१५

अथ वक्ष्ये विशेषेण वृत्तस्फुटितलक्षणम् ।
षडङ्गुलं समारभ्यं द्विद्व्यङ्गुलविवर्धनात् ॥ १ ॥

कलाङ्गुलावधिर्यावत् तावद्व्यासं तु षट्विधम् ।
वितारार्धं तु तन्निव्रं त्रिद्व्यंशं वा त्रिभागिकम् ॥ २ ॥

वृत्ताकारसमं चैव तोरणङ्घ्रिवदायतम् ।
सकन्धरं तदूर्ध्वे तु शुकनास्यान्वितं तु वा ॥ ३ ॥

कर्णकूटाकृतिं वाथ वृत्ताकारं प्रकल्पयेत् ।
स्तम्भोत्सेधयुगांशे तु द्विभागं चरणायतम् ॥ ४ ॥

प्रस्तरोदयमेकांशं शुकनास्योदयांशकम् ।
तदेव कूटमानं तु तत्तदुक्तावसानयेत् ॥ ५ ॥

अथवान्तरमञ्चं तु प्रोक्तमार्गेण वा कुरु ।
वृत्त स्हुटितमेवं हि लतामण्डलमण्डितम् ॥ ६ ॥

स्तम्भाख्ये तोरणं चैव तथा कुम्भलता द्विज ! ।
वृत्ताख्य स्फुटितं चैव हारान्तरेषु कल्पयेत् ॥ ७ ॥

स्तम्भोत्तरे वा कर्तव्यं हर्म्यादीनां विशेषतः ।

इत्यंशुमान्काश्यपे वृत्तस्फुटित लक्षणपटलः (पञ्चदश) ॥ १५ ॥