०८

अथ वक्ष्ये विशेषेण चरणायामविस्तृतम् ।
आकारं भूषणं चैव सङ्क्षेपाच्छृणु सुव्रत ॥ १ ॥

स्तम्भं च तलिपं चैव चरणं जङ्घमेव च ।
स्थाणुः स्थूणं च पादं च पर्याय वचनस्त्विमे ॥ २ ॥

आप्तोत्सेधांशमानेन पादायामं विधीयते ।
अधिष्ठानस्य तुङ्गस्य द्विगुणं वाङ्घ्रितुङ्गकम् ॥ ३ ॥

तस्माद्धरातलोच्चं तु षडष्टांशाधिकं तु वा ।
पादोच्चपङ्क्ती नन्दाष्टभागैकं वाङ्घ्रितुङ्गकम् ॥ ४ ॥

दारुपादं तु ततं ह्येतत् कुड्यपादमथोच्यते ।
तदर्धं वा त्रिभागोनचतुर्भागोनमेव वा ॥ ५ ॥

कुड्यस्तम्भविशालं स्यात् एतत्सर्वेषु धामसु ।
प्रतेरुत्तरसीमान्तं (अन्यराघ?) षालस्तम्भमुच्यते ॥ ६ ॥

उपानादुत्तरान्तं यत् निखातस्तम्भमुच्यते ।
तुङ्गं सप्ताष्टधा भज्य नवधर्मांशमेव वा ॥ ७ ॥

रुद्रभान्वंशकं कृत्वा एकांशं त्वङ्घ्रिविस्तरम् ।
तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् ॥ ८ ॥

एकभागविहीनं तु शेषमग्रविशालकम् ।
एकादिषोडशान्तानां तलं प्रत्येवमाचरेत् ॥ ९ ॥

मूलादग्रं युगाश्रं तु कुम्भमृण्ड्यादि संयुतम् ।
ब्रह्मकान्तमिति ख्यातं वस्वश्रं विष्णुकान्तकम् ॥ १० ॥

रसाश्रमिन्द्रकान्तं स्यात् चन्द्रकान्तं कलाश्रकम् ।
कण्ठमानेन तन्मूले वेदाश्रं तु प्रकल्पयेत् ॥ ११ ॥

स्तम्भाग्रं चैकमानेन चतुरश्रसमन्वितम् ।
तयोर्मध्यं तु वस्वश्रं षोडशाश्रमथापि वा ॥ १२ ॥

वृत्ताकारं तु वा विप्र ! कुम्भमण्ड्यादि संयुतम् ।
रुद्रकान्तमिदं ख्यातं मूलादग्रं तु वर्तुलम् ॥ १३ ॥

कुम्भमण्ड्यादिहीनं यत् तद्व्यापी रुद्रकान्तकम् ।
मूलादग्रं युगाश्रं तु मध्येष्टाश्रं तदुच्यते ॥ १४ ॥

चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा ।
तदूर्ध्वे वृत्तमेवं स्यात् त्रिभागं तुङ्गसादृशम् ॥ १५ ॥

शिवच्छन्दमिदं ख्यातं शिवहर्म्ये प्रशंसितम् ।
दण्डं सार्धद्विदण्डं वा मूले पद्मासनोदयम् ॥ १६ ॥

द्विगुणं तस्य विस्तारं पद्माकारं तु कारयेत् ।
सपद्मं कर्णिकायां तु चरणस्थापनं कुरु ॥ १७ ॥

यथेष्टाकृतिसंयुक्तं कुम्भमण्ड्यादिसंयुतम् ।
चक्रवाकलताद्यैस्तु भूषितं पद्मपादकम् ॥ १८ ॥

पद्ममानेङ्घ्रिमूले तु व्यालेन व्यालपादकम् ।
मूलेभं तत्प्रमाणेन गजपादमुदाहृतम् ॥ १९ ॥

मूले सिंहादिभिर्युक्तं यथेष्टाकृति संयुतम् ।
कुम्भमण्ड्यादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् ॥ २० ॥

वृत्ताकारे तदायामे शुण्डुपादैः समन्वितम् ।
कुम्भमण्ड्यादिसंयुक्तं शुण्डुपादमुदाहृतम् ॥ २१ ॥

मुक्तादामैरलं कृत्य पिण्डिपादमुदाहृतम् ।
विष्कम्भ कर्णमानेन स्तम्भाग्रे चतुरश्रकम् ॥ २२ ॥

तदर्धस्वर्धदण्डेन त्वब्जमष्टाश्रसंयुतम् ।
दण्डमानेन तस्याधो वस्वश्रं परिकल्पयेत् ॥ २३ ॥

तदधः पूर्ववत्पद्मं तस्याधो दण्डमानतः ।
चतुरश्र समायुक्तं तस्याधस्तात्तु पूर्ववत् ॥ २४ ॥

मूले तु शेषं वेदाश्रं चित्रं वाथ तदुच्यते ।
तन्मध्ये पट्टं वस्वश्रं श्रीकण्ठं तदुदाहृतम् ॥ २५ ॥

मध्यपट्टकलाश्रं चेत् श्रीवक्त्रं स्तम्भमुच्यते ।
मुलादग्रं युगाश्रं स्यात् त्रिपट्टं क्षेपणान्वितम् ॥ २६ ॥

क्षेपणस्तम्भमाख्यातं पट्टं पत्रादिशोभितम् ।
स्तम्भतारत्रिभागैकं चतुर्भागैकमेव वा ॥ २७ ॥

स्तम्भमध्ये शिवां कुर्यात् ऊर्ध्वाधस्ताद्विशेषतः ।
स्तम्भमूले तु पद्मादीन् स्तम्भमानेन कल्पयेत् ॥ २८ ॥

स्तम्भलक्षणमाख्यातं बोधिकालक्षणं शृणु ।

इत्यंशुमान्काश्यपे स्तम्भलक्षण पटलः (अष्टमः) ॥ ८ ॥