ४ ॥
जगत्यूर्ध्वे नृपाणां तु कुमुदोर्ध्वे विशां परम् ।
होमोर्ध्वे गर्भविन्यासं शूद्राणामभिवृद्धिदम् ॥ ५ ॥
एवं जात्यर्हकं प्रोक्तं भूमौ त्वाद्येष्टकोपरि ।
प्रासादे मण्टपे चैव प्राकारे गोपुरे तथा ॥ ६ ॥
परिवारालये चैव गर्भन्यासं तु कारयेत् ।
यत्रैवाद्येष्टकान्यासं तत्रगर्भं निधापयेत् ॥ ७ ॥
सौवर्णं राजतं ताम्रं श्रेष्ठमध्याधमं क्रमात् ।
कांस्येनैवायसा वापि कर्तव्यं गर्भभाजनम् ॥ ८ ॥
पञ्चाङ्गुलं समारभ्य यावद्वै विंशदङ्गुलम् ।
एकाङ्गुल विवृद्ध्या तु कलासङ्ख्या तु भाजनम् ॥ ९ ॥
एकादिषोडशान्तानां भौमानां तु यथाक्रमम् ।
गर्भभाजनतारास्ते स्वाङ्घ्रिमूलतदन्तु वा ॥ १० ॥
गर्भभाजन विस्तारं सादृशोन्नतन्तथा ।
भाजनोच्च त्रिभागैकं पिधानस्योच्छ्रयं भवेत् ॥ ११ ॥
भाजने द्वित्रिभागान्तं पिधानालम्बनं द्विज ! ।
यवैकव्यासमारभ्य यावार्धं तु विवर्धनात् ॥ १२ ॥
यावत् सार्धाष्ट यवकं तावद्भित्ति विशालकम् ।
प्रागुक्तानां तु फेलायां क्रमशः परिकल्पयेत् ॥ १३ ॥
पञ्चविंशतिकोष्ठादि भाजनाभ्यन्तरे कुरु ।
फेलाभित्ति विशालार्धम् एकोर्वा भित्तेस्तु द्विजसत्तम ॥ १४ ॥
अनन्तादि शिखण्ड्यन्तं मूलमन्त्रं निधापयेत् ।
तद्बाह्ये षोडशे कोष्ठे पूर्वादि क्रमयोगतः ॥ १५ ॥
अकारादि विसर्गान्तं स्वरान्न्यस्त्वा क्रमेण तु ।
रत्नलोहानि धातूंश्च फेलाया भ्यन्तरे न्यसेत् ॥ १६ ॥
मृत्कन्दधान्य पत्राणि गर्भगर्ते तु विन्यसेत् ।
फेलाशुचिं ततो गव्यैः अस्त्रमन्त्रमुदाहरन् ॥ १७ ॥
माणिक्यं विन्यसेत्कूटे कूटाक्षरमुदाहृतम् ।
अनन्ते विन्यसेद्वज्रं सूक्ष्मे तु मौक्तिकं न्यसेत् ॥ १८ ॥
शिवोत्तमेन्द्रनीलं स्यात् स्फटिकं त्वेकनेत्रके ।
एकरुद्रे तु शङ्खं स्यात् त्रिमूर्तौ पुष्यरागकम् ॥ १९ ॥
श्रीकण्ठे सूर्यकान्तं स्यात् वैडूर्यं तु शिखण्डिके ।
स्वर्णे नैव गजं कृत्वा अकारे विन्यसेद्बुधः ॥ २० ॥
कपालं रजतेनैव इकारे तु निधापयेत् ।
ताम्रेणैव कृतं कुम्भम् उकारे द्विजसत्तम ॥ २१ ॥
आरकूटेन खट्वाङ्गम् ऋकारे तु निधापयेत् ।
स्वर्णेन वृषभं कृत्वा कूटाक्षरे निधापयेत् ॥ २२ ॥
आकारे विन्यसेच्छ्यामम् ईकारे तु मनश्शिला ।
ऊकारे जातिलिङ्गं तु ऋकारे गैरिकं न्यसेत् ॥ २३ ॥
सौराष्ट्रं चैव ॡकारे ऐकारे त्वञ्जनं न्यसेत् ।
गोरोचनं तथौकारे विसर्गे हरितालकम् ॥ २४ ॥
तत्तद्बीजमनुस्मृत्य विन्यसेत्तु क्रमेण च ।
यवनी वारशाली च प्रियङ्गुतिलसर्षपम् ॥ २५ ॥
मुद्गानि सप्तबीजानि पूरयेद्गर्भ भाजनम् ।
भाजनोर्ध्वे पिधानेन सुस्निग्धं सुदृढं कुरु ॥ २६ ॥
प्रासादस्योत्तरे चाग्रे पञ्चषट्सप्तहस्त वा ।
षोडशस्तम्भसंयुक्तं प्रपां कृत्वाति सुन्दरम् ॥ २७ ॥
पिधानस्योर्ध्वमाच्छाद्य तरङ्गस्तम्भ वेष्टनम् ।
द्वारतोरणसंयुक्तं दर्भमालादि भूषितम् ॥ २८ ॥
मण्टपस्य त्रिभागैकं मध्ये वेदीं प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधं तालमात्रमथापि वा ॥ २९ ॥
परितस्त्वग्निकुण्डानि महाशासु द्विजोत्तम ! ।
चतुरश्रं धनुर्वृत्तं पद्मं प्रागादिषु क्रमात् ॥ ३० ॥
त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् ।
दर्पणोदरसङ्काशं कुण्डवेदींस्त्वलं कुरु ॥ ३१ ॥
ततः शिल्पिनमुद्वास्य गोमयालेपनं गुरुः ।
पिष्टचूर्णैरलं कृत्य पुण्याहं प्रोक्षणं कुरु ॥ ३२ ॥
वेद्यूर्ध्वे स्थण्डिलं कृत्वा चतुर्द्रोणैः सुशालिभिः ।
तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ३३ ॥
गन्धपुष्पादिभिः पूज्य दिशि देवान्स्वमन्त्रतः ।
गव्याभिषिच्य फेलायां स्नापयेद्गन्ध तोयकैः ॥ ३४ ॥
तन्तुना कौतुकं बध्वा नववस्त्रेण वेष्टयेत् ।
स्थण्डिले स्थापयेत्फेलां कूटाक्षरमुदाहरन् ॥ ३५ ॥
परितोऽष्टौ घटान्न्यस्त्वा ससूत्रान्सापिधानकान् ।
सकूर्चान्वस्त्रसंयुक्तान् गन्धाम्बुपरिपूरितान् ॥ ३६ ॥
विद्येशाधिपकुम्भांस्तान् स्थाप्याभ्यर्च्य स्वमन्त्रतः ।
कुण्डानि पञ्चसंस्कारं कृत्वा होमं समाचरेत् ॥ ३७ ॥
अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ।
समिदाज्य चरुं लाजान् तिलसर्षपतण्डुलान् ॥ ३८ ॥
हृदयादि षडङ्गैश्च ईशानेन क्रमेण तु ।
होमं कृत्वा विशेषेण प्रत्येकाष्टशताहुतिम् ॥ ३९ ॥
द्रव्यान्ते व्याहृतिं हुत्वा मूलेनैव शताहुतिम् ।
जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् ॥ ४० ॥
एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके ।
सुनक्षत्रे सुलग्ने च सुतिथौ च सुवारके ॥ ४१ ॥
आदिशैव कुले जातं स्वाचार्यं शिवदीक्षितम् ।
स्नानद्वयसमायुक्तं सकलीकृतविग्रहम् ॥ ४२ ॥
सितवस्त्रोत्तरीयं च सितमाल्यानुलेपनम् ।
आचार्यं पूजयेत्सम्यक् वस्त्रहेमाङ्गुलीयकैः ॥ ४३ ॥
शिल्पिनं पूजयेत्तत्र वस्त्रैश्चाभरणादिभिः ।
गर्भस्थानं प्रविश्याथ कर्ताचाचार्य शिल्पिभिः ॥ ४४ ॥
अष्टधा विभजेद्भित्तिं बाह्यतश्चतुरं त्यजेत् ।
त्रीणि वाभ्यन्तरे वर्ज्य शेषांशे भाजनं न्यसेत् ॥ ४५ ॥
हृन्नदीसस्य वल्मीकं हलस्थं कुलिरावटे ।
नागदन्ते वृषशृङ्गे वा अष्टमृद्ग्राह्य देशिकः ॥ ४६ ॥
गर्भगर्त तमापूर्य कन्दं न्यस्त्वा मृदोपरि ।
मध्येत्वम्बुजकन्दं च पूर्वे कुमुदकन्दकम् ॥ ४७ ॥
दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्चिमे न्यसेत् ।
सौम्ये कशेरुकन्दं च बीजं तदुपरि न्यसेत् ॥ ४८ ॥
पूर्वे तु विन्यसेच्छालीं ब्रीहि वै दक्षिणे न्यसेत् ।
पश्चिमे कोद्रवं न्यस्त्वा माषमुत्तरतो न्यसेत् ॥ ४९ ॥
पावके विन्यसेन्मुद्गं नैर्-ऋत्यां कङ्गुबीजकम् ।
प्रियङ्गुं वायुभागे तु वैशान्यां तु कुलस्थकम् ॥ ५० ॥
एवं न्यस्त्वा हृदामन्त्रं ततो वै गर्भभाजनम् ।
सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम् ॥ ५१ ॥
जयशब्द समायुक्तं ब्रह्मघोषसमायुतम् ।
प्रासादबीजमुच्चार्य स्थापयेद्गर्भभाजनम् ॥ ५२ ॥
गन्धपुष्पादिभिः पूज्य प्रासादं गर्भभाजने ।
शैलैर्वाचेष्टकाभिर्वा सैकतैस्सुदृढं कुरु ॥ ५३ ॥
गर्भन्यासविधिः ख्यातं ततस्त्वेकतलं शृणु ।
इत्यंशुमान्काश्यपे गर्भन्यासविधिपटलः (पञ्चविंशः) ॥ २५ ॥