०५

अथ वक्ष्ये विशेषेण उपपीठविधिं परम् ।
स्वाधिष्ठानसमोच्चं वा त्रिपादं वार्धमेव वा ॥ १ ॥

पञ्चभागाग्निभागं वा सपादं सार्धमेव वा ।
पादोनद्विगुणं वाथ द्विगुणं वा विशेषतः ॥ २ ॥

एवमष्टविधं ख्यातम् उपपीठोदयं द्विज ।
दशधाभज्यमधिष्ठानम् एकद्वित्रिचतुष्टयम् ॥ ३ ॥

पञ्चांशं वाथ निष्क्रान्तम् अधिष्ठानस्य पादुका ।
उपपीठस्य नीर्वं तु पञ्चधा परिकीर्तितम् ॥ ४ ॥

तन्नीव्रमुपपीठे तु पादवाह्यं परिकल्पयेत् ।
अथवाग्रपादसदृशं द्विगुणद्विगुणं तथा ॥ ५ ॥

जगतेनीर्व तुल्यं वा उपानसदृशं तु वा ।
एवं हि पञ्च भेदं स्यात् उपपीठस्य निर्गमम् ॥ ६ ॥

सभादीनामुपपीठस्य निष्क्रान्तं दण्डमुच्यते ।
सभादीनां तु तद्बाह्ये निष्क्रान्तं दण्डमुच्यते ॥ ७ ॥

अथैकदण्डमारभ्य नवदण्डावसानकम् ।
उपानं नवधा तीव्रम् अधमादित्रयं त्रयम् ॥ ८ ॥

तदुच्चे द्वादशांशे तु उपानोच्चं द्विभागया ।
पद्ममंशेन कर्तव्यम् अर्धांशं कम्पमुच्यते ॥ ९ ॥

भूतांशकण्ठतुङ्गं तु कम्पमब्जं तु पूर्ववत् ।
सार्धांशं वाजिनं कुर्यात् कम्पमर्धेन कारयेत् ॥ १० ॥

अष्टाङ्गमेवमाख्यातं षडङ्गं तद्विनाम्बुजम् ।
कम्पेनाम्बुजमानं तु योज्यं भद्रोपपीठकम् ॥ ११ ॥

ऊर्ध्वकम्पं विना वापि पञ्चाङ्गमुपपीठकम् ।
उपपीठस्य चोत्सेधं सप्तविंशतिभाजिते ॥ १२ ॥

द्विभागं पादुकोत्सेधं पङ्कजं तत्समं भवेत् ।
कम्पमेकांशमित्युक्तं द्वादशांशं गलोदयम् ॥ १३ ॥

उत्तरं चैकभागेन तत्समं चोर्ध्वमम्बुजम् ।
अग्निभागं कपोतोच्चं मंशमालिं मिष्यते ॥ १४ ॥

त्र्यश्रमेकेनमन्तरितं कुर्यात्प्रतिद्विभागया ।
वाजनं चैकभागेन नाम्ना तत्प्रतिभद्रकम् ॥ १५ ॥

द्विभागं पादुकोत्सेधं द्विभागं पङ्कजोदयम् ।
कम्पमेकेन कर्तव्यम् एकान्तरितं भवेत् ॥ १६ ॥

द्विभागं प्रतितुङ्गं तु त्वेकेनैव तु वाजिनम् ।
अष्टांशं गलमानं तु कम्पमेकेन कारयेत् ॥ १७ ॥

अब्जमेकेन कर्तव्यं कपोतोच्चं गुणांशकम् ।
एकेन लिङ्गमानं तु मन्तर्यंशेन कल्पयेत् ॥ १८ ॥

प्रतितुङ्गं द्विभागेन वाजनं चैकभागया ।
सप्तविंशतिभागे तु नाम्ना तत्प्रतिसुन्दरम् ॥ १९ ॥

उपपीठस्य चोत्सेधम् एकविंशतिभाजिते ।
उपानं तु द्विभागेन तत्समं त्वम्बुजोदयम् ॥ २० ॥

कम्पमर्धेन कर्तव्यं पद्ममर्धेन कारयेत् ।
महापट्टी द्विभागेन पद्ममर्धेन कारयेत् ॥ २ ॥

कम्पमर्धेन कर्तव्यं कर्णोच्चं वसुभागया ।
भागेन कम्पमर्धेन पद्मकम्पे कपोतकम् ॥ २२ ॥

त्रिभिस्तत्कम्पमर्धेन नाम्ना सौभद्रमुच्यते ।
उपानद्विभागमर्धांशैः अम्बुजांशेन कन्धरम् ॥ २३ ॥

द्विभागेनाब्जं कर्तव्यं पट्टिका तत्समं भवेत् ।
पद्मकं सार्धभागेन कम्पमर्धेन कारयेत् ॥ २४ ॥

सप्तभागं गलोत्सेधं कम्पमर्धेन कारयेत् ।
अम्बुजं सार्धभागेन महापट्टी द्विभागया ॥ २५ ॥

अब्जमर्धार्धभागेन कम्पमर्धेन कारयेत् ।
पञ्चपञ्चोपपीठोच्च समभागद्विभाजिते ॥ २६ ॥

कल्याण कारिका नाम्ना सर्वधामसु पूजितम् ।
एवं षडङ्गमाख्यातम् उपपीठं द्विजोत्तम ! ॥ २७ ॥

अङ्गनिष्क्रान्तवेशं च अधिष्ठानविधानवत् ।
भूतैव्यालेभसिंहैश्च मकरैः पत्रजातिभिः ॥ २८ ॥

उपपीठगले विप्र ! भूषयेत्सर्वलक्षणम् ।
प्रत्यग्रमकरस्याभा वालारूढसमस्तकम् ॥ २९ ॥

अवले बलवर्धं च अधिष्ठानोत्तमाचरेत् ।
उपपीठं समाख्यातम् अधिष्ठानविधिं शृणु ॥ ३० ॥

इत्यंशुमान्काश्यपे उपपीठविधान पटलः (पञ्चमः) ॥ ५ ॥