१७

अथ वक्ष्ये विशेषेण कम्पद्वारविधिं परम् ।
प्रासादमण्टपादीनां चतुर्दिक्षु विदिक्षु च ॥ १ ॥

तयोर्मध्यान्तराले वा ह्योमाभीष्टं तु यत्र वै ।
तत्रैव कल्पयेत्सम्यक् कम्पद्वारं द्विजोत्तम ! ॥ २ ॥

वस्त्रचितकृतं पङ्क्तिव्यासं यत्तु विशालकम् ।
स्थालादुत्तरसीमान्तं कम्पद्वारोदयं भवेत् ॥ ३ ॥

भुवङ्गं च पतङ्गं च योगं प्राग्वद्घनं ततम् ।
कृत्वा दृढतरं बध्व योजयेदन्तरङ्घ्रयः ॥ ४ ॥

योगव्यासनतन्दीर्घम् अन्तराङ्घ्रिं तथा कुरु ।
मूलाग्रयोः शिखेह्येता ताराङ्घ्रिं परिकल्पयेत् ॥ ५ ॥

भुवङ्गे च पतङ्गे च छिद्रे युज्याद् दृढीकृतम् ।
चतुः पञ्च षडष्टौ वा दश द्वादश एव वा ॥ ६ ॥

ममुषोडशसङ्ख्या वा कल्पयेदन्तराङ्घ्रयः ।
अन्तरायन्तरामत्या गमागमक्षमं विना ॥ ७ ॥

अन्तराङ्घ्रीन्सुयुञ्जीयात् स्थापयेद्द्वारयोगवत् ।
योजयेत्तु कवाटं च व्योमै प्रत्येकमेव वा ॥ ८ ॥

कवाटं व्योमद्वयं ग्रासं त्रिव्योमग्रवस एव वा ।
कल्पयेत्सुदृढं द्वारं न चलं हस्तिनापि च ॥ ९ ॥

कम्पद्वारं समाख्यातं प्रस्तरं तु ततः शृणु ।

इत्यंशुमान्काश्यपे कम्पद्वारलक्षणपटलः (सप्तदश) ॥ १७ ॥