अथ वक्ष्ये विशेषेण आयादिलक्षणं परम् ।
हर्म्यविस्तारहस्तं तु गुणवृद्ध्यावसुभिर्हरेत् ॥ १ ॥
शेषं ध्वजादि योनिः स्यात् उत्सेधं तु करं बुधः ।
वर्धयेद्वसुभिर्ह्रासे नक्षत्रेणाहयादिभम् ॥ २ ॥
नववृद्धिं परितो हस्तं पातालैस्त्रासयेद्बुधः ।
शेषमर्कादिवारं स्यात् व्यासायामकरं गुणैः ॥ ३ ॥
वर्धयेत्त्रिंशतिर्ह्रासे शेषं प्रतिपदोदयः ।
तिथयस्तु समाख्याता तुङ्गहस्ताष्ट वृद्धितौ ॥ ४ ॥
मुखभिस्तु हरेच्छेषम् आयमित्युच्यते द्विज ! ।
तुङ्गं नवेन वृद्ध्या तु प्रागि वै नाडिभिर्हरेत् ॥ ५ ॥
शेषं व्ययमितिख्यातम् आयाधिक्यं व्ययं क्षयः ।
केतुसिंहोवृषो हस्ती शुभयोनिमिति स्मृतम् ॥ ६ ॥
शुक्रेशनी बुधो जीवो शुभवारमिति स्मृतम् ।
यजमानस्य जन्मर्क्षा न विरोधदिनं तथा ॥ ७ ॥
वास्तु जन्मानुकूलं च नृपतेश्चानु कूलकम् ।
एवं परीक्ष्य बहुधा अंशुमानं तु सङ्ग्रहेत् ॥ ८ ॥
अथवा विस्तृतायामहस्तमष्टगुणी कृते ।
भानुर्वा एव शेषं तु आयमित्युच्यते बुधः ॥ ९ ॥
नववृद्द्यां दशभिर्ह्रासे शेषं व्यायमुदाहृतम् ।
वसुभिर्गुणिते ऋक्षे हते शेषं हयादिकम् ॥ १० ॥
गुणवद्ध्याष्टभिर्ह्रासे शेषं ध्वजादि योनयः ।
नव वृद्ध्या परिथौ हस्तं सप्तसङ्ख्या तु ह्रासयेत् ॥ ११ ॥
शेषमर्कादिवारं स्यात् नववृद्ध्यास्त्रंशह्रासे तिथिर्भवेत् ।
प्राग्वच्छुभाशुभं वीक्ष्य शुभमानं तु सङ्गृहेत् ॥ १२ ॥
तज्जन्मयुगलं वेदं षडष्टनवमं शुभैः ।
सदेष्टसिद्धिदा ऋक्षाः प्रोक्ताः शेषास्तु वर्जिताः ॥ १३ ॥
नृपकर्तुश्च जन्मर्क्षात् गेह ऋक्षावसानकम् ।
गणयेन्मतिमान्विप्र ! शुभमानं तु गृह्यताम् ॥ १४ ॥
लग्नाष्टमपि नाशं च दुर्योगं च विवर्जयेत् ।
आयादि रेवमाख्यातं नागरादि विधिं शृणु ।
इत्यंशुमान्काश्यपे आयादिलक्षणपटलः (त्रयोविंशाः) ॥ २३ ॥