अथ वक्ष्ये विशेषेण गलभूषणलक्षणम् ।
ऊर्ध्वभूमं च तुङ्गं तु गलमानमुदाहृतम् ॥ १ ॥
आप्तोत्सेधांशमानं वा गलमानं द्विजोत्तम ! ।
तदुच्चं त्रिचतुष्पञ्च अंशं वा वेदिकोदयम् ॥ २ ॥
शेषं गलोदयं ख्यातम् अशेषं वा गलोदयम् ।
वेदिकायास्तु विस्तारं चतुष्पञ्च षडंशकैः ॥ ३ ॥
त्रिचतुष्पञ्चगलव्यासं तत्सङ्ख्या तु यथाक्रमम् ।
अङ्घ्रोर्वेद्यङ्घ्रिवेशं यत् तद्वेदार्गलवेशनम् ॥ ४ ॥
त्रिपादं वा तदर्धं वा वेद्यङ्घ्रेर्गल वेशनम् ।
एवं त्वनेकभेदेषु कर्तुरिच्छावशान्नयेत् ॥ ५ ॥
वेदाश्रं नागरे कण्ठं वस्वश्रं द्राविडे गलम् ।
वृत्तं तु वेसरे हर्म्ये शिष्टानुकूलकं नयेत् ॥ १६ ॥
दिशि भद्रसमायुक्तं नासिकानुकूलिकाङ्घ्रिकम् ।
भानुद्व्यंशेगलोत्सेधे कलांशं तु गलोदयम् ॥ ७ ॥
उत्तरोच्चं गुणांशं तु वाजनं त्वेकभागया ।
अग्न्यंशं वलभीमानं व्योमांशं वाजनोदयम् ॥ ८ ॥
उत्तरेऽर्धङ्गलान्नीव्रं वाजनादीनि पूर्ववत् ।
अथवा नानु भागं तु गलोदयमुदाहृतम् ॥ ९ ॥
उत्तरोच्चं गुणांशं तु शिवांशं वाजनोदयम् ।
तदूर्ध्वे मुष्टिबन्धोच्चम् अध्यर्धांशमुदाहृतम् ॥ १० ॥
मृणाल्युच्चं गुणांशं तु एकांशं पट्टिका भवेत् ।
सार्धांशं दण्डिकोत्सेधं व्योमांशं वर्णपट्टिका ॥ ११ ॥
गोपानं कम्पयेदूर्ध्वे लुपारोहणमेव वा ।
वाजनादीनि निष्क्रान्तं तत्तदुच्चसमं भवेत् ॥ १२ ॥
एवं गलोन्नतं व्यासम् अलङ्कारं च कीर्तितम् ।
इत्यंशुमान्काश्यपे गलभूषणलक्षणपटलः (एकोनविंशः) ॥ १९ ॥