११

अथ वक्ष्ये विशेषेण वेदिका लक्षणं परम् ।
अधिष्ठानोपरिष्ठात्तु स्तम्भमूले तु कल्पयेत् ॥ १ ॥

प्रस्तरस्योपरिष्टाच्च कर्तव्या वेदिका द्विज ! ।
अध्यर्धदण्डमानं तु कन्यसा वेदिकामधम् ॥ २ ॥

द्विदण्डेन तु मध्यं स्यात् श्रेष्ठतुङ्गं त्रिदण्डकम् ।
अथवान्य प्रकारेण वेदिकोत्सेधमुच्यते ॥ ३ ॥

चरणोदय षट्सप्तवसुभाग विभाजिते ।
एकांशं वेदिकामानं क्रमाच्छ्रेष्ठान्तराधमम् ॥ ४ ॥

एवं हि चरणायां तु मूले तु वेदिकोदयम् ।
ऊर्ध्वे भूम्यङ्घ्रि तुङ्गं तु सप्तभागं विभाजिते ॥ ५ ॥

एकांशं कण्ठहर्म्याणां वेदिकोदयमिष्यते ।
त्रिचतुःपञ्चभागं तु गलोत्सेधं विभाजिते ॥ ६ ॥

गलमूले तु वेद्युच्चम् अंशं श्रेष्ठान्तराधमम् ।
आपेतोत्सेधांशमानं वा गलमूले तु वेदिका ॥ ७ ॥

षडंशे वेदिकोत्सेधं गुणांशं गलमानकम् ।
गलोर्ध्वे कम्पमेकांशम् एकेनाब्जं प्रकल्पयेत् ॥ ८ ॥

तदूर्ध्वकम्पमेकेन कर्तव्यं द्विजसत्तम ! ।
सप्तांष्टांशे तु वेद्युच्चे वेदभूतं क्रमाद्गलम् ॥ ९ ॥

कम्पपद्मं च कम्पं च प्रागिवैव प्रकल्पयेत् ।
कर्णमानेन तन्मूले कम्पमेकेन कल्पयेत् ॥ १० ॥

शेषं कर्णोदयं प्रोक्तं तत्कम्परहितं तु वा ।
अध्यर्धांशं तु वा पद्मं तुङ्गं द्व्यंशमथापि वा ॥ ११ ॥

पद्मशैवलपत्राभा चित्राङ्गा वेदिका मता ।
सर्वासां वेदिकानां तु गलमङ्घ्रिविभूषितम् ॥ १२ ॥

कुड्यस्तम्भसमं व्यासं नीव्रं च वेदिकाङ्घ्रिणा ।
प्रस्तरोपरिवेदीनां वेशनं शृणु सुव्रत ! ॥ १३ ॥

गर्भभित्तित्रिभागैकम् अङ्घ्रिवेद्यङ्घ्रिवेशनम् ।
चतुर्भागैकवेशं वा * * * * * * * * ॥ १४ ॥

कुड्यस्तम्भस्य बाह्यां तु वेद्याङ्घ्री बाह्यवेशनम् ।
एवं वान्यप्रकारेण वेदिका विस्तृतं शृणु ॥ १५ ॥

कुड्यपाद्बाह्यमानं तु उभयोः पार्श्वयोरपि ।
षट्सप्ताष्टनवांशं वा दशभागं तु वा भजेत् ॥ १६ ॥

एकांशरहितं शेषं वेदिकायास्तु विस्तरम् ।
युगाश्रवेदिकाकारा नागरे प्रस्तरोपरि ॥ १७ ॥

द्राविडे वेसरे हर्म्ये वस्वश्रं वेदिकाकृतिः ।
अथवा वेसरे हर्म्ये वेदिका वृत्तमेव वा ॥ १८ ॥

अनेकाश्रायताश्रे च गलाश्रा वेदिकाश्रकाः ।
वेदिकालक्षणं प्रोक्तं शृणु जालाकलक्षणम् ॥ १९ ॥

इत्यंशुमान्काश्यपे वेदिकालक्षणपटलः (एकादश) ॥ ११ ॥