१३

अथ वक्ष्ये विशेषेण तोरणानां तु लक्षणम् ।
पादोदये दशांशे तु सप्तांशं चरणोदयम् ॥ १ ॥

शेषं च गुणभागं तु झषमानमुदाहृतम् ।
नवांशे पादतुङ्गं तु षडंशं चरणायतम् ॥ २ ॥

शेषं झषोदयं ख्यातम् अष्टांशे वाङ्घ्रितुङ्गकम् ।
पञ्चांशं चरणोत्तुङ्गं झषोत्सेधं गुणांशकम् ॥ ३ ॥

तुङ्गार्धं विपुलं वाथ वेदभूतरसाङ्घ्रिकैः ।
तोरणस्यैव पाद्बाह्ये व्यासमेवं चतुर्विधम् ॥ ४ ॥

प्रासादमण्टपादीनां मध्यभागे तु तोरणम् ।
अनेन विधिना वापि कर्तव्यं भित्तिबाह्यके ॥ ५ ॥

पत्राख्यतोरणं चादौ द्वितीयं मकरतोरणम् ।
तृतीयं चित्रसञ्ज्ञा तु त्रिविधं तोरणाकृतिः ॥ ६ ॥

अर्धचन्द्रमिवाकारं पत्रजादिविराजितम् ।
पत्रतोरणमाख्यातं ततोमकरमुच्यते ॥ ७ ॥

पञ्चवक्त्रसमायुक्तं पार्श्वयोर्मकरास्यकम् ।
मध्ये पूरीससंयुक्तं नानाविधलतान्वितम् ॥ ८ ॥

नानालङ्कारसंयुक्तं युक्तं मकर तोरणम् ।
तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि ॥ ९ ॥

नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्यकम् ।
सिंहेभव्यालहंसाद्यैः पालास्रं मुक्तदामकैः ॥ १० ॥

अन्यैश्च विविधैश्चित्रैः रत्नबन्धैश्च भूषितम् ।
चित्रतोरणमेतत्स्यात् प्रोच्यते तोरणत्रयम् ॥ ११ ॥

तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ।
पादोच्चं पञ्चषट्सप्तभागेद्वौ तोरणाग्रकम् ॥ १२ ॥

शेषं पादोदयं ख्यातम् एवं चित्रमिदं भवेत् ।
चतुराश्राष्टकं वापि वृत्तं वा तोरणाङ्घ्रिकम् ॥ १३ ॥

कुम्भमण्ड्यादिसंयुक्तं बोधिकारहितं तु वा ।
बोधिका सहितं वापि वीरकाण्डसमन्वितम् ॥ १४ ॥

कुड्यस्तम्भविशालार्धं त्रिपादं वा समं तु वा ।
तोरणाङ्घ्रिविशालं तु प्रोच्यते द्विजसत्तम ! ॥ १५ ॥

उत्तरं वाजनं साब्जक्षेपणं कुद्रवाजनम् ।
यथाक्रमेण सङ्कल्प्य अनेन विधिना बुधः ॥ १६ ॥

तोरणाङ्घ्रि विशालं वा त्रिपादं वोत्तरोदयम् ।
तदर्धं वाजनोच्चं तु तस्यार्धं दलमानकम् ॥ १७ ॥

दलोर्ध्वक्षेपणं ख्यातं तस्यार्धं क्षुद्रवाजनम् ।
उत्तरं बोधिकोर्ध्वे वा वीरकाण्डे तु वा भवेत् ॥ १८ ॥

उत्सन्ध्यं तन्नताग्रेण कुर्यान्मकरविष्ठरम् ।
तोरणाग्रविशालं तु कुड्यस्तम्भोदयार्धकम् ॥ १९ ॥

कुड्यस्तम्भद्वयोरन्तर्व्यासं वा तोरणाग्रकम् ।
अङ्घ्रिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा ॥ २० ॥

एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् ।
कुड्यतोरणमाख्यातं द्वारतोरणमुच्यते ॥ २१ ॥

द्वारतुल्योन्नतं व्यासं तोरणाङ्घ्र्यन्तरं समम् ।
उत्तरं वाजनं चाब्जक्षेपणं चाष्टमङ्गलम् ॥ २२ ॥

फलका पञ्चवक्त्राढ्यं प्रागुक्त विधिना कुरु ।
पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा ॥ २३ ॥

मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् ।
दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ॥ २४ ॥

श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
श्रीवत्सं मध्यमे कुर्यात् शेषास्तु तस्य पार्श्वयोः ॥ २५ ॥

लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् ।
द्वारतोरणमेवं हि स्तम्भतोरणमुच्यते ॥ २६ ॥

पादोच्चं तु त्रिधाभज्य द्विभागं चरणोदयम् ।
पादं सर्वाङ्गसंयुक्तं बोधिकारहितं कुरु ॥ २७ ॥

उत्तरं वाजनं चाब्जक्षेपणं निम्नवाजनम् ।
तदूर्ध्वे झषखण्डं तु नानाचित्रैर्विचित्रितम् ॥ २८ ॥

तोरणं मकराख्यं तु मृणाभ्ये द्विक्रकन्धरम् ।
द्युडानलात्मसंयुक्तम् एतत्स्यात्स्तम्भतोरणम् ॥ २९ ॥

पादान्तरे वा हारायां कर्णप्रासादमध्यमे ।
शालामध्यान्तरालायां कर्तव्यं सर्वधामसु ॥ ३० ॥

स्तम्भतोरणमाख्यातं कुम्भलता विधिं शृणु ।

इत्यंशुमान्काश्यपे तोरणलक्षण पटलः (त्रयोदश) ॥ १३ ॥