अथ वक्ष्ये विशेषेण प्रस्तरस्य तु लक्षणम् ।
स्तम्भार्धं मञ्चमानं तु आपोत्सेधांशमेव वा ॥ १ ॥
तदुच्चं त्वेकविंशांशं कृत्वा गुणांशकं तरम् ।
वाजनं चैकभागेन भूतमालां ततं त्रिभिः ॥ २ ॥
भूतमालोपरिष्टात्तु वाजनं त्वेकभागया ।
सप्तांशं तु कपोतोच्चम् आलिङ्गं चैकभागया ॥ ३ ॥
अंशेनान्तरितं कुर्यात् प्रत्युत्सेधं गुणांशकम् ।
वाजनं त्वेकभागेन अथवान्यप्रकारतः ॥ ४ ॥
तुङ्गमेकोनविंशांशं कृतोत्तरं त्रिभागया ।
भागेन वाजनं कुर्यात् अग्न्यंशैर्वभी भवेत् ॥ ५ ॥
वाजनं त्वेकभागेन कपोतोच्चं रसांशकम् ।
आलिङ्गमंशमङ्गेन कुर्यादन्तरितं भवेत् ॥ ६ ॥
प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया ।
उत्सेधं चैवमाख्यातम् अङ्गनीव्रमथोच्यते ॥ ७ ॥
स्तम्भात्तु बोधिकानीव्रं बोधिकादुत्तरं तथा ।
वाजनस्य तु निष्क्रान्तिम् उत्तराद्वाजनोन्नतम् ॥ ८ ॥
वाजनं वलयीनीव्रं वलभीतुङ्ग सादृशम् ।
त्रिपादं वा तदर्धं वा प्राग्वद् वाजननीव्रकम् ॥ ९ ॥
वाजनं तु कपोतस्य नीव्रं होमावसानकम् ।
उपानसीमावसानं वा जगत्यन्तं तथापि वा ॥ १० ॥
वाजनादर्धदण्डं वा द्विदण्डं सार्धद्विदण्डकम् ।
वाजनं तु कपोतस्य निव्रोच्चालङ्घनं समम् ॥ ११ ॥
कपोतं गोपानसहितं गोपनरहितं तु वा ।
पादबाह्यसमं प्रोक्तम् आलिङ्गप्रतिरुच्यते ॥ १२ ॥
आलिङ्गान्तरितद्वेशं नीव्रं चोत्सेधसादृशम् ।
वाजनोच्चसमं प्रोक्तं वाजनस्य तु निर्गतिः ॥ १३ ॥
दण्डं त्रिपादमर्धं वा चोत्तरा तस्य नीव्रकम् ।
उत्तरस्यानुकूल्यं तु वाजने नीव्रवेशनम् ॥ १४ ॥
वलभीभूतहंसाद्यैः भूषयेदुत्तरोपरि ।
नानापत्रलताद्यैस्तु कपोते कर्णपालिकाः ॥ १५ ॥
प्रत्यग्रं ककरी बन्धं प्रतिसिंहादिभूषितम् ।
एवं प्रस्तरवर्गं तु प्रोच्यते द्विजसत्तम ! ॥ १६ ॥
इत्यंशुमान्काश्यपे प्रस्तरलक्षणपटलः (अष्टादश) ॥ १८ ॥