१६

अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् ।
पादोच्चं दशधा भज्य शुद्धद्वारं नवांशकम् ॥ १ ॥

चरणं नवधा भज्यम् अष्टांशं द्वारमानकम् ।
अथवां घ्रिकतुङ्गं तु वसुभागविभाजिते ॥ २ ॥

सप्तांशं द्वारमानं तु शेषं तु रसभाजिते ।
सार्धवह्न्यंशमूर्ध्वे तु भुवङ्गस्योच्छ्रयं भवेत् ॥ ३ ॥

पतङ्गोच्चमधस्तात्तु सार्धद्विभगमुच्यते ।
शुद्धद्वारस्य तुङ्गार्धं शुद्धद्वारस्य विस्तृतम् ॥ ४ ॥

एकद्वित्रिचतुष्पञ्च षट्सप्ताष्ट नवाङ्गुलम् ।
तुङ्गार्धादधिकं हीनं तारमेकोन विंशति ॥ ५ ॥

भेदमेवं त्रिधाख्यातं द्वारतुङ्गं त्रिधा भवेत् ।
सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् ॥ ६ ॥

पादविष्कम्भमानं वा सपादं सार्धमेव वा ।
द्वारयोगस्य विस्तारं तस्यार्धं धनमुच्यते ॥ ७ ॥

साष्टांशार्धघनं वाथ त्रिपादं वाथ तदघनम् ।
योग तुङ्गं तु वेदांशे त्येकांशाश्रमयोगतम् ॥ ८ ॥

गुणांशमूर्ध्वगं ख्यातं बाह्याब्जं क्षेपणान्वितम् ।
बाह्याब्जं क्षेपणोपेतं भुवङ्गतारं च योगवत् ॥ ९ ॥

पतङ्गतारे योगस्य तुल्यमब्जविहीनकम् ।
भुवङ्गं च पतङ्गं च मध्यस्थ बलयान्वितम् ॥ १० ॥

ताम्रजौ वायसौ वाथ वलयौ कीलबन्धितौ ।
तद्विस्तारत्रिभागैक शिखायोगे प्रवेशितौ ॥ ११ ॥

शैलजं च भुवङ्गादि योगाग्रशिखयान्वितौ ।
भुवङ्गपतङ्गयोच्छिद्ररग्रयोर्वेशनान्वितौ ॥ १२ ॥

एवं दृढीकृतं पश्चात् योगस्थापनमाचरेत् ।
सुनक्षत्रे शुभे वारे शुभहोममुहूर्तके ॥ १३ ॥

योगन्तु स्थापयेद्विप्र ! शान्तिहोमपुरस्सरम् ।
भित्तिव्यासे तु पञ्चांशे द्वाभ्यां पञ्चावसानकम् ॥ १४ ॥

अभ्यन्तरे तु सप्तांशसीमा योगस्य मध्यमम् ।
तद्बाह्येऽभ्यन्तरे चैव योगव्यासो गताश्रितम् ॥ १५ ॥

सर्वालङ्कारसंयुक्तं योगं स्थाप्य दृढीकृतम् ।
उभयोः पार्श्वयोः पश्चात् कवाटे योगमाश्रितौ ॥ १६ ॥

प्रत्येकमेकपक्षं वा द्वित्रिपक्षमथापि वा ।
अन्तस्सरदमैर्विप्र कंवाटं तु दृढीकृतम् ॥ ७ ॥

यष्टित्रयान्तरावेतौ चोर्ध्वेधस्ता च्छ्रितौ ।
स्निग्धसारद्रुमै बाह्याभ्यन्तरे यष्टिबन्धितौ ॥ १८ ॥

त्रिपञ्चसप्तसङ्ख्या वा नवरुद्रत्रयोदश ।
पञ्चसप्तदशैवाथ यष्टिसङ्ख्यैकपार्श्वकम् ॥ १९ ॥

तथैवोभयपार्श्वे च लोहकीलैर्दृढीकृतम् ।
वामपार्श्वे कवाटे तु योजयेद्वादुपट्टिका ॥ २० ॥

त्रिचतुः पञ्चमात्रं वा द्वारपट्टिकविस्तृतम् ।
तत्त्रिभागैकभागं तु तस्य नीव्रमुदाहृतम् ॥ २१ ॥

तन्निव्र द्विगुणं ख्यातं नीव्रं वै तत्कवाटयोः ।
कवाटाग्रे च मध्ये च वामपट्टिकपार्श्वयोः ॥ २२ ॥

लोहजं वलयोपेता वेतानी कीलबन्धितम् ।
लोहजं दारुजं वाथ बाह्याभ्यन्तर यष्टयः ॥ २३ ॥

तासां त्रियङ्गुलं तारं तारार्धं घन संयुतम् ।
बध्वा कपाटयोगौ द्वौ दारुलोहैर्दृढीकृतम् ॥ २४ ॥

अर्गलादिसमोपेतं घाटनोद्घाटनक्षमम् ।
परेषां घाटनोद्घाटयन्त्रमव्यक्तमाचरेत् ॥ २५ ॥

प्रासादे मण्टपे चैव गोपुरे चैवमाचरेत् ।
द्वारमेवं समाख्यातं कम्पद्वारमतः शृणु ॥ २६ ॥

इत्यंशुमान्काश्यपे द्वरलक्षणपटलः (षोडश) ॥ १६ ॥