१४

अथ वक्ष्ये विशेषेण कुम्भलताविधिं शृणु ।
स्तम्भमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् ॥ १ ॥

पादव्याससमं तुङ्गं सप्तादं पद्मविस्तरम् ।
पद्मोच्चं वसुधा भज्य कम्पमेकांशमुच्यते ॥ २ ॥

अधः पद्मं गुणांशं तु एकांशं गलमुच्यते ।
ऊर्ध्वपद्मं द्विभागं तु कम्पमेकेन कारयेत् ॥ ३ ॥

तदूर्ध्वे कुम्भतुङ्गन्तु पद्मस्योच्चसमं भवेत् ।
तत्तुङ्गद्विगुणं कुम्भं व्यासमित्युच्यते मया ॥ ४ ॥

कुम्भस्य स्तम्भनिर्यूहं वल्लीमण्डलसंयुतम् ।
कुम्भमण्ड्यादिसंयुक्तं वीरकाण्डविहीनकम् ॥ ५ ॥

फलकोपरि पद्मं तु कुम्भमानेन कारयेत् ।
कुम्भं कुम्भं लतां ह्येताम् अन्यथा वक्ष्यते बुधैः ॥ ६ ॥

तदेवोत्सन्धिकोर्ध्वे तु वीरकाण्डसमन्वितम् ।
बोधिकारहितं यत्तत् स्तम्भकुम्भलता स्मृता ॥ ७ ॥

स्तम्भतोरणवन्मूर्ध्नि कर्तव्या तोरणलता ।
एवं त्रिविधिनीत्या तु प्रोच्यते कुम्भलता द्विज ! ॥ ८ ॥

इत्यंशुमान्काश्यपे कुम्भलताविधिपटलः (चतुर्दश) ॥ १४ ॥